पञ्चमं मण्डलम् - सूक्तम् 35

8 ऋचः

ऋषिः: प्रभूवसुरांगिरसः देवता: इंद्रः छन्दः: अनुष्टुप्

सूक्तम् 5.35 - सम्पूर्णम्

1 / 8
ऋक्: 5.35.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (8)
5.35.1
यस्ते॒ साधि॒ष्ठो॑व᳚स॒ इन्द्र॒ क्रतु॒ष्टमा भ᳚र ।
अ॒स्मभ्यं᳚ चर्षणी॒सहं॒ सस्निं॒ वाजे᳚षु दु॒ष्टर᳚म् ॥
▶ पदपाठः (Word-by-word)
यः । ते॒ । साधि᳚ष्ठः । अव᳚से । इन्द्र᳚ । क्रतुः᳚ । तम् । आ । भ॒र॒ ।
अ॒स्मभ्य᳚म् । च॒र्ष॒णि॒॑सह᳚म् । सस्नि᳚म् । वाजे᳚षु । दु॒स्तर᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र ते तव यः साधिष्ठोतिशयेनसाधकः क्रतुरुक्तलक्षणंकर्मप्रज्ञावास्ति तंक्रतुंनोवसेस्मद्रक्षणायास्मभ्यं आभर आहर कीदृशंतं चषर्णीसहं सर्वेषांमनुष्यणामभिभवितारंसस्निंसंस्नातं शुद्धं वाजेषुसंग्रामेषुदुष्टरं अन्यैरनभिभाव्यम् ॥ १ ॥

5.35.2
यदि᳚न्द्र ते॒ चत᳚स्रो॒ यच्छू᳚र॒ सन्ति᳚ ति॒स्रः ।
यद्वा॒ पञ्च᳚ क्षिती॒नामव॒स्तत्सु न॒ आ भ᳚र ॥
▶ पदपाठः (Word-by-word)
यत् । इ॒न्द्र॒ । ते॒ । चत᳚स्रः । यत् । शू॒र॒ । सन्ति᳚ । ति॒स्रः ।
यत् । वा॒ । पञ्च᳚ । क्षि॒ती॒नाम् । अवः᳚ । तत् । सु । नः॒ । आ । भ॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र ते तव यत् याऊतयः चतस्रः चतसृषुवर्णेषुसंश्रिताःसन्ति याश्चहेशूर तिस्रः त्रिषु लोकेषुवर्तमानाः यद्वा वाशब्दश्चार्थे यत् याश्चपंचक्षितीनांपंचजनसंबन्धिन्यऊतयः सन्ति अवोरक्षणंतत्सर्वं सुसुष्ठुनोस्मभ्यमाभर आहरेति ॥ २ ॥

5.35.3 समानपद
आ ते॑वो॒ वरे᳚ण्यं॒ वृष᳚न्तमस्य हूमहे ।
वृष᳚जूति॒र्हि ज᳚ज्ञि॒ष आ॒भूभि᳚रिन्द्र तु॒र्वणि᳚ः ॥
▶ पदपाठः (Word-by-word)
आ । ते॒ । अवः᳚ । वरे᳚ण्यम् । वृष᳚न्॑तमस्य । हू॒म॒हे॒ ।
वृष᳚॑जूतिः । हि । ज॒ज्ञि॒षे । आ॒॑भूभिः᳚ । इ॒न्द्र॒ । तु॒र्वणिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र वृषन्तमस्यफलानांवर्षकतमस्यतेतवावोरक्षणं गमनंवा वरेण्यं वरणीयमाहूमहे आह्वयामः हेइन्द्र वृषजूतिः वर्षणगमनः तुर्वणिस्तूर्णवनिर्हिंसकोवात्वं आभूभिः सर्वतोभवद्भिः व्याप्तैर्मरुद्भिः सहावोहि जज्ञिषे उत्पादयसिखलु तेअवआह्वयामहति यद्वा वृषगमनःसन् अद्ययज्ञमागत्यफलंजज्ञिषे तस्मात्तेवोहूमहइति ॥ ३ ॥

5.35.4
वृषा॒ ह्यसि॒ राध᳚से जज्ञि॒षे वृष्णि᳚ ते॒ शवः᳚ ।
स्वक्ष᳚त्रं ते धृ॒षन्मनः᳚ सत्रा॒हमि᳚न्द्र॒ पौंस्य᳚म् ॥
▶ पदपाठः (Word-by-word)
वृषा᳚ । हि । असि᳚ । राध᳚से । ज॒ज्ञि॒षे । वृष्णि᳚ । ते॒ । शवः᳚ ।
स्व॑क्ष᳚त्रम् । ते॒ । धृ॒षत् । मनः᳚ । स॒त्रा॒॑हम् । इ॒न्द्र॒ । पौंस्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र राधसे यजमानानांसमृद्धये वृषाह्यसि फलस्यवर्षकोसिखलु यद्वा वृषाखल्वसि राधसेधनार्थंजज्ञिषे उत्पद्यसे तेशवोबलंवृष्णिवर्षितृ तेमनःस्वक्षत्रंस्वायत्तबलंधृषत् धर्षकंविरोधिनां हेइन्द्र तेपौंस्यं पुंस्त्वं सत्राहं संघहन्तृ ॥ ४ ॥

5.35.5 समानपद
त्वं तमि᳚न्द्र॒ मर्त्य᳚ममित्र॒यन्त᳚मद्रिवः ।
स॒र्व॒र॒था श᳚तक्रतो॒ नि या᳚हि शवसस्पते ॥
▶ पदपाठः (Word-by-word)
त्वम् । तम् । इ॒न्द्र॒ । मर्त्य᳚म् । अ॒मि॒त्र॒॑यन्त᳚म् । अ॒द्रि॒॑वः॒ ।
स॒र्व॒॑र॒था । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो । नि । या॒हि॒ । श॒व॒सः॒ । प॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वं तममित्रयन्तं शत्रुत्वमाचरन्तं शत्रुंवाइच्छंतंमर्त्यं हेअद्रिवोवज्रवन्निन्द्र सर्वरथासर्वत्रव्याप्तेनरथेन सुपांसुलुगित्याकारः हेशतक्रतो हेशवसस्पते बलस्यपालकेन्द्र नियाहि नितरांगच्छ अभिभवितुम् ॥ ५ ॥

5.35.6 समानपद
त्वामिद्वृ᳚त्रहन्तम॒ जना᳚सो वृ॒क्तब᳚र्हिषः ।
उ॒ग्रं पू॒र्वीषु᳚ पू॒र्व्यं हव᳚न्ते॒ वाज᳚सातये ॥
▶ पदपाठः (Word-by-word)
त्वाम् । इत् । वृ॒त्र॒ह॒न्॑त॒म॒ । जना᳚सः । वृ॒क्त॑ब᳚र्हिषः ।
उ॒ग्रम् । पू॒र्वीषु᳚ । पू॒र्व्यम् । हव᳚न्ते । वाज᳚॑सातये ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवृत्रहन्तम अतिशयेनशत्रूणांहन्तरिन्द्र त्वामित् त्वामेवजनासोजनाः वृक्तबर्हिषः आच्छादितदर्भाः प्रवृत्तयज्ञाइत्यर्थः उग्रमुद्भूर्णबल पूर्वीषुबह्वीषुप्रजासुमध्ये पूर्व्यं पुरातनं सन्तं वाजसातये संग्रामान हवेन्ते आह्वयन्ते ॥ ६ ॥

5.35.7 समानपद
अ॒स्माक᳚मिन्द्र दु॒ष्टरं᳚ पुरो॒यावा᳚नमा॒जिषु᳚ ।
स॒यावा᳚नं॒ धने᳚धने वाज॒यन्त᳚मवा॒ रथ᳚म् ॥
▶ पदपाठः (Word-by-word)
अ॒स्माक᳚म् । इ॒न्द्र॒ । दु॒स्तर᳚म् । पु॒रः॒॑यावा᳚नम् । आ॒जिषु᳚ ।
स॒॑यावा᳚नम् । धने᳚॑धने । वा॒ज॒॑यन्त᳚म् । अ॒व॒ । रथ᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्रास्माकंरथं रंहणस्वभावंवा पुत्रमवरक्ष कीदृशंरथं दृष्टरं दुःखेनतरणीयं आजिषुसंग्रामेषुपुरोयावानं पुरतोमिश्रयितारं सयावानं अनुचरैः सहगन्तारं धनेधने सर्वेषुधनेषु वाजयन्तं संग्रामंधनंवाइच्छन्तम् ॥ ७ ॥

5.35.8
अ॒स्माक᳚मि॒न्द्रेहि᳚ नो॒ रथ᳚मवा॒ पुरं᳚ध्या ।
व॒यं श᳚विष्ठ॒ वार्यं᳚ दि॒वि श्रवो᳚ दधीमहि दि॒वि स्तोमं᳚ मनामहे ॥
▶ पदपाठः (Word-by-word)
अ॒स्माक᳚म् । इ॒न्द्र॒ । आ । इ॒हि॒ । नः॒ । रथ᳚म् । अ॒व॒ । पुर᳚म्॑ध्या ।
व॒यम् । श॒वि॒ष्ठ॒ । वार्य᳚म् । दि॒वि । श्रवः᳚ । द॒धी॒म॒हि॒ । दि॒वि । स्तोम᳚म् । म॒ना॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्रास्माकं अस्मदीयएवसन् एहि आगच्छ आगत्यच पुरंध्याशोभनबुद्भानोस्माकं रथमव रक्ष वयंच हेशविष्ठ अतिशयेनबलवन् त्वदनुग्रहाद्वार्थं वरणीयं श्रवोन्नं कीर्तिंवा दिवि द्योतमानेत्वयि दधीमहि स्थापयामः तथा दिवित्वयिस्तोमंस्तोत्रंमनामहे करवामहेइत्यर्थः ॥ ८ ॥

सआगमदितिषळृचंचतुर्थंसूक्तं आंगिरसःप्रभूवसुरृषिः तृतीयाजगती शिष्टाअनुक्तत्वान्त्रिष्टुभः इन्द्रोदेवता अनुक्रांतंच-सआगमत्षट्तृतीयाजगतीति । विनियोगोलैंगिकः ।