पञ्चमं मण्डलम् - सूक्तम् 60

8 ऋचः

ऋषिः: श्यावाश्व आत्रेयः देवता: मरुतो मरुतो वाग्निश्च छन्दः: त्रिष्टुप्

सूक्तम् 5.60 - सम्पूर्णम्

1 / 8
ऋक्: 5.60.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (8)
5.60.1
ईळे᳚ अ॒ग्निं स्वव᳚सं॒ नमो᳚भिरि॒ह प्र᳚स॒त्तो वि च᳚यत्कृ॒तं नः᳚ ।
रथै᳚रिव॒ प्र भ᳚रे वाज॒यद्भि᳚ः प्रदक्षि॒णिन्म॒रुतां॒ स्तोम᳚मृध्याम् ॥
▶ पदपाठः (Word-by-word)
ईळे᳚ । अ॒ग्निम् । सु॒॑अव᳚सम् । नमः᳚॑भिः । इ॒ह । प्र॒॑स॒त्तः । वि । च॒य॒त् । कृ॒तम् । नः॒ ।
रथैः᳚॑इव । प्र । भ॒रे॒ । वा॒ज॒यत्॑भिः᳚ । प्र॒॑द॒क्षि॒णित् । म॒रुता᳚म् । स्तोम᳚म् । ऋ॒ध्या॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अहंश्यावाश्वेग्निं स्ववसं स्वायत्तरक्षणं नमोभिःस्तोत्रैः ईळे स्तौमि तत्स्तोत्रंकृतमिहेदानीं प्रसत्तः प्रसन्नः प्रकर्षेणयज्ञंप्राप्तोवासन् नोस्मदर्थं विचयत् विजानातु वाजयद्भिरन्नमिच्छद्भिः स्तोत्रैः रथैरिव रथैर्यथाभिमतंप्राप्नुवन्ति तद्वत् रंहणसाधनैः प्रभरे प्रकर्षेण संपाद- यामि अभिमतं प्रदक्षिणित् प्रादक्षिण्येनगच्छन् मरुतांस्तोमं स्तोत्रमृध्यांवर्धयेयम् ॥ १ ॥

5.60.2
आ ये त॒स्थुः पृष᳚तीषु श्रु॒तासु᳚ सु॒खेषु᳚ रु॒द्रा म॒रुतो॒ रथे᳚षु ।
वना᳚ चिदुग्रा जिहते॒ नि वो᳚ भि॒या पृ᳚थि॒वी चि᳚द्रेजते॒ पर्व᳚तश्चित् ॥
▶ पदपाठः (Word-by-word)
आ । ये । त॒स्थुः । पृष᳚तीषु । श्रु॒तासु᳚ । सु॒॑खेषु᳚ । रु॒द्राः । म॒रुतः᳚ । रथे᳚षु ।
वना᳚ । चि॒त् । उ॒ग्राः॒ । जि॒ह॒ते॒ । नि । वः॒ । भि॒या । पृ॒थि॒वी । चि॒त् । रे॒ज॒ते॒ । पर्व᳚तः । चि॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

येमरुतोरुद्रारुद्रपुत्राः आतस्थुः आतिष्ठन्ति पृषतीषु मरुतांवाहनेषु श्रुतासु श्रान्तासु प्रसिद्धासुवा सुखेषु खमाकाशंछिद्रं शोभनरथाक्ष- द्वारेषु रथेषु रथानातस्थुरातिष्ठन्ति हेउग्राः उदूर्णबलामरुतोयूयं यदा रथमारूढाःस्थ तदानींवनाचित् वनान्यपिनिजिहतेन्यग्गछन्ति वो- युष्माकं भिया भीत्या पृथिवीचित् पृथिव्यपिरेजते पर्वतश्चित् पर्वतोपिरेजते कंपते उत्तरार्धः प्रत्यक्षकृतः पूर्वार्धेयएवमकुर्वन् तेषांस्तोम- मृध्यामितिपूर्वत्रान्वयः ॥ २ ॥

5.60.3
पर्व᳚तश्चि॒न्महि᳚ वृ॒द्धो बि᳚भाय दि॒वश्चि॒त्सानु᳚ रेजत स्व॒ने वः᳚ ।
यत्क्रीळ᳚थ मरुत ऋष्टि॒मन्त॒ आप᳚ इव स॒ध्र्य᳚ञ्चो धवध्वे ॥
▶ पदपाठः (Word-by-word)
पर्व᳚तः । चि॒त् । महि᳚ । वृ॒द्धः । बि॒भा॒य॒ । दि॒वः । चि॒त् । सानु᳚ । रे॒ज॒त॒ । स्व॒ने । वः॒ ।
यत् । क्रीळ᳚थ । म॒रु॒तः॒ । ऋ॒ष्टि॒॑मन्तः᳚ । आपः᳚॑इव । स॒ध्र्य᳚ञ्चः । ध॒व॒ध्वे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतः वोयुष्माकं स्वनेभयंकरशब्देसति पर्वतश्चित् पर्वतोपि महि महान् वृद्धःसन्नपि बिभाय बिभेति दिवश्चित् अन्तरिक्षस्यापि सानुसमुच्छ्रितःप्रदेशोरेजत कंपते यद्यदा क्रीडथ हेमरुतोयूयं ऋष्टिमन्तआयुधवन्तःसन्तः तदा आपइव उदकानीव सध्र्यंचः सहांचनाः धवध्वे धावध्वे गच्छथ ॥ ३ ॥

5.60.4 समानपद
व॒रा इ॒वेद्रै᳚व॒तासो॒ हिर᳚ण्यैर॒भि स्व॒धाभि᳚स्त॒न्व᳚ः पिपिश्रे ।
श्रि॒ये श्रेयां᳚सस्त॒वसो॒ रथे᳚षु स॒त्रा महां᳚सि चक्रिरे त॒नूषु᳚ ॥
▶ पदपाठः (Word-by-word)
व॒राः॑इ᳚व । इत् । रै॒व॒तासः᳚ । हिर᳚ण्यैः । अ॒भि । स्व॒धाभिः᳚ । त॒न्वः᳚ । पि॒पि॒श्रे॒ ।
श्रि॒ये । श्रेयां᳚सः । त॒वसः᳚ । रथे᳚षु । स॒त्रा । महां᳚सि । च॒क्रि॒रे॒ । त॒नूषु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वराइव विवाहयोग्यायुवानइव तेयथा रैवता सोधनवन्तोहिरण्यैः हिरण्यमयैराभरणविशेषैः स्वधाभिरुदकैश्च तन्वः स्वीयानिशरी- राणि अभिपिपिश्रे संयोजयन्ति अलंकुर्वन्ति तद्वदेतेमरुतोपि रैवतासः धनवन्तः हिरण्यैर्हिरण्यस्थानीयैः विद्युदाख्यैराभरणैः स्वधाभिश्च तन्वः स्वीयानिशरीराणि पिपिश्रे श्रिये शोभायै श्रेयांसः श्रेष्ठाः तवसोबलवन्तोमरुतोरथेषु सत्रा सत्यं सहवा तनूषु महांसि चक्रिरे कृत- वन्तः सर्वाभरणैरुदकैश्चोपेताः रथानधिष्ठाय शरीरेषु तेजांस्यधारयन्नित्यर्थः ॥ ४ ॥

5.60.5
अ॒ज्ये॒ष्ठासो॒ अक᳚निष्ठास ए॒ते सं भ्रात᳚रो वावृधु॒ः सौभ᳚गाय ।
युवा᳚ पि॒ता स्वपा᳚ रु॒द्र ए᳚षां सु॒दुघा॒ पृश्नि᳚ः सु॒दिना᳚ म॒रुद्भ्य᳚ः ॥
▶ पदपाठः (Word-by-word)
अ॒ज्ये॒ष्ठासः᳚ । अक᳚निष्ठासः । ए॒ते । सम् । भ्रात᳚रः । व॒वृ॒धुः॒ । सौभ᳚गाय ।
युवा᳚ । पि॒ता । स्वपा᳚ । रु॒द्रः । ए॒षा॒म् । सु॒॑दुघा᳚ । पृश्निः᳚ । सु॒॑दिना᳚ । म॒रुत्॑भ्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अज्येष्ठासः अकनिष्ठासः परस्परंज्येष्ठकनिष्ठभावरहिताः सहैवोत्पन्नाः समानबलाएतेमरुतः भ्रातरः परस्परंभ्रातृभूताःसन्तः सौभगाय सुभगत्वाय संववृधुर्वर्धन्ते युवा नित्यतरुणः स्वपाः शोभनकर्मैषांमरुतां रुद्रःपिता सुदुघा सुष्ठुदोग्ध्री पृश्निर्गोदेवता मातृभूता मरुद्भ्योमरु- दर्थं सुदिना शोभनदिनानि अकुरुतामितिशेषः ॥ ५ ॥

5.60.6
यदु᳚त्त॒मे म᳚रुतो मध्य॒मे वा॒ यद्वा᳚व॒मे सु᳚भगासो दि॒वि ष्ठ ।
अतो᳚ नो रुद्रा उ॒त वा॒ न्व१॒᳚स्याग्ने᳚ वि॒त्ताद्ध॒विषो॒ यद्यजा᳚म ॥
▶ पदपाठः (Word-by-word)
यत् । उ॒त्॑त॒मे । म॒रु॒तः॒ । म॒ध्य॒मे । वा॒ । यत् । वा॒ । अ॒व॒मे । सु॒॑भ॒गा॒सः॒ । दि॒वि । स्थ ।
अतः᳚ । नः॒ । रु॒द्राः॒ । उ॒त । वा॒ । नु । अ॒स्य॒ । अग्ने᳚ । वि॒त्तात् । ह॒विषः᳚ । यत् । यजा᳚म ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतःयद्यूयं उत्कृष्टे उत्तमेचरमेवा दिवि द्युलोके मध्यमेवादिवि यद्वा अवमेदिवि हेसुभगासः स्थ भवथ त्रयोवाइमेत्रिवृतोलोका- स्तिस्रोदिवः पृथिवीरित्यादिश्रुतेः । द्युलोकस्य त्रैविध्यं अतः अस्मात् स्थानत्रयान्नोस्मदर्थं हेरुद्राआगच्छ्तेतिशेषः उतवा अथवा नु अद्य यद्यजाम यद्धविःप्रक्षिपामः हेअग्ने त्वं अस्यहविषः एतद्धविर्वित्तात् विद्धि ॥ ६ ॥

5.60.7
अ॒ग्निश्च॒ यन्म᳚रुतो विश्ववेदसो दि॒वो वह᳚ध्व॒ उत्त᳚रा॒दधि॒ ष्णुभि᳚ः ।
ते म᳚न्दसा॒ना धुन᳚यो रिशादसो वा॒मं ध᳚त्त॒ यज᳚मानाय सुन्व॒ते ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निः । च॒ । यत् । म॒रु॒तः॒ । वि॒श्व॒॑वे॒द॒सः॒ । दि॒वः । वह᳚ध्वे । उत्॑त᳚रात् । अधि᳚ । स्नु॑भिः᳚ ।
ते । म॒न्द॒सा॒नाः । धुन᳚यः । रि॒शा॒द॒सः॒ । वा॒मम् । ध॒त्त॒ । यज᳚मानाय । सु॒न्व॒ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेविश्ववेदसः सर्वस्यज्ञातारोविश्वधनावा हेमरुतोयद्यूयमग्निश्च दिवोद्युलोकादुत्तरादुत्कृष्टतरात् अधि उपरि स्नुभिः सानुभिः उपरि- प्रदेशे वहध्वे उह्यध्वे तत्रनिवसथेत्यर्थः यद्वा स्नुशब्देन तत्सदृशाअश्वाउच्यन्ते तैर्वाउह्यध्वे तेयूयं मन्दसाना मोदमानाअस्मदीयैः स्तोत्रै- र्हविर्भिश्च धुनयः शत्रूणांकंपयितारः रिशादसः अस्मद्धिंसकानामत्तारः सन्तोवामं वमनीयंधनं धत्तदत्त यजमानाय सुन्वतेअभिषवंकुर्वते ॥ ७ ॥ अग्नेमरुद्भिरित्यष्टमीआग्निमारुतस्ययाज्या अग्नेमरुद्भिःशुभयद्भिरृक्वभिरितिसूत्रितत्वात् त्पाठस्तु ।

5.60.8
अग्ने᳚ म॒रुद्भि᳚ः शु॒भय᳚द्भि॒रृक्व᳚भि॒ः सोमं᳚ पिब मन्दसा॒नो ग᳚ण॒श्रिभि᳚ः ।
पा॒व॒केभि᳚र्विश्वमि॒न्वेभि᳚रा॒युभि॒र्वैश्वा᳚नर प्र॒दिवा᳚ के॒तुना᳚ स॒जूः ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । म॒रुत्॑भिः᳚ । शु॒भय᳚त्॑भिः । ऋक्व᳚॑भिः । सोम᳚म् । पि॒ब॒ । म॒न्द॒सा॒नः । ग॒ण॒श्रि॑भिः᳚ ।
पा॒व॒केभिः᳚ । वि॒श्व॒म्॑इ॒न्वेभिः᳚ । आ॒यु॑भिः᳚ । वैश्वा᳚नर । प्र॒॑दिवा᳚ । के॒तुना᳚ । स॒॑जूः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने मरुद्भिःसह मन्दसानःसन् सोमंपिब कीदृशैर्मरुद्भिः शुभयद्भिः शोभमानैः अन्यान् शोभयद्भिर्वा ऋक्वभिः स्तुत्यैः गणश्रिभिः गणभावमाश्रयद्भिः पावकेभिः शॊधकैः विश्वमिन्वेभिः विश्वंवृष्ट्याप्रीणयद्भिः आयुभिः आयुष्मद्भिः हेवैश्वानर विश्वनरहिताग्ने प्रदिवा पुराणेन केतुना ज्वालापुंजेन सजूः सहितः ॥ ८ ॥

केष्ठानरइत्येकोनविंशत्यृचंपंचमंसूक्तं अत्रानुक्रमणिका-कैष्ठैकोनागायत्रंश्यावाश्वोत्रवैददश्वीतरंतपुरुमीह्ळौदाल्भ्यंरथवीतिंमरुतश्चदा- नतुष्टःप्रशशंसबुध्वाचतरन्तमहिषींशशीयसींपंचम्यनुष्टुम्नवमीसतोबृहतीति । श्यावाश्वऋषिः पंचम्यनुष्टुप् नवमीसतोबृहती शिष्टागा- यत्र्यः आद्याश्चतस्रोमरुद्देवताकाः सनत्सेत्यादीनांचतसृणांशशीयसीनामतरन्तस्यराज्ञोभार्यादेवता उतमेरपदित्यस्यावैददश्विःपुरुमी- ह्ळोदेवता योमेधेनूनामित्यस्यावैददश्विस्तरन्तोराजादेवता यंईवहन्तइत्याद्याःषण्मारुत्यः एतंमइत्यस्यतृचस्यदाल्भ्योरथवीतिर्नामरा- जादेवता विनियोगोलैंगिकः । अत्राश्चर्यंपुरावृत्तमाहुरागमपारगाः ॥ अर्चनानाःपुरात्रेयोदाल्भ्येनरथवी तिना ॥ १ ॥ आर्त्विज्यायवृतोयज्ञे- विततेहौत्रआस्थितः ॥ रथवीतिसुतांकन्यांददर्शपितुरंति के ॥ २ ॥ ययाचेस्व्कुमारायश्यावाश्वायचतांसुतां ॥ सप्रदानमनाभार्यामपृच्छ- त्किंप्रयच्छसि ॥ ३ ॥ इतिपृष्टापुनःप्राहकथमस्मैप्रदास्यसि ॥ इतःपूर्वंसुतादत्तानासीदनृषयेक्वचित् ॥ ४ ॥ तत्तथैवेतिनिश्चित्यप्रत्याचष्टार्चना- नसं ॥ श्यावाश्वःसंस्थितेयज्ञेतेनराज्ञानिराकृतः ॥ ५ ॥ तत्प्रत्याशान्वितोविप्रस्तपस्तेपेसुदारुणं ॥ ब्रह्मचर्यरतःशान्तोभिक्षार्थंपर्यटन्द्विजः ॥ ६ ॥ तरन्तमहिषींसाध्वींबिभिक्षेसौशशीयसीं ॥ सासंप्राप्यान्तिकंपत्युःप्रोवाचागतवामृषिः ॥ ७ ॥ इत्युक्तो नृपतिर्भार्यांप्रत्याहैनंप्रपूजय ॥ सानुज्ञातागवांयूथंप्रादादाभरणानिच ॥ ८ ॥ तरन्तोपिपुनस्तस्मैप्रादाद्धनमपेक्षितं ॥ दत्त्वाचपुरुमीह्ळस्यस्वानुजस्यान्तिकंप्रति ॥ ९ ॥ प्रेरयामासतमृषिंसो पित्वांमानयिष्यति ॥ १० ॥ तथेतिराज्ञोवचनंशम्यतद्भार्ययादर्शितसर्वमार्गः ॥ गच्छन् शनैरर्धपथेमरुद्गणान् समान- रूपान्सदिदृक्षयागतान् ॥ ११ ॥ विलोक्यविप्रःसभयः प्रणम्यकृतांजलिः कंटकितांगसंघः ॥ तुष्टावदृष्टान्मरुतोविशिष्टैरर्थैर्वचोभिःपरितुष्ट- चित्तः ॥ १२ ॥ संप्राप्य सर्वंस्वमनीषितंतदामरुद्गणेभ्योमुदितात्मवद्भ्यः ॥ १३ ॥ तदाभवदृषिःसूक्तद्रष्टाश्यावाश्वनामकः ॥ पश्चात्पुनर्गृहंग- त्वाभूयोलब्ध्वागवांशतं ॥ १४ ॥ दाल्भ्योमंत्रदृशेराज्ञाचोदितःस्वसुतांददौ ॥ पुरुमीह्ळस्तरन्तश्चतद्भार्याचशशीयसी ॥ १५ ॥ दाल्भ्योयोर- थवीत्याख्यः सप्तयेमरुतांगणाः ॥ तेतस्मैयद्ददुस्तुष्टास्तत्केष्ठेत्यत्रवर्ण्यते ॥ १६ ॥