श्रवणम्

5.60.1
ईळे᳚ अ॒ग्निं स्वव᳚सं॒ नमो᳚भिरि॒ह प्र᳚स॒त्तो वि च᳚यत्कृ॒तं नः᳚ ।
रथै᳚रिव॒ प्र भ᳚रे वाज॒यद्भि᳚ः प्रदक्षि॒णिन्म॒रुतां॒ स्तोम᳚मृध्याम् ॥
▶ पदपाठः (Word-by-word)
ईळे᳚ । अ॒ग्निम् । सु॒॑अव᳚सम् । नमः᳚॑भिः । इ॒ह । प्र॒॑स॒त्तः । वि । च॒य॒त् । कृ॒तम् । नः॒ ।
रथैः᳚॑इव । प्र । भ॒रे॒ । वा॒ज॒यत्॑भिः᳚ । प्र॒॑द॒क्षि॒णित् । म॒रुता᳚म् । स्तोम᳚म् । ऋ॒ध्या॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अहंश्यावाश्वेग्निं स्ववसं स्वायत्तरक्षणं नमोभिःस्तोत्रैः ईळे स्तौमि तत्स्तोत्रंकृतमिहेदानीं प्रसत्तः प्रसन्नः प्रकर्षेणयज्ञंप्राप्तोवासन् नोस्मदर्थं विचयत् विजानातु वाजयद्भिरन्नमिच्छद्भिः स्तोत्रैः रथैरिव रथैर्यथाभिमतंप्राप्नुवन्ति तद्वत् रंहणसाधनैः प्रभरे प्रकर्षेण संपाद- यामि अभिमतं प्रदक्षिणित् प्रादक्षिण्येनगच्छन् मरुतांस्तोमं स्तोत्रमृध्यांवर्धयेयम् ॥ १ ॥