श्रवणम्

5.60.3
पर्व᳚तश्चि॒न्महि᳚ वृ॒द्धो बि᳚भाय दि॒वश्चि॒त्सानु᳚ रेजत स्व॒ने वः᳚ ।
यत्क्रीळ᳚थ मरुत ऋष्टि॒मन्त॒ आप᳚ इव स॒ध्र्य᳚ञ्चो धवध्वे ॥
▶ पदपाठः (Word-by-word)
पर्व᳚तः । चि॒त् । महि᳚ । वृ॒द्धः । बि॒भा॒य॒ । दि॒वः । चि॒त् । सानु᳚ । रे॒ज॒त॒ । स्व॒ने । वः॒ ।
यत् । क्रीळ᳚थ । म॒रु॒तः॒ । ऋ॒ष्टि॒॑मन्तः᳚ । आपः᳚॑इव । स॒ध्र्य᳚ञ्चः । ध॒व॒ध्वे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतः वोयुष्माकं स्वनेभयंकरशब्देसति पर्वतश्चित् पर्वतोपि महि महान् वृद्धःसन्नपि बिभाय बिभेति दिवश्चित् अन्तरिक्षस्यापि सानुसमुच्छ्रितःप्रदेशोरेजत कंपते यद्यदा क्रीडथ हेमरुतोयूयं ऋष्टिमन्तआयुधवन्तःसन्तः तदा आपइव उदकानीव सध्र्यंचः सहांचनाः धवध्वे धावध्वे गच्छथ ॥ ३ ॥