य आ॒श्व᳚श्वा॒ अम᳚व॒द्वह᳚न्त उ॒तेशि᳚रे अ॒मृत᳚स्य स्व॒राजः᳚ ॥
पदपाठः (Word-by-word)
ये । आ॒शु॑अ᳚श्वाः । अम᳚॑वत् । वह᳚न्ते । उ॒त । ई॒शि॒रे॒ । अ॒मृत᳚स्य । स्व॒॑राजः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
तमु तमेव पूर्वंस्तुतमेव मारुतं मरुतांसंबन्धिनं तंगणं तविषीमन्तं दीप्तिमन्तं नूनं अद्य स्तुषे कीदृशांमरुतां नव्यसीनां लिंगव्यत्ययः नवतराणांस्तुत्यानांवा एषांमारुतंगणं गणावयवभूतामरुतः कीदृशाइतिउच्यते येमरुतः आश्वश्वाः शीघ्रगाम्यश्वोपेताः अमवत् बलवत् बलवन्तोयथाभवन्तितथावहन्तोगच्छन्तः उतापिच ईशिरे ईश्वराभवन्ति अमृतस्योदकस्य स्वराजः स्वायत्तदीप्तयः स्वयमेवराजमानाः तेषांगणंस्तुषे ॥ १ ॥