श्रवणम्

5.58.3
आ वो᳚ यन्तूदवा॒हासो᳚ अ॒द्य वृ॒ष्टिं ये विश्वे᳚ म॒रुतो᳚ जु॒नन्ति᳚ ।
अ॒यं यो अ॒ग्निर्म᳚रुत॒ः समि᳚द्ध ए॒तं जु᳚षध्वं कवयो युवानः ॥
▶ पदपाठः (Word-by-word)
आ । वः॒ । य॒न्तु॒ । उ॒द॒॑वा॒हासः᳚ । अ॒द्य । वृ॒ष्टिम् । ये । विश्वे᳚ । म॒रुतः᳚ । जु॒नन्ति᳚ ।
अ॒यम् । यः । अ॒ग्निः । म॒रु॒तः॒ । सम्॑इ᳚द्धः । ए॒तम् । जु॒ष॒ध्व॒म् । क॒व॒यः॒ । यु॒वा॒नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

येविश्वेव्याप्ताः मरुतोवृष्टिंजुनन्ति प्रेरयन्ति तेउदवाहासः उदकस्यवोढारोमरुतः अद्येदानीं वोयुष्मान् आयन्तु आगच्छन्तु ऋत्विग्य- जमानाः अथप्रत्यक्षवादः हेमरुतः यःप्रसिद्धोयमग्निः समिद्धः सम्यग्दीपितः एतमग्निं जुषध्वं सेवध्वं हेकवयोमेधाविनोहेयुवानः नित्यत- रुणाः सर्वत्रव्याप्तावा ॥ ३ ॥