पञ्चमं मण्डलम् - सूक्तम् 81

5 ऋचः

ऋषिः: श्यावाश्व आत्रेयः देवता: सविता छन्दः: जगती

सूक्तम् 5.81 - सम्पूर्णम्

1 / 5
ऋक्: 5.81.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
5.81.1
यु॒ञ्जते॒ मन᳚ उ॒त यु᳚ञ्जते॒ धियो॒ विप्रा॒ विप्र᳚स्य बृह॒तो वि᳚प॒श्चितः᳚ ।
वि होत्रा᳚ दधे वयुना॒विदेक॒ इन्म॒ही दे॒वस्य᳚ सवि॒तुः परि᳚ष्टुतिः ॥
▶ पदपाठः (Word-by-word)
यु॒ञ्जते᳚ । मनः᳚ । उ॒त । यु॒ञ्ज॒ते॒ । धियः᳚ । विप्राः᳚ । विप्र᳚स्य । बृ॒ह॒तः । वि॒पः॒॑चितः᳚ ।
वि । होत्राः᳚ । द॒धे॒ । व॒यु॒न॒॑वित् । एकः᳚ । इत् । म॒ही । दे॒वस्य᳚ । स॒वि॒तुः । परि᳚॑स्तुतिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

विप्रामेधाविनऋत्विग्यजमानाः मनः स्वीयं सर्वेषुकर्मसु युंजते योजयन्ति सवित्रनुग्रहाय संकल्पंकुर्वंतिइत्यर्थः उतापिच धियः क- र्माण्यपि युंजते प्राप्नुवंति कस्यानुज्ञयेति उच्यते विप्रस्यमेधाविनः बृहतोमहतः विपश्चितः स्तुत्यस्यज्ञानवतोवा सवितुःअनुज्ञयेति सवि- तावैप्रसवानामीशइतिश्रुतिः । सएवसविता होत्राः सप्तहोत्रकाणामुचिताः क्रियाः वयुनावित् वयुनमितिप्रज्ञानाम तत्तदनुष्ठानविषयप्र- ज्ञावेत्ता एकइत् एकएव विदधे करोति पृथक् पृथगवधारयति किंच तस्यसवितुर्देवस्य परिष्टुतिः स्तुतिः मही महती अतिप्रभूता स्तुत्य- गोचरेत्यर्थः ॥ १ ॥ हविर्धानप्रवर्तनेरराट्यामवनद्धायांविश्वारूपाणीत्येषानुवचनीया सूत्रितंच-विश्वारूपाणिप्रतिमुंचतेकविरितिव्यवस्तायामिति ।

5.81.2 समानपद
विश्वा᳚ रू॒पाणि॒ प्रति᳚ मुञ्चते क॒विः प्रासा᳚वीद्भ॒द्रं द्वि॒पदे॒ चतु᳚ष्पदे ।
वि नाक᳚मख्यत्सवि॒ता वरे॒ण्यो॑नु᳚ प्र॒याण᳚मु॒षसो॒ वि रा᳚जति ॥
▶ पदपाठः (Word-by-word)
विश्वा᳚ । रू॒पाणि᳚ । प्रति᳚ । मु॒ञ्च॒ते॒ । क॒विः । प्र । अ॒सा॒वी॒त् । भ॒द्रम् । द्वि॒॑पदे᳚ । चतुः᳚॑पदे ।
वि । नाक᳚म् । अ॒ख्य॒त् । स॒वि॒ता । वरे᳚ण्यः । अनु᳚ । प्र॒॑यान᳚म् । उ॒षसः᳚ । वि । रा॒ज॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

कविः मेधावी सविता विश्वा सर्वाणिरूपाणि आत्मनि प्रतिमुंचते बध्नातिधारयति किंच भद्रं कल्याणं गमनादिविषयं प्रासावीत् अनुजानाति कस्मै द्विपदे मनुष्याय चतुष्पदे गवाश्वादिकाय किंच सविता सर्वस्यप्रेरकोदेवोवेरण्योवरणीयःसन् व्यख्यत् ख्यापयति प्रकाशयति किं नाकं नास्मिन्नकंदुःखमस्तीतिनाकः स्वर्गः यजमानार्थं स्वर्गंप्रकाशयतीत्यर्थः सदेवः उषसं प्रयाणमुदयमनु विराजति प्रकाशते सवितुरुदयात्पूर्वंह्युषाउदेति ॥ २ ॥

5.81.3
यस्य᳚ प्र॒याण॒मन्व॒न्य इद्य॒युर्दे॒वा दे॒वस्य᳚ महि॒मान॒मोज᳚सा ।
यः पार्थि᳚वानि विम॒मे स एत᳚शो॒ रजां᳚सि दे॒वः स᳚वि॒ता म᳚हित्व॒ना ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । प्र॒॑यान᳚म् । अनु᳚ । अ॒न्ये । इत् । य॒युः । दे॒वाः । दे॒वस्य᳚ । म॒हि॒मान᳚म् । ओज᳚सा ।
यः । पार्थि᳚वानि । वि॒॑म॒मे । सः । एत᳚शः । रजां᳚सि । दे॒वः । स॒वि॒ता । म॒हि॒॑त्व॒ना ॥
▶ सायणभाष्यम् (Sayana Commentary)

अन्यइत् देवाअन्येप्यग्न्यादयोदेवाः देवस्यद्योतमानस्य सवितुः प्रयाणमनु ययुर्गच्छन्ति प्राप्नुवन्ति किं महिमानं महत्त्वं सवितुरुद- याभावेग्निहोत्रादिअनिष्पत्तेस्तेषांहविः स्तुत्याद्यभावात् ओजसा बलेनच युक्ताभवन्ति यःसविता पार्थिवानिरजांसि पृथिव्यादिलोकान् महित्वना स्वमहत्त्वेन विममे परिच्छिनत्ति सदेवः एतशः एतवर्णः शुभ्रः शोभमानःसन् राजतइतिशेषः युवशाता कृणोतनेत्यादिवदेत- शइत्यादिशकारोपजनश्छान्दसः ॥ ३ ॥

5.81.4 समानपद
उ॒त या᳚सि सवित॒स्त्रीणि᳚ रोच॒नोत सूर्य᳚स्य र॒श्मिभि॒ः समु᳚च्यसि ।
उ॒त रात्री᳚मुभ॒यत॒ः परी᳚यस उ॒त मि॒त्रो भ᳚वसि देव॒ धर्म᳚भिः ॥
▶ पदपाठः (Word-by-word)
उ॒त । या॒सि॒ । स॒वि॒त॒रिति᳚ । त्रीणि᳚ । रो॒च॒ना । उ॒त । सूर्य᳚स्य । र॒श्मि॑भिः᳚ । सम् । उ॒च्य॒सि॒ ।
उ॒त । रात्री᳚म् । उ॒भ॒यतः᳚ । परि᳚ । ई॒य॒से॒ । उ॒त । मि॒त्रः । भ॒व॒सि॒ । दे॒व॒ । धर्म᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेसवितर्देव उतापिच त्रीणिरोचना रोचमानान् द्युलोकान् यासि गच्छसि तिस्रोदिवःपृथिवीरित्युक्तं उतापिच सूर्यस्यरश्मिभिः स- मुच्यसि संगच्छसि उचसमवायइत्यस्येदंरूपं उदयात्पूर्वभावीसविता उदयास्तमयवर्तीसूर्यइति उतापिच रात्रीभुमयतउभयपार्श्वे परीयसे परिगच्छसि उतापिच हेदेव सवितस्त्वं धर्मभिर्जगद्धारकैः कर्मभिः मित्रोभवसिमित्राख्योदेवोभवसि अथवा प्रकाशादिप्रदानेनसखाभव- सि सर्वजगताम् ॥ ४ ॥

5.81.5 समानपद
उ॒तेशि᳚षे प्रस॒वस्य॒ त्वमेक॒ इदु॒त पू॒षा भ᳚वसि देव॒ याम᳚भिः ।
उ॒तेदं विश्वं॒ भुव᳚नं॒ वि रा᳚जसि श्या॒वाश्व᳚स्ते सवित॒ः स्तोम᳚मानशे ॥
▶ पदपाठः (Word-by-word)
उ॒त । ई॒शि॒षे॒ । प्र॒॑स॒वस्य᳚ । त्वम् । एकः᳚ । इत् । उ॒त । पू॒षा । भ॒व॒सि॒ । दे॒व॒ । याम᳚॑भिः ।
उ॒त । इ॒दम् । विश्व᳚म् । भुव᳚नम् । वि । रा॒ज॒सि॒ । श्या॒व॑अ᳚श्वः । ते॒ । स॒वि॒त॒रिति᳚ । स्तोम᳚म् । आ॒न॒शे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेसवितस्त्वं एकइत् एकएव प्रसवस्य सर्वकर्मानुज्ञाकरणस्य ईशिषे समर्थोभवसि ये लौकिकंगमनादिरूपं वैदिकमग्निहोत्रादिरूपंकर्म अनुतिष्ठन्ते तेषांसर्वेषां अनुज्ञातुमेकएवप्रभवसि उतापिच पूषा पोषकोभवसि हेदेव यामभिर्गमनैः उतापिचेदंविश्वंभुवनं भूतजातं विराजसि ईशिषेधारयितुं यस्मादेवंमहानुभावः तस्माद्धेसवितस्तेतुभ्यं श्यावाश्वऋषिः स्तोत्रमानशेव्याप्नोति करोतीत्येवमात्मानं परो- क्षतयानिर्दिशन्नाह ॥ ५ ॥

तत्सवितुरितिनवर्चंदशमंसूक्तं श्याबाश्वस्यार्षं अत्रेयमनुक्रमणिका-तत्सवितुर्नवगायत्रमाद्यानुष्टुबिति । प्रथमानुष्टुप् शिष्टागायत्र्यः सा- वित्रंत्वित्युक्तत्वात् सावित्रं अग्निष्टोमेवैश्वदेवशस्त्रस्याद्यस्तृचः प्रतिपत् अद्यानोदेवेत्यनुचरः सूत्रितंच-तत्सवितुर्वृणीमहेद्यानोदेवसवित- रिति वैश्वदेवस्यप्रतिपदनुचराबिति ।