पञ्चमं मण्डलम् - सूक्तम् 72

3 ऋचः

ऋषिः: बाहुवृक्त आत्रेयः देवता: मित्रावरुणौ छन्दः: उष्णिक्

सूक्तम् 5.72 - सम्पूर्णम्

1 / 3
ऋक्: 5.72.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (3)
5.72.1
आ मि॒त्रे वरु᳚णे व॒यं गी॒र्भिर्जु᳚हुमो अत्रि॒वत् ।
नि ब॒र्हिषि᳚ सदतं॒ सोम᳚पीतये ॥
▶ पदपाठः (Word-by-word)
आ । मि॒त्रे । वरु᳚णे । व॒यम् । गीः॒॑भिः । जु॒हु॒मः॒ । अ॒त्रि॒॑वत् ।
नि । ब॒र्हिषि᳚ । स॒द॒त॒म् । सोम᳚॑पीतये ॥
▶ सायणभाष्यम् (Sayana Commentary)

वयमात्रेयाः मित्रेवरुणे मित्रावरुणयोरर्थाय गीर्भिर्मन्त्रैराजुहुमः अत्रिवत् अस्मत् गोत्रप्रवर्तकोत्रिरिव तस्मात् मित्रावरुणौ सोमपीत- ये बर्हिषिनिषदतं निषीदतम् ॥ १ ॥

5.72.2
व्र॒तेन᳚ स्थो ध्रु॒वक्षे᳚मा॒ धर्म᳚णा यात॒यज्ज᳚ना ।
नि ब॒र्हिषि᳚ सदतं॒ सोम᳚पीतये ॥
▶ पदपाठः (Word-by-word)
व्र॒तेन᳚ । स्थः॒ । ध्रु॒व॑क्षे᳚मा । धर्म᳚णा । या॒त॒यत्॑ज᳚ना ।
नि । ब॒र्हिषि᳚ । स॒द॒त॒म् । सोम᳚॑पीतये ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमित्रावरुणौ युवां धर्मणा जगद्धारकेण व्रतेन कर्मणायोगेन ध्रुवक्षेमा स्थः अवि चलितस्थानौभवथः यातयज्जना यातयन्तः कर्मसु- प्रवर्तयन्तोजनाऋत्विजोययोस्तौयातयज्जनौ अथवा यातयन्तोशत्रून्हिंसन्तोजनाभृत्याययोस्तौ शिष्टंगतम् ॥ २ ॥

5.72.3
मि॒त्रश्च᳚ नो॒ वरु᳚णश्च जु॒षेतां᳚ य॒ज्ञमि॒ष्टये᳚ ।
नि ब॒र्हिषि᳚ सदतां॒ सोम᳚पीतये ॥
▶ पदपाठः (Word-by-word)
मि॒त्रः । च॒ । नः॒ । वरु᳚णः । च॒ । जु॒षेता᳚म् । य॒ज्ञम् । इ॒ष्टये᳚ ।
नि । ब॒र्हिषि᳚ । स॒द॒त॒म् । सोम᳚॑पीतये ॥
▶ सायणभाष्यम् (Sayana Commentary)

मित्रश्चवरुणश्चोभौ नोस्माकं यज्ञमिष्टये अभीष्टाय जुषेतां सेवेतां आगत्यच बर्हिषि निषदतं निषीदतं सोमपानाय ॥ ३ ॥

षष्ठेनुवाकेपंचदशसूक्तानि तत्रयदद्यस्थइतिदशर्चंप्रथमंसूक्तं आत्रेयस्यपौरनाम्नआर्षं आनुष्टुभमाश्विनं अनुक्रान्तंच-यदद्यदशपौरआश्वि- नंतदानुष्टुभंत्विति । तदित्युक्तत्वादिदमादीनिषट्सूक्तान्याश्विनानि आनुष्टुभंत्वितितुशब्दादिदमुत्तरंचद्वेआनुष्टुभे प्रातरनुवाके आश्विने क्रतौ आनुष्टुभेछन्दसि आश्विनशस्त्रेचेदमादिकेद्वेसूक्ते यदद्यस्थइतिसूक्तेइतिसूत्रितम् ।