पञ्चमं मण्डलम् - सूक्तम् 44

15 ऋचः

ऋषिः: अवत्सारः, काश्यपः (अन्ये च ऋषयो दृष्टलिङ्गाः) देवता: विश्वेदेवाः छन्दः: जगती

सूक्तम् 5.44 - सम्पूर्णम्

1 / 15
ऋक्: 5.44.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (15)
5.44.1
तं प्र॒त्नथा᳚ पू॒र्वथा᳚ वि॒श्वथे॒मथा᳚ ज्ये॒ष्ठता᳚तिं बर्हि॒षदं᳚ स्व॒र्विद᳚म् ।
प्र॒ती॒ची॒नं वृ॒जनं᳚ दोहसे गि॒राशुं जय᳚न्त॒मनु॒ यासु॒ वर्ध᳚से ॥
▶ पदपाठः (Word-by-word)
तम् । प्र॒त्न॑था᳚ । पू॒र्व॑था᳚ । वि॒श्व॑था᳚ । इ॒म॑था᳚ । ज्ये॒ष्ठ॑ता᳚तिम् । ब॒र्हि॒॑सद᳚म् । स्वः॒॑विद᳚म् ।
प्र॒ती॒ची॒नम् । वृ॒जन᳚म् । दो॒ह॒से॒ । गि॒रा । आ॒शुम् । जय᳚न्तम् । अनु᳚ । यासु᳚ । वर्ध᳚से ॥
▶ सायणभाष्यम् (Sayana Commentary)

इयमुत्तराचद्वेऎन्द्भ्यावित्याहुः तत्रोपपत्तिमेवमाहुः तंप्रत्नथेत्येषाशुक्रामन्थिग्रहणेविनियुक्ता एन्द्भौचशुक्रामन्थिनौ यदैन्द्रंशंसतितेनशुक्रामन्थिनाउक्थवतावितिहिब्राह्मणम् । अध्वर्युसंप्रैषोपिभवति प्रातःप्रातः सवनस्यशुक्रवन्तोमधुश्चुतइन्द्रायसो -मान्प्रस्थितान्प्रेष्येतिप्रशास्तृप्रैषश्चभवति । होतायक्षदिन्द्रंप्रातः प्रातः सावस्येत्यादि प्रस्थिताइन्द्रायसोमाइतियाज्याचैन्द्री इदंतेसोम्यंमध्विति तस्मादैन्द्भ्यौ तमिन्द्रं प्रत्नथा पुरातनायजमानाइव पूर्वथा अस्मदीयाःपूर्वेयथा विश्वथा विश्वेसर्वेप्राणिनोयथा इमथा इममिदानींवर्तमानायजमानाःतेयथेन्द्रस्यस्तुत्याफलमलभन्त तद्वदयमपि हेअन्तरात्मन् त्वमपि ज्येष्ठतातिं ज्येष्ठं बर्हिषदं बर्हिषिसीदन्तं स्वर्विदं सर्वज्ञं सर्वस्यलंभयितारंवाफलंभावयितारंवा प्रतीचीनं प्रतिअस्मदभिमुखमंचंतं वृजनं बलनामैतद्बलव्तिवर्ततेबलवन्तं आशुं शीघ्रगामिनं व्याप्तं वाजयन्तं सर्वमभिभवंतमिन्द्रं गिरा स्तुत्यासधनेन दोहसे धुक्ष्व सर्वदासर्वान्कामान् इत्यन्तरात्मनःप्रैषः यासुस्तुतिषुवर्धसेप्रवृद्धोभवसिवर्धयसिवेन्द्रं यथास्तुत्येति यास्वितिव्यत्ययेनवहुवचनम् ॥ १ ॥

5.44.2
श्रि॒ये सु॒दृशी॒रुप᳚रस्य॒ याः स्व᳚र्वि॒रोच᳚मानः क॒कुभा᳚मचो॒दते᳚ ।
सु॒गो॒पा अ᳚सि॒ न दभा᳚य सुक्रतो प॒रो मा॒याभि᳚रृ॒त आ᳚स॒ नाम᳚ ते ॥
▶ पदपाठः (Word-by-word)
श्रि॒ये । सु॒॑दृशीः᳚ । उप᳚रस्य । याः । स्वः᳚ । वि॒॑रोच᳚मानः । क॒कुभा᳚म् । अ॒चो॒दते᳚ ।
सु॒॑गो॒पाः । अ॒सि॒ । न । दभा᳚य । सु॒क्र॒तो॒ इति᳚ सु॑क्रतो । प॒रः । मा॒याभिः᳚ । ऋ॒ते । आ॒स॒ । नाम᳚ । ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र स्वः स्वर्गे विरोचमानस्त्वं अचोदते अप्रेरयितुः षष्ठ्यर्थेचतुर्थी उपरस्य मेघस्य संबन्धिन्यः सुदृशीःसुरोचमानायाआपः सन्ति तासामपां ककुभां सर्वासांदिशांमध्ये श्रिये प्राणिनांश्रयणायप्रेरकोभवेतिशेषः हेसुक्रतो शोभनवृष्टिप्रदानादिकर्मकेन्द्र त्वं सुगोपाः प्राणिनांसुष्ठुगोपायितासि अतोनदभाय नदंभनायवधाय प्राणिनांनासि नपभवसि त्वंच मायाभिरासुरीभिः परोमायाभ्यः प्रस्ताद्वर्तमानः यस्मात्तेत्वदीयंनाम नामकं रूपे ऋते सत्यछोके आस आस्ते ॥ २ ॥

5.44.3
अत्यं᳚ ह॒विः स᳚चते॒ सच्च॒ धातु॒ चारि᳚ष्टगातु॒ः स होता᳚ सहो॒भरि᳚ः ।
प्र॒सर्स्रा᳚णो॒ अनु᳚ ब॒र्हिर्वृषा॒ शिशु॒र्मध्ये॒ युवा॒जरो᳚ वि॒स्रुहा᳚ हि॒तः ॥
▶ पदपाठः (Word-by-word)
अत्य᳚म् । ह॒विः । स॒च॒ते॒ । सत् । च॒ । धातु᳚ । च॒ । अरि᳚ष्ट॑गातुः । सः । होता᳚ । स॒हः॒॑भरिः᳚ ।
प्र॒॑सर्स्रा᳚णः । अनु᳚ । ब॒र्हिः । वृषा᳚ । शिशुः᳚ । मध्ये᳚ । युवा᳚ । अ॒जरः᳚ । वि॒॑स्रुहा᳚ । हि॒तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

इयमाग्नेयी होतृत्वयुवत्वादिलिंगैः अयमग्निः अत्यं सततमतनार्हं हविराज्यादिकं सचते सेवते कीदृशंहविः सत् सत्फलसाधनत्वाद्धविरपिसत् धातुच धारकं सर्वस्यहूयमानस्यहविषः आदित्यद्वारावृष्टिसाधनत्वात् तयाचवृष्ट्या प्रजोत्पत्तेर्धारकत्वं तथाहि अग्नौप्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायतेवृष्टिर्वृष्टेरन्नंततः प्रजाइति । कीदृशोग्निः अरिष्टगातुः अहिंसितगमनः सतितस्यगमने यज्ञनिष्पत्त्याफलसिद्धेररिष्टगमनत्वं तदेवाह सः सखलु होता होमनिष्पादकः सहोभरिः बलस्यभर्ता बर्हिरनुप्रसर्स्राणः प्रकर्षेणसरन् वृषा वर्षकः फलस्य शिशुः सइवरक्षणीयः अप्रौढोवा युवा सर्वत्रमिश्रयिता अजरोजरारहितः विस्रुहा विस्रुहाणामोषधीनांमध्ये हितोनिहितः स्थापितः एवंभूतः सचते ॥ ३ ॥

5.44.4
प्र व᳚ ए॒ते सु॒युजो॒ याम᳚न्नि॒ष्टये॒ नीची᳚र॒मुष्मै᳚ य॒म्य᳚ ऋता॒वृधः᳚ ।
सु॒यन्तु᳚भिः सर्वशा॒सैर॒भीशु᳚भि॒ः क्रिवि॒र्नामा᳚नि प्रव॒णे मु᳚षायति ॥
▶ पदपाठः (Word-by-word)
प्र । वः॒ । ए॒ते । सु॒॑युजः᳚ । याम᳚न् । इ॒ष्टये᳚ । नीचीः᳚ । अ॒मुष्मै᳚ । य॒म्यः᳚ । ऋ॒त॒॑वृधः᳚ ।
सु॒यन्तु᳚॑भिः । स॒र्व॒॑शा॒सैः । अ॒भीशु᳚॑भिः । क्रिविः᳚ । नामा᳚नि । प्र॒व॒णे । मु॒षा॒य॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषसौरीवा एतेरश्मयः सुयुजः सुष्ठुपरस्परंसंयुक्तायामन् यज्ञगमने इष्टये एषणाय नीचीर्नीचंगच्छन्तीतिशेषः अमुष्मै यजमानाय यम्योयम्याः गमनार्हाः अथवा यमोनियमितादित्यः तस्यसंबन्धिनः ऋतावृधः यज्ञस्यवर्धयितारश्च अयमादित्यः सुयन्तुभिः सुगमनैः सर्वशासैः सर्वस्यशासकैः अभीशुभीरश्मिभिः क्रिविः कर्ता नामानि नामकानिउदकानि प्रवणे निम्ने भूप्रदेशे मुषायति मुष्णातिआदत्तइत्यर्थः अथवाग्निनाआवाह्यस्याग्नेरेतेश्वाः इष्टये यज्ञगमनाय यामनि रथेसुयुजः प्रगच्छन्ति शिष्टंसमानं क्रिविः क्रिविसदृशोग्निः प्रवणे नामानिहवींष्युक्तलक्षणाभिः ज्वालाभिर्मुषायत्यादत्ते ॥ ४ ॥

5.44.5
सं॒जर्भु᳚राण॒स्तरु᳚भिः सुते॒गृभं᳚ वया॒किनं᳚ चि॒त्तग᳚र्भासु सु॒स्वरु᳚ः ।
धा॒र॒वा॒केष्वृ᳚जुगाथ शोभसे॒ वर्ध᳚स्व॒ पत्नी᳚र॒भि जी॒वो अ᳚ध्व॒रे ॥
▶ पदपाठः (Word-by-word)
स॒म्॑जर्भु᳚राणः । तरु᳚॑भिः । सु॒ते॒॑गृभ᳚म् । व॒या॒किन᳚म् । चि॒त्त॑ग᳚र्भासु । सु॒॑स्वरुः᳚ ।
धा॒र॒॑वा॒केषु᳚ । ऋ॒जु॒॑गा॒थ॒ । शो॒भ॒से॒ । वर्ध᳚स्व । पत्नीः᳚ । अ॒भि । जी॒वः । अ॒ध्व॒रे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेऋजुगाथ शोभनस्तुतिकाग्ने तरुभिः तरुविकारैर्ग्रहैः सुतेगृभं अभिषुतेनरसेनगृहीतं वयाकिनं कुत्सिताः अल्पाः वयाः शाखावयाकाः लताः तद्वन्तं सोमं चित्तगर्भासु चित्तग्राहिणीषु स्तुतिभिः सह संजर्भुराणः गृभ्णन् गृह्णन् सुस्वरुःशोभ्नगमनःशोभनस्तुतिकोवा त्वं धारवाकेषु धारयन्तिवाकान् स्तोत्राणीतिधारवाकाऋत्विग्यजमानाः तेषुमध्येशोभसे किंच अध्वरे जीवः सर्वस्यजीवयिता पत्नीः पालयित्रीः ओषधीर्ज्वालावा अभि अभिमुखंवर्धस्वअभिवर्धय ॥ ५ ॥

5.44.6
या॒दृगे॒व ददृ᳚शे ता॒दृगु᳚च्यते॒ सं छा॒यया᳚ दधिरे सि॒ध्रया॒प्स्वा ।
म॒हीम॒स्मभ्य᳚मुरु॒षामु॒रु ज्रयो᳚ बृ॒हत्सु॒वीर॒मन᳚पच्युतं॒ सहः᳚ ॥
▶ पदपाठः (Word-by-word)
या॒दृक् । ए॒व । ददृ᳚शे । ता॒दृक् । उ॒च्य॒ते॒ । सम् । छा॒यया᳚ । द॒धि॒रे॒ । सि॒ध्रया᳚ । अ॒प्॑सु । आ ।
म॒हीम् । अ॒स्मभ्य᳚म् । उ॒रु॒॑साम् । उ॒रु । ज्रयः᳚ । बृ॒हत् । सु॒॑वीर᳚म् । अन᳚प॑च्युतम् । सहः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषावैश्वदेवी यादृगेवददृशे यादृग्रूपमेवददृशे तादृगुच्यते तादृग्रूपमेवोच्यते यथादृष्टमेवस्तूयतेनतुपरवचनप्रत्ययेन यस्माच्छायया दीप्त्या सिध्रया साधिकयासह अप्सु व्यापकासु स्तुतिषु अप्स्वेववाआसंदधिरे सम्यग्धारयन्ति स्वीयंरूपंस्तुतिंवा तेदेवामहींमहतींपूज्यामुरुषां बहुदात्रीं रयिं उरु प्रभूतं ज्रयोवेगं बृहन्महत् सुवीरं शोभनवीर्यमपत्यं अनपच्युतं अनुपक्षीणं सहोबलंचाभिभावुकम -स्मभ्यंप्रयच्छंत्वित्यर्थः ॥ ६ ॥

5.44.7
वेत्यग्रु॒र्जनि᳚वा॒न्वा अति॒ स्पृधः᳚ समर्य॒ता मन᳚सा॒ सूर्य᳚ः क॒विः ।
घ्रं॒सं रक्ष᳚न्तं॒ परि᳚ वि॒श्वतो॒ गय᳚म॒स्माकं॒ शर्म᳚ वनव॒त्स्वाव᳚सुः ॥
▶ पदपाठः (Word-by-word)
वेति᳚ । अग्रुः᳚ । जनि᳚॑वान् । वै । अति᳚ । स्पृधः᳚ । स॒॑म॒र्य॒ता । मन᳚सा । सूर्यः᳚ । क॒विः ।
घ्रं॒सम् । रक्ष᳚न्तम् । परि᳚ । वि॒श्वतः᳚ । गय᳚म् । अ॒स्माक᳚म् । शर्म᳚ । व॒न॒व॒त् । स्व॑व᳚सुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

इयंसौरी सूर्योदेवः अग्रुरग्रगामी जनिवान्वै जन्मवान् जायावान्वा उषाह्यस्यजायावाइतिप्रसिद्धौ कविः क्रान्तदर्शी समर्यता समरमिच्छता मनसास्पृधः संग्रामान् अतिवेति अतिगच्छति मंदेहानसुरान्योद्धुं घ्रंसं दीप्तं गयं गृहंअंतरिक्षंवा विश्वतः सर्वतोरक्षन्तंपरिचरेमेतिशेषः सदेवोस्माकं शर्म सुखं परि सम्यक् वनवत् दद्यात् स्वावसुः स्वायत्तधनः सन् ॥ ७ ॥

5.44.8
ज्यायां᳚सम॒स्य य॒तुन᳚स्य के॒तुन᳚ ऋषिस्व॒रं च᳚रति॒ यासु॒ नाम᳚ ते ।
या॒दृश्मि॒न्धायि॒ तम᳚प॒स्यया᳚ विद॒द्य उ᳚ स्व॒यं वह᳚ते॒ सो अरं᳚ करत् ॥
▶ पदपाठः (Word-by-word)
ज्यायां᳚सम् । अ॒स्य । य॒तुन᳚स्य । के॒तुना᳚ । ऋ॒षि॒॑स्व॒रम् । च॒र॒ति॒ । यासु᳚ । नाम᳚ । ते॒ ।
या॒दृश्मि᳚न् । धायि᳚ । तम् । अ॒प॒स्यया᳚ । वि॒द॒त् । यः । ऊं॒ इति᳚ । स्व॒यम् । वह᳚ते । सः । अर᳚म् । क॒र॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इयमाग्नेयीसौरीवा हेदेव ज्यायांसं अतिशयेनप्रवृद्धं अस्य यतुनस्य यततिर्गतिकर्मा गन्तुरस्य सूर्यस्य कर्मणिषष्ठ्यौ अमुं गन्तारं केतुना प्रज्ञापकेनकर्मणा उदयादिलक्षणेनविशिष्ठं ऋषिस्वरं ऋषिभिःस्तुत्यं त्वांचरतिगच्छति भजते यजमानः केनसाधनेन यासुस्तुतिषु तेत्वदीयं नामनमनं नामकंवारूपंवर्ततेताभिरित्यर्थः यद्वा अस्य यतुनस्य गमनशीलस्यतव केतुना तमोनिर्हरणादिकर्मणा विशिष्टंत्वांचरति यादृश्मिन् यादृशेकामेधायि धत्ते कर्तरिचिण् सामर्थ्यान्मनः गम्यते तंयथानिर्देशंप्रति निर्दिष्टव्यत्वात्ता- दृशमित्यर्थोज्ञातव्यः तादृशंकामं अपस्यया कर्मणा हविः स्तुत्यादिलक्षणेन विदत् विन्दते यउ यएव स्वयं अनन्यप्रेरितः सन् स्वमनीषयैव वहते धारयतिफलं सः अरं अलं अत्यर्थं करत् करोतीतिशेषः अथवा यउ यएव स्वयंवहते स्वयमेवानुतिष्ठति सोत्यर्थंकुर्यात् नह्यन्येनकारितंफलवद्भवति ॥ ८ ॥

5.44.9
स॒मु॒द्रमा᳚सा॒मव᳚ तस्थे अग्रि॒मा न रि᳚ष्यति॒ सव᳚नं॒ यस्मि॒न्नाय᳚ता ।
अत्रा॒ न हार्दि᳚ क्रव॒णस्य᳚ रेजते॒ यत्रा᳚ म॒तिर्वि॒द्यते᳚ पूत॒बन्ध᳚नी ॥
▶ पदपाठः (Word-by-word)
स॒मु॒द्रम् । आ॒सा॒म् । अव᳚ । त॒स्थे॒ । अ॒ग्रि॒मा । न । रि॒ष्य॒ति॒ । सव᳚नम् । यस्मि᳚न् । आ॑य᳚ता ।
अत्र᳚ । न । हार्दि᳚ । क्र॒व॒णस्य᳚ । रे॒ज॒ते॒ । यत्र᳚ । म॒तिः । वि॒द्यते᳚ । पू॒त॒॑बन्ध᳚नी ॥
▶ सायणभाष्यम् (Sayana Commentary)

इयमसौरी आसांस्तुतीनां समुद्रं समुद्रवत्पर्यवसानभूतंसूर्यं अग्निमा अत्यन्तंश्रेष्ठा अस्मदीयास्तुतिरवतस्थेअवगच्छति यद्वा आसांप्रजानांऋत्विजांस्तुतिरितिसंबन्धः सवनं सूयतेसोमोत्रेतिसवनं यज्ञगृहं नरिष्यति नहिंस्यते किंतु प्रवर्धतइत्यर्थः यस्मिन्नायताविस्तीर्णानि स्तोत्राणि तत्सदनमिति अत्रास्मिन्यजमानगृहे क्रवणस्य स्तुतिकर्तुः हार्दि हृदयसंबन्धि हृदयगतंकाम्यंफलं नरेजते नविचलति नमृषाभवति यत्र यस्मिन् स्तोतृगृहे मतिः स्तुतिः पूतबन्धनी पूतं सूर्यं अनुबध्रन्तीविद्यते अत्रनरेजतइति ॥ ९ ॥

5.44.10 समानपद
स हि क्ष॒त्रस्य᳚ मन॒सस्य॒ चित्ति᳚भिरेवाव॒दस्य᳚ यज॒तस्य॒ सध्रे᳚ः ।
अ॒व॒त्सा॒रस्य᳚ स्पृणवाम॒ रण्व᳚भि॒ः शवि᳚ष्ठं॒ वाजं᳚ वि॒दुषा᳚ चि॒दर्ध्य᳚म् ॥
▶ पदपाठः (Word-by-word)
सः । हि । क्ष॒त्रस्य᳚ । म॒न॒सस्य᳚ । चित्ति᳚॑भिः । ए॒व॒॑व॒दस्य᳚ । य॒ज॒तस्य᳚ । सध्रेः᳚ ।
अ॒व॒॑त्सा॒रस्य᳚ । स्पृ॒ण॒वा॒म॒ । रण्व᳚॑भिः । शवि᳚ष्ठम् । वाज᳚म् । वि॒दुषा᳚ । चि॒त् । अर्ध्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इयमपिसौरी सहि सखलुसवितादेवः सर्वैःस्तुत्यः सर्वकामपूरकइत्यर्थः हिशब्दोलोकवेदयोः प्रसिद्धिद्योतकः तस्मात्सकाशात् अत्रान्येचऋषयोत्रदृष्टलिंगाइत्युक्तत्वात् क्षत्रादयऋषयः क्षत्रस्य्मनसस्य एवावदस्ययजतस्य सध्रेः अवत्सारस्यचैषामृषीणामस्माकं रण्वभीरमणीयाभिश्चित्तिभिः मनोरथैः स्पृणवाम पूरयाम किंशविष्ठंवाजं अतिशयेनबलवदन्नंअन्नंवैवाजइतिश्रुतेः । विदुषाचित् विपश्चिता अर्ध्यं समर्धनीयंस्पृणवाम क्षत्रादयोनयमितिसंबन्धः ॥ १० ॥

5.44.11
श्ये॒न आ᳚सा॒मदि᳚तिः क॒क्ष्यो॒३॒᳚ मदो᳚ वि॒श्ववा᳚रस्य यज॒तस्य᳚ मा॒यिनः᳚ ।
सम॒न्यम᳚न्यमर्थय॒न्त्येत᳚वे वि॒दुर्वि॒षाणं᳚ परि॒पान॒मन्ति॒ ते ॥
▶ पदपाठः (Word-by-word)
श्ये॒नः । आ॒सा॒म् । अदि᳚तिः । क॒क्ष्यः᳚ । मदः᳚ । वि॒श्व॑वा᳚रस्य । य॒ज॒तस्य᳚ । मा॒यिनः᳚ ।
सम् । अ॒न्यम्॑अ᳚न्यम् । अ॒र्थ॒य॒न्ति॒ । एत᳚वे । वि॒दुः । वि॒॑सान᳚म् । प॒रि॒॑पान᳚म् । अन्ति᳚ । ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

मददेवत्येयं विश्ववारादीनांत्रयाणामृषीणांस्वभूतः आसामपां सोमरसलक्षणानां मदः श्येनः शंसनीयगमनः शीघ्रंपातृसकाशगन्ता अदितिरदीनः अतिस्मृद्धः कक्ष्यकक्ष्यपूरकश्चभवतीतिशेषः तेविशवारादयः सत्रेप्रवृत्ताएतवे सोमंप्राप्तुंतत्पानाय अन्यमन्यं परस्परंसमर्थयंति याचन्ते अनुज्ञां तेविषाणं विशेषेणमदस्यदातारं परिपानं अन्ति अन्तिके विदुर्जानंतिलभन्तेवा ॥ ११ ॥

5.44.12
स॒दा॒पृ॒णो य᳚ज॒तो वि द्विषो᳚ वधीद्बाहुवृ॒क्तः श्रु᳚त॒वित्तर्यो᳚ व॒ः सचा᳚ ।
उ॒भा स वरा॒ प्रत्ये᳚ति॒ भाति᳚ च॒ यदीं᳚ ग॒णं भज᳚ते सुप्र॒याव᳚भिः ॥
▶ पदपाठः (Word-by-word)
स॒दा॒॑पृ॒णः । य॒ज॒तः । वि । द्विषः᳚ । व॒धी॒त् । बा॒हु॒॑वृ॒क्तः । श्रु॒त॒॑वित् । तर्यः᳚ । वः॒ । सचा᳚ ।
उ॒भा । सः । वरा᳚ । प्रति᳚ । ए॒ति॒ । भाति᳚ । च॒ । यत् । ई॒म् । ग॒णम् । भज᳚ते । सु॒प्र॒याव᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सदापृणः सर्वदादानशीलः एतन्नामा यजतोयष्टाच बाहुवृक्तः बाहुभ्यांवृक्तदर्भश्च श्रुतवित् श्रुत्रस्यवेत्ताच तर्यश्च एतेषांपंचानांपरस्परापेक्षयाप्रत्येकमेकवचनं ससऋषिर्विद्विषः शत्रून् वधीत् हिंस्यात् वोयुष्माकं सचा सहितः युष्माभिः सहितइत्यर्थः सऋषिः वरा श्रेष्ठौ उभा उभौ इहलोकपरलोकविषयौकामौ प्रत्येति अभिगच्छति भातिच यद्यस्मादीमेनंगणं देवसंघं सुप्रयावभिः सुष्ठ्रप्रकर्षेणमिश्रयद्भिः स्तोत्रैः भजते तस्मादेवंभातीति ॥ १२ ॥

5.44.13
सु॒त॒म्भ॒रो यज᳚मानस्य॒ सत्प᳚ति॒र्विश्वा᳚सा॒मूध॒ः स धि॒यामु॒दञ्च᳚नः ।
भर᳚द्धे॒नू रस᳚वच्छिश्रिये॒ पयो᳚॑नुब्रुवा॒णो अध्ये᳚ति॒ न स्व॒पन् ॥
▶ पदपाठः (Word-by-word)
सु॒त॒म्॑भ॒रः । यज᳚मानस्य । सत्॑प᳚तिः । विश्वा᳚साम् । ऊधः᳚ । सः । धि॒याम् । उ॒त्॑अञ्च᳚नः ।
भर᳚त् । धे॒नुः । रस᳚॑वत् । शि॒श्रि॒ये॒ । पयः᳚ । अ॒नु॒॑ब्रु॒वा॒णः । अधि᳚ । ए॒ति॒ । न । स्व॒पन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यजमानस्यावत्सारस्य मम सुतंभरोयागनिर्वाहकएतन्नामाऋषिः सत्पतिः सतांविद्यमानानांफलानांपालयिता होतादाताभवतीत्यर्थः सच विश्वासांधियांसर्वेषांकर्मणां ऊधः उद्धततरंफलं उदंचनः ऊर्ध्वमुद्गमयिता फलप्रापकइत्यर्थः धेनुर्गौः रसवत् सारवत्पयोभरत् अहरत् तत्र पयःशिश्रिये श्रयतिचास्यसामर्थ्यात् तत्सर्वमनुब्रुवाणः अनुक्रमेणसंकीर्तयन् नस्वपन् स्वापमकुर्वन् अनवरतमध्येति स्मरति अवत्सारः सुतंभरस्तादृशइति ॥ १३ ॥

5.44.14 समानपद
यो जा॒गार॒ तमृचः᳚ कामयन्ते॒ यो जा॒गार॒ तमु॒ सामा᳚नि यन्ति ।
यो जा॒गार॒ तम॒यं सोम᳚ आह॒ तवा॒हम᳚स्मि स॒ख्ये न्यो᳚काः ॥
▶ पदपाठः (Word-by-word)
यः । जा॒गार᳚ । तम् । ऋचः᳚ । का॒म॒य॒न्ते॒ । यः । जा॒गार᳚ । तम् । ऊं॒ इति᳚ । सामा᳚नि । य॒न्ति॒ ।
यः । जा॒गार᳚ । तम् । अ॒यम् । सोमः᳚ । आ॒ह॒ । तव᳚ । अ॒हम् । अ॒स्मि॒ । स॒ख्ये । नि॑ओ᳚काः ॥
▶ सायणभाष्यम् (Sayana Commentary)

योदेवोजागार सर्वदाविनिद्रोजागरूकोगृहेवर्तते तमृचः सर्वशास्त्रात्मिकाः कामयन्ते यश्च जागार तमु तमेव सामानि स्तोत्ररूपाणि यन्ति प्राप्नुवन्ति योजागारतमयं अभिषुतः सोमआह वक्ति मांस्वीकुर्विति हेअग्ने तादृशस्य तवसख्येसमानख्याने हितकरणेन्योकाः नियतस्थानोहं अस्मि भवामि ॥ १४ ॥

5.44.15
अ॒ग्निर्जा᳚गार॒ तमृचः᳚ कामयन्ते॒॑ग्निर्जा᳚गार॒ तमु॒ सामा᳚नि यन्ति ।
अ॒ग्निर्जा᳚गार॒ तम॒यं सोम᳚ आह॒ तवा॒हम᳚स्मि स॒ख्ये न्यो᳚काः ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निः । जा॒गा॒र॒ । तम् । ऋचः᳚ । का॒म॒य॒न्ते॒ । अ॒ग्निः । जा॒गा॒र॒ । तम् । ऊं॒ इति᳚ । सामा᳚नि । य॒न्ति॒ ।
अ॒ग्निः । जा॒गा॒र॒ । तम् । अ॒यम् । सोमः᳚ । आ॒ह॒ । तव᳚ । अ॒हम् । अ॒स्मि॒ । स॒ख्ये । नि॑ओ᳚काः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्निर्जागारेतिपंचदशी पूर्वयैवनिगदितव्याख्या यइत्यस्यस्थाने अग्निरितिविशेषः ॥ १५ ॥

अथचतुर्थेनुवाकेद्वादशसूक्तानि तत्रविदादिवइत्येकादशर्चंप्रथमंसूक्तं सदापृणोनामात्रेयऋषिः त्रिष्टुप् छन्दः वैतदित्युक्तत्वादि -दमपिवैश्वदेवं विदाएकादशसदापृणइत्यनुक्रमणीका विनियोगोलैंगिकः ।