श्रि॒ये सु॒दृशी॒रुप᳚रस्य॒ याः स्व᳚र्वि॒रोच᳚मानः क॒कुभा᳚मचो॒दते᳚ ।
सु॒गो॒पा अ᳚सि॒ न दभा᳚य सुक्रतो प॒रो मा॒याभि᳚रृ॒त आ᳚स॒ नाम᳚ ते ॥
सु॒गो॒पा अ᳚सि॒ न दभा᳚य सुक्रतो प॒रो मा॒याभि᳚रृ॒त आ᳚स॒ नाम᳚ ते ॥
पदपाठः (Word-by-word)
श्रि॒ये । सु॒॑दृशीः᳚ । उप᳚रस्य । याः । स्वः᳚ । वि॒॑रोच᳚मानः । क॒कुभा᳚म् । अ॒चो॒दते᳚ ।
सु॒॑गो॒पाः । अ॒सि॒ । न । दभा᳚य । सु॒क्र॒तो॒ इति᳚ सु॑क्रतो । प॒रः । मा॒याभिः᳚ । ऋ॒ते । आ॒स॒ । नाम᳚ । ते॒ ॥
सु॒॑गो॒पाः । अ॒सि॒ । न । दभा᳚य । सु॒क्र॒तो॒ इति᳚ सु॑क्रतो । प॒रः । मा॒याभिः᳚ । ऋ॒ते । आ॒स॒ । नाम᳚ । ते॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्र स्वः स्वर्गे विरोचमानस्त्वं अचोदते अप्रेरयितुः षष्ठ्यर्थेचतुर्थी उपरस्य मेघस्य संबन्धिन्यः सुदृशीःसुरोचमानायाआपः सन्ति तासामपां ककुभां सर्वासांदिशांमध्ये श्रिये प्राणिनांश्रयणायप्रेरकोभवेतिशेषः हेसुक्रतो शोभनवृष्टिप्रदानादिकर्मकेन्द्र त्वं सुगोपाः प्राणिनांसुष्ठुगोपायितासि अतोनदभाय नदंभनायवधाय प्राणिनांनासि नपभवसि त्वंच मायाभिरासुरीभिः परोमायाभ्यः प्रस्ताद्वर्तमानः यस्मात्तेत्वदीयंनाम नामकं रूपे ऋते सत्यछोके आस आस्ते ॥ २ ॥