श्रवणम्

5.44.13
सु॒त॒म्भ॒रो यज᳚मानस्य॒ सत्प᳚ति॒र्विश्वा᳚सा॒मूध॒ः स धि॒यामु॒दञ्च᳚नः ।
भर᳚द्धे॒नू रस᳚वच्छिश्रिये॒ पयो᳚॑नुब्रुवा॒णो अध्ये᳚ति॒ न स्व॒पन् ॥
▶ पदपाठः (Word-by-word)
सु॒त॒म्॑भ॒रः । यज᳚मानस्य । सत्॑प᳚तिः । विश्वा᳚साम् । ऊधः᳚ । सः । धि॒याम् । उ॒त्॑अञ्च᳚नः ।
भर᳚त् । धे॒नुः । रस᳚॑वत् । शि॒श्रि॒ये॒ । पयः᳚ । अ॒नु॒॑ब्रु॒वा॒णः । अधि᳚ । ए॒ति॒ । न । स्व॒पन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यजमानस्यावत्सारस्य मम सुतंभरोयागनिर्वाहकएतन्नामाऋषिः सत्पतिः सतांविद्यमानानांफलानांपालयिता होतादाताभवतीत्यर्थः सच विश्वासांधियांसर्वेषांकर्मणां ऊधः उद्धततरंफलं उदंचनः ऊर्ध्वमुद्गमयिता फलप्रापकइत्यर्थः धेनुर्गौः रसवत् सारवत्पयोभरत् अहरत् तत्र पयःशिश्रिये श्रयतिचास्यसामर्थ्यात् तत्सर्वमनुब्रुवाणः अनुक्रमेणसंकीर्तयन् नस्वपन् स्वापमकुर्वन् अनवरतमध्येति स्मरति अवत्सारः सुतंभरस्तादृशइति ॥ १३ ॥