पञ्चमं मण्डलम् - सूक्तम् 64

7 ऋचः

ऋषिः: अर्चनाना आत्रेयः देवता: मित्रावरुणौ छन्दः: अनुष्टुप्

सूक्तम् 5.64 - सम्पूर्णम्

1 / 7
ऋक्: 5.64.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
5.64.1
वरु᳚णं वो रि॒शाद᳚समृ॒चा मि॒त्रं ह᳚वामहे ।
परि᳚ व्र॒जेव᳚ बा॒ह्वोर्ज᳚ग॒न्वांसा॒ स्व᳚र्णरम् ॥
▶ पदपाठः (Word-by-word)
वरु᳚णम् । वः॒ । रि॒शाद᳚सम् । ऋ॒चा । मि॒त्रम् । ह॒वा॒म॒हे॒ ।
परि᳚ । व्र॒जा॑इ᳚व । बा॒ह्वोः । ज॒ग॒न्वांसा᳚ । स्वः᳚॑नरम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वोयुवयोर्मध्ये व्यत्ययेनबहुवचनं रिशादसं रिशन्तिहिंसन्तीतिरिशाःशत्रवः तेषांप्रेरकं स्वर्णरं स्वर्गस्यनेतारं एतद्भ्यवहितमप्युभय- त्रसंबध्यते एवंविधंवरुणं उक्तलक्षणंमित्रं च ऋचा मंत्रेण हवामहे आह्वयामः अथावयुत्योच्यते व्रजेव गोयूथानीव बाह्वोःबलेन परिज- गन्वांसा परिगच्छन्तौ ॥ १ ॥

5.64.2 समानपद
ता बा॒हवा᳚ सुचे॒तुना॒ प्र य᳚न्तमस्मा॒ अर्च᳚ते ।
शेवं॒ हि जा॒र्यं᳚ वां॒ विश्वा᳚सु॒ क्षासु॒ जोगु᳚वे ॥
▶ पदपाठः (Word-by-word)
ता । बा॒हवा᳚ । सु॒॑चे॒तुना᳚ । प्र । य॒न्त॒म् । अ॒स्मै॒ । अर्च᳚ते ।
शेव᳚म् । हि । जा॒र्य᳚म् । वा॒म् । विश्वा᳚सु । क्षासु᳚ । जोगु᳚वे ॥
▶ सायणभाष्यम् (Sayana Commentary)

ता तौ युवां बाहवा बाहुना सुचेतुना सुष्ठुप्रज्ञात्रा प्रयासभूयस्त्वंजानतेत्यर्थः यद्यप्यात्मेवज्ञाता नहस्तः तथापि तद्धर्ममत्रारोप्यस्तूयते यद्वैतत्तावित्यस्यविशेषणं सुज्ञानावित्यर्थः शोभनहस्तेन अस्मैअर्चतेस्तुवते मह्यं प्रयन्तं अभिमतंसुखंगमयतं अन्तर्भावितण्यर्थोद्रष्टव्यः यमिर्दानकर्मावाद्रष्टव्यः प्रयच्छत्मित्यर्थः जार्यं स्तुत्यं शेवं सुखं वांयुवयोः संबन्धि युवाभ्यांकृतंवा विश्वासुसर्वासु क्षासु भूमिषु जोगुवे गच्छतिव्याप्नोति अवतेगवतइति गतिकर्मसुपाठात् अयमपिगतिकर्मा अथवा जोगुवे सर्वत्रशब्दयामीत्यर्थः ॥ २ ॥

5.64.3
यन्नू॒नम॒श्यां गतिं᳚ मि॒त्रस्य᳚ यायां प॒था ।
अस्य᳚ प्रि॒यस्य॒ शर्म॒ण्यहिं᳚सानस्य सश्चिरे ॥
▶ पदपाठः (Word-by-word)
यत् । नू॒नम् । अ॒श्याम् । गति᳚म् । मि॒त्रस्य᳚ । या॒या॒म् । प॒था ।
अस्य᳚ । प्रि॒यस्य᳚ । शर्म᳚णि । अहिं᳚सानस्य । स॒श्चि॒रे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यत् यदा नूनमिदानीं गतिं गमनमश्यांप्राप्नुयां यद्योगादनिघातः तदामित्रस्य मित्रभूतस्य पथा मार्गेण मित्रप्रापकेणमार्गेण यायां ग- च्छेयं मित्रोनयतुविद्वानित्यादिषुमित्रस्येष्टदेशगमयितृत्वंप्रसिद्धं नकेवलमहमेकएवगन्ता किन्तु सर्वेपितथागमन्नित्याह अस्यप्रियस्यमित्र- स्येत्यर्थः अहिंसानस्य अहिंसतः यतोयमहन्ता अतःप्रियइत्यर्थः तस्यशर्मणि सुखे गृहेस्थानेवा सश्चिरे संगताः ॥ ३ ॥

5.64.4
यु॒वाभ्यां᳚ मित्रावरुणोप॒मं धे᳚यामृ॒चा ।
यद्ध॒ क्षये᳚ म॒घोनां᳚ स्तोतॄ॒णां च᳚ स्पू॒र्धसे᳚ ॥
▶ पदपाठः (Word-by-word)
यु॒वाभ्या᳚म् । मि॒त्रा॒व॒रु॒णा॒ । उ॒प॒॑मम् । धे॒या॒म् । ऋ॒चा ।
यत् । ह॒ । क्षये᳚ । म॒घोना᳚म् । स्तो॒तॄ॒णाम् । च॒ । स्पू॒र्धसे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमित्रावरुणा युवाभ्यांदातव्यं उपमं उपसमीपेमीयमानंधनं ऋचा स्तुत्यासाधनेन धेयां धारयामि यद्ध यत् ख्लु युवाभ्यांसकाशादा- प्तंधनं मघोनां धनवतां अदातॄणांस्तोतॄणांच क्षये गृहे स्पूर्धसे स्पर्धनायभवति धनिकानांस्तोतॄणांच धनाधिक्यविषयेस्पर्धाभवतीत्यर्थः अपरिमितंधनंभवतीतिभावः ॥ ४ ॥

5.64.5
आ नो᳚ मित्र सुदी॒तिभि॒र्वरु᳚णश्च स॒धस्थ॒ आ ।
स्वे क्षये᳚ म॒घोनां॒ सखी᳚नां च वृ॒धसे᳚ ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । मि॒त्र॒ । सु॒दी॒ति॑भिः᳚ । वरु᳚णः । च॒ । स॒ध॑स्थे᳚ । आ ।
स्वे । क्षये᳚ । म॒घोना᳚म् । सखी᳚नाम् । च॒ । वृ॒धसे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमित्र त्वंचवरुणश्च सुदीतिभिः सुदीप्तियुक्तौ युवां नोस्मभ्यं सधस्थे सहस्थानेयज्ञे आगच्छ्तं द्वितीयआकारोनर्थकआदरार्थोवा किम- र्थमिति उच्यते मघोनां धनवतां ह्विष्मतां सखीनांच युवयोः सखीभूतानामस्माकं क्षये गृहे स्वे स्वकीये वृधसे वर्धनाय ॥ ५ ॥

5.64.6
यु॒वं नो॒ येषु᳚ वरुण क्ष॒त्रं बृ॒हच्च᳚ बिभृ॒थः ।
उ॒रु णो॒ वाज᳚सातये कृ॒तं रा॒ये स्व॒स्तये᳚ ॥
▶ पदपाठः (Word-by-word)
यु॒वम् । नः॒ । येषु᳚ । व॒रु॒णा॒ । क्ष॒त्रम् । बृ॒हत् । च॒ । बि॒भृ॒थः ।
उ॒रु । नः॒ । वाज᳚॑सातये । कृ॒तम् । रा॒ये । स्व॒स्तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवरुण मित्रावरुणौ युवं युवां नोस्माकं क्षत्रं बलं बृहत् ब्रह्मपरिवृढमन्नंच येषु स्तोत्रेषुनिमित्तेषु बिभृथः धारयथः युवाभ्यांधृतंबलम- न्नंच नोस्मभ्यं वाजसातये अन्नस्यलाभाय यज्ञायवा राये धनाय स्वस्तये क्षेमायच उरु विस्तीर्णं कृतं कुरुतम् ॥ ६ ॥

5.64.7
उ॒च्छन्त्यां᳚ मे यज॒ता दे॒वक्ष᳚त्रे॒ रुश᳚द्गवि ।
सु॒तं सोमं॒ न ह॒स्तिभि॒रा प॒ड्भिर्धा᳚वतं नरा॒ बिभ्र᳚तावर्च॒नान᳚सम् ॥
▶ पदपाठः (Word-by-word)
उ॒च्छन्त्या᳚म् । मे॒ । य॒ज॒ता । दे॒व॑क्ष᳚त्रे । रुश᳚त्॑गवि ।
सु॒तम् । सोम᳚म् । न । ह॒स्ति॑भिः᳚ । आ । प॒ट्॑भिः । धा॒व॒त॒म् । न॒रा॒ । बिभ्र᳚तौ । अ॒र्च॒नान᳚सम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उच्छन्त्यां उषसि मेसोममितिसंबन्धः यजता यष्टव्यौ रुशद्गवि सोचमनरश्मौप्रातः सवने देवक्षत्रे देवानांक्षत्रंबलंयस्मिन्गृहेतद्देवक्षत्रं तसिन्मेमदीयं सुतमभिषुतं सोमं न नेतिसंप्रत्यर्थे इदानीं हस्तिभिः हस्तवद्भिः हंतेर्गतिकर्मणोहस्तशब्दः गमनसाधनपादवद्भिरित्यर्थः पड् भिःपादवद्भिश्च पादचतुष्टयोपेतैरश्वैराधावतं आग्च्छ्तं नरा हेनेतारौमित्रावरुणौ ॥ ७ ॥

यश्चिकेतेतिषळृचंनवमंसूक्तं रातहव्यस्यात्रेयस्यार्षं मैत्रावरुणं यश्चिकेतषळ्रातहव्यइत्यनुक्रामणिका । पंक्त्यंतंत्वित्युक्तत्वात्पंत्तयन्त- परिभाषयानुष्टुभं अन्त्यापंक्तिः विनियोगोलैंगिकः ।