श्रवणम्

5.64.6
यु॒वं नो॒ येषु᳚ वरुण क्ष॒त्रं बृ॒हच्च᳚ बिभृ॒थः ।
उ॒रु णो॒ वाज᳚सातये कृ॒तं रा॒ये स्व॒स्तये᳚ ॥
▶ पदपाठः (Word-by-word)
यु॒वम् । नः॒ । येषु᳚ । व॒रु॒णा॒ । क्ष॒त्रम् । बृ॒हत् । च॒ । बि॒भृ॒थः ।
उ॒रु । नः॒ । वाज᳚॑सातये । कृ॒तम् । रा॒ये । स्व॒स्तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवरुण मित्रावरुणौ युवं युवां नोस्माकं क्षत्रं बलं बृहत् ब्रह्मपरिवृढमन्नंच येषु स्तोत्रेषुनिमित्तेषु बिभृथः धारयथः युवाभ्यांधृतंबलम- न्नंच नोस्मभ्यं वाजसातये अन्नस्यलाभाय यज्ञायवा राये धनाय स्वस्तये क्षेमायच उरु विस्तीर्णं कृतं कुरुतम् ॥ ६ ॥