पञ्चमं मण्डलम् - सूक्तम् 78

9 ऋचः

ऋषिः: सप्तवध्रिरात्रेयः देवता: अश्विनौ (गर्भस्राविण्युपनिषत्) छन्दः: उष्णिक्

सूक्तम् 5.78 - सम्पूर्णम्

1 / 9
ऋक्: 5.78.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
5.78.1
अश्वि᳚ना॒वेह ग᳚च्छतं॒ नास᳚त्या॒ मा वि वे᳚नतम् ।
हं॒सावि᳚व पतत॒मा सु॒ता{4} उप᳚ ॥
▶ पदपाठः (Word-by-word)
अश्वि᳚नौ । आ । इ॒ह । ग॒च्छ॒त॒म् । नास᳚त्या । मा । वि । वे॒न॒त॒म् ।
हं॒सौ॑इ᳚व । प॒त॒त॒म् । आ । सु॒तान् । उप᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअश्विनौ इहास्मिन्यागे आगच्छ्तं हेनासत्या मविवेनतं वेनतिःकान्तिकर्मा माविकामौभवतं निस्पृहावकामौ भवतमित्यर्थः हंसाविव तौयथानिर्मलोदकं आगच्छतस्तद्वत् सुतानभिषुतान् सोमान् उपापततं उपागच्छतं ॥ १ ॥

5.78.2
अश्वि᳚ना हरि॒णावि᳚व गौ॒रावि॒वानु॒ यव᳚सम् ।
हं॒सावि᳚व पतत॒मा सु॒ता{4} उप᳚ ॥
▶ पदपाठः (Word-by-word)
अश्वि᳚ना । ह॒रि॒णौ॑इ᳚व । गौ॒रौ॑इ᳚व । अनु᳚ । यव᳚सम् ।
हं॒सौ॑इ᳚व । प॒त॒त॒म् । आ । सु॒तान् । उप᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअश्विनौ हरिणाविव गौराविव गौरमृगाविवच तौयथा यवसं घासं अनुधावतः ताविव हंसाविवच सोममागच्छतं ॥ २ ॥

5.78.3
अश्वि᳚ना वाजिनीवसू जु॒षेथां᳚ य॒ज्ञमि॒ष्टये᳚ ।
हं॒सावि᳚व पतत॒मा सु॒ता{4} उप᳚ ॥
▶ पदपाठः (Word-by-word)
अश्वि᳚ना । वा॒जि॒नी॒व॒सू॒ इति᳚ वाजिनी॑वसू । जु॒षेथा᳚म् । य॒ज्ञम् । इ॒ष्टये᳚ ।
हं॒सौ॑इ᳚व । प॒त॒त॒म् । आ । सु॒तान् । उप᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवाजिनीवसू अन्नार्थंवासयितारौ अश्विना यज्ञमस्मदीयं इष्टये अभीष्टाय एषणायवा जुषेथां सेवेथां ॥ ३ ॥

5.78.4 समानपद
अत्रि॒र्यद्वा᳚मव॒रोह᳚न्नृ॒बीस॒मजो᳚हवी॒न्नाध᳚मानेव॒ योषा᳚ ।
श्ये॒नस्य᳚ चि॒ज्जव᳚सा॒ नूत᳚ने॒नाग᳚च्छतमश्विना॒ शंत᳚मेन ॥
▶ पदपाठः (Word-by-word)
अत्रिः᳚ । यत् । वा॒म् । अ॒व॒॑रोह᳚न् । ऋ॒बीस᳚म् । अजो᳚हवीत् । नाध᳚माना॑इव । योषा᳚ ।
श्ये॒नस्य᳚ । चि॒त् । जव᳚सा । नूत᳚नेन । आ । अ॒ग॒च्छ॒त॒म् । अ॒श्वि॒ना॒ । शम्॑त᳚मेन ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्रिरस्मत्पिता यद्यदा वां युवां अजोहवीत् अस्तौषीत् नाधमाना याचमाना योषा योषिदिव सायथ पतिंप्रीणयति तद्वत् कुर्वन् ऋबीसं तुषाग्निं अग्निकुंडेक्षिप्तःसन् अवरोहन् विमुंचन् अजोहवीत् श्येनस्यचित् जवसा श्येनस्य गरुत्मतइववेगेन चिदित्युपमार्थे अथवा श्येनस्यजवसा वेगेन नूतनेन प्रथमोत्पन्नेन सततंगच्छतः श्येनस्यप्रथमजवेन शंतमेनास्माकं सुखतमेनचरथेन तं रक्षितुमागच्छतं हेअश्विना ॥ ४ ॥ अत्रब्रुवन्तीतिहासंसप्तवध्रेःपुराविदः ॥ भ्रातृव्याःपेटिकायांतमृषिंप्रक्षिप्ययत्नतः ॥ १ ॥ मुद्रांकृत्वागृहेस्वीयेरक्षयित्वान्यवेशयन् ॥ नसं- गच्छेतभार्यांस्वांयथारात्रौतथाकृतम् ॥ २ ॥ प्रातःप्रातःसमुद्घाट्यनिर्मथिष्यन्तितंमुनिं ॥ एवंस्थित्वाचिरंकालंपेटायांदुःखितःकृशः ॥ ३ ॥ उपायंचिंतयामासनिर्गमस्यचिरंमुनिः ॥ हृदिनिश्चित्यनासत्यवस्तौषीद्धृष्टमानसः ॥ ४ ॥ तमश्विनौसमागत्यसमुद्घाट्यचपेतिकां ॥ उद्धृ- त्यतमृषिंशीघ्रंतावदृष्टौबभूवतुः ॥ ५ ॥ सऋषिर्भार्ययासार्धंरमित्वाथपुनर्भयात् ॥ प्रातरेत्यपुनःपेटांप्रविश्यप्रागिवस्थितः ॥ ६ ॥ पेटानिवास- समयेदृष्टवानृग्द्वयंतदा ॥

5.78.5
वि जि᳚हीष्व वनस्पते॒ योनि॒ः सूष्य᳚न्त्या इव ।
श्रु॒तं मे᳚ अश्विना॒ हवं᳚ स॒प्तव᳚ध्रिं च मुञ्चतम् ॥
▶ पदपाठः (Word-by-word)
वि । जि॒ही॒ष्व॒ । व॒न॒स्प॒ते॒ । योनिः᳚ । सूष्य᳚न्त्याः॑इव ।
श्रु॒तम् । मे॒ । अ॒श्वि॒ना॒ । हव᳚म् । स॒प्त॑व᳚ध्रिम् । च॒ । मु॒ञ्च॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवनस्पते वनस्पतिविकाररूपेपेटिके विजिहीष्व विगच्छ विवृताभव सूष्यंत्याइव प्रसोष्यमाणायाः स्त्रियाःयोनिरिव षूङ्प्राणिप्रसवे ऌटिशतरिरूपं संज्ञापूर्वस्यविधेरनित्यत्वाद्गुणाभावः प्रसवोन्मुख्याः स्त्रियाः योनिरिव भगः यथाविव्रियते तथात्वमपि विवृताभव तदर्थं हेअश्विना अश्विनौ मेहवं आह्वानं श्रुतं श्रृणुतं श्रुत्वाच सप्तवध्रिंच मामृषिंमुंचतं मोचयतं ॥ ५ ॥

5.78.6
भी॒ताय॒ नाध᳚मानाय॒ ऋष᳚ये स॒प्तव᳚ध्रये ।
मा॒याभि᳚रश्विना यु॒वं वृ॒क्षं सं च॒ वि चा᳚चथः ॥
▶ पदपाठः (Word-by-word)
भी॒ताय᳚ । नाध᳚मानाय । ऋष᳚ये । स॒प्त॑व᳚ध्रये ।
मा॒याभिः᳚ । अ॒श्वि॒ना॒ । यु॒वम् । वृ॒क्षम् । सम् । च॒ । वि । च॒ । अ॒च॒थः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

भीताय निर्गमाद्बिभ्युषे नाधमानाय विमोक्षंयाचमानाय सप्तवध्रयेऋषये हेअश्विना अश्विनौ युवं युवां मायाभिः वृक्षं वृक्षविकारांपे- टिकां संचाचथः ममनिर्गमार्थं संगच्छथः विचाचथः विभक्तंकुरुथः ॥ ६ ॥

5.78.7
यथा॒ वातः᳚ पुष्क॒रिणीं᳚ समि॒ङ्गय᳚ति स॒र्वतः᳚ ।
ए॒वा ते॒ गर्भ᳚ एजतु नि॒रैतु॒ दश᳚मास्यः ॥
▶ पदपाठः (Word-by-word)
यथा᳚ । वातः᳚ । पु॒ष्क॒रिणी᳚म् । स॒म्॑इ॒ङ्गय᳚ति । स॒र्वतः᳚ ।
ए॒व । ते॒ । गर्भः᳚ । ए॒ज॒तु॒ । निः॒॑ऐतु᳚ । दश᳚॑मास्यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

एतदाद्यृतक्रयंगर्भस्राविण्युपनिषत् एतदाद्यृक्रयेणासौसप्तवध्रिः स्वयोषितः ॥ गर्भिण्याःप्रसवायाशुस्तुतवानश्विनावृषिः ॥ १ ॥ यथा- वाताःपुष्करिणीं सरआदिकं सर्वतः समिंगयति सम्यक् चालति एवएवं तेतव गर्भएजतु कंपतां इतस्ततः संचरतु दशमास्यः दशमासान् गर्भे स्थितोनिरैतु निर्गच्छतु ॥ ७ ॥

5.78.8 समानपद
यथा॒ वातो॒ यथा॒ वनं॒ यथा᳚ समु॒द्र एज᳚ति ।
ए॒वा त्वं द᳚शमास्य स॒हावे᳚हि ज॒रायु᳚णा ॥
▶ पदपाठः (Word-by-word)
यथा᳚ । वातः᳚ । यथा᳚ । वन᳚म् । यथा᳚ । स॒मु॒द्रः । एज᳚ति ।
ए॒व । त्वम् । द॒श॒॑मा॒स्य॒ । स॒ह । अव᳚ । इ॒हि॒ । ज॒रायु᳚णा ॥
▶ सायणभाष्यम् (Sayana Commentary)

वातोयथाकंपमानोवनंकंपयतिस्वयं ॥ यथासमुद्रश्चलतिचाल्यतेवाथवायुना ॥ १ ॥ स्थित्वादशैवमासांस्त्वंगर्भोल्बेनसुवेष्टितः ॥ निर्गच्छजठारान्मातुर्जरायुयुजआपत ॥ २ ॥ ८ ॥

5.78.9 समानपद
दश॒ मासा᳚ञ्छशया॒नः कु᳚मा॒रो अधि᳚ मा॒तरि᳚ ।
नि॒रैतु᳚ जी॒वो अक्ष᳚तो जी॒वो जीव᳚न्त्या॒ अधि᳚ ॥
▶ पदपाठः (Word-by-word)
दश᳚ । मासा᳚न् । श॒श॒या॒नः । कु॒मा॒रः । अधि᳚ । मा॒तरि᳚ ।
निः॒॑ऐतु᳚ । जी॒वः । अक्ष᳚तः । जी॒वः । जीव᳚न्त्याः । अधि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

दशमासानुषित्वासौजननीजठरेसुखं ॥ निर्गच्छतुसुखंजीवोजननीचापिजीवतु ॥ १ ॥ ९ ॥

महेनोअद्येतिदशर्चंसप्तमंसूक्तं आत्रेयस्यसत्यश्रवसस्यार्षं पांक्तमुषस्यं अनुक्रम्यतेच-महेदशसत्यश्रवाउषस्यंतुपांक्तमिति । प्रात- रनुवाकेउषस्येक्रतौपांक्तेछन्दसिआश्विनशस्त्रेचेदंसूक्तं सूत्र्यतेहि-महेनोअद्येतिपांक्तमिति ।