पञ्चमं मण्डलम् - सूक्तम् 74

10 ऋचः

ऋषिः: पौर आत्रेयः देवता: अश्विनौ छन्दः: अनुष्टुप्

सूक्तम् 5.74 - सम्पूर्णम्

1 / 10
ऋक्: 5.74.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
5.74.1
कूष्ठो᳚ देवावश्विना॒द्या दि॒वो म᳚नावसू ।
तच्छ्र᳚वथो वृषण्वसू॒ अत्रि᳚र्वा॒मा वि᳚वासति ॥
▶ पदपाठः (Word-by-word)
कू॑स्थः᳚ । दे॒वौ॒ । अ॒श्वि॒ना॒ । अ॒द्य । दि॒वः । म॒ना॒व॒सू॒ इति᳚ ।
तत् । श्र॒व॒थः॒ । वृ॒ष॒ण्व॒सू॒ इति᳚ वृषण्॑वसू । अत्रिः᳚ । वा॒म् । आ । वि॒वा॒स॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेदेवौ हेमनावसू स्तुतिधनौ श्रृणुथःअश्विनाद्यास्मिन्यागदिनेदिवोद्युलोकादागत्य कूष्ठः व्यत्ययेनैकवचनं कौ भूमौ तिष्ठन्तौ सन्तौ तत्स्तोत्रं श्रवथः हेवृषण्वसू वर्षकधनौवां अत्रिरत्रेःपुत्रः आविवासति सर्वतःपरिचरति अथवा कुइत्यस्यनिपातस्यस्थइत्याख्यातेन सहेति- योगविभागात्समासः ऎकस्वर्यंचाध्येतृसमयप्राप्तं अराइवेत्यत्र यथाइवशब्दःकूचिज्जायते कूचित्सन्तमित्यादिवदत्रापिद्रष्टव्यं क्वस्थितौभ- वथः अत्रिर्युवांस्तौति तंश्रृणुथेत्यर्थः ॥ १ ॥

5.74.2 समानपद
कुह॒ त्या कुह॒ नु श्रु॒ता दि॒वि दे॒वा नास᳚त्या ।
कस्मि॒न्ना य᳚तथो॒ जने॒ को वां᳚ न॒दीनां॒ सचा᳚ ॥
▶ पदपाठः (Word-by-word)
कुह᳚ । त्या । कुह᳚ । नु । श्रु॒ता । दि॒वि । दे॒वा । नास᳚त्या ।
कस्मि᳚न् । आ । य॒त॒थः॒ । जने᳚ । कः । वा॒म् । न॒दीना᳚म् । सचा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्या तौ देवा देवौ नासत्या अशिनौ कुह कुत्रतिष्ठथः नु अद्य कुःहश्रुता कुत्रश्रुतौ दिवि द्युलोकेनिवसतइतिशेषः अथप्रत्यक्षकृतः हेदे- वौ युवां कस्मिन् जने यजमाने आयतथः आगच्छथः कःस्तोता वांयुवयोर्नदीनांस्तुतीनां सचा सहायः स्यात् ॥ २ ॥

5.74.3
कं या᳚थ॒ः कं ह᳚ गच्छथ॒ः कमच्छा᳚ युञ्जाथे॒ रथ᳚म् ।
कस्य॒ ब्रह्मा᳚णि रण्यथो व॒यं वा᳚मुश्मसी॒ष्टये᳚ ॥
▶ पदपाठः (Word-by-word)
कम् । या॒थः॒ । कम् । ह॒ । ग॒च्छ॒थः॒ । कम् । अच्छ᳚ । यु॒ञ्जा॒थे॒ इति᳚ । रथ᳚म् ।
कस्य᳚ । ब्रह्मा᳚णि । र॒ण्य॒थः॒ । व॒यम् । वा॒म् । उ॒श्म॒सि॒ । इ॒ष्टये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअश्विनौ युवां कं यजमानं यज्ञंवा प्रतियाथः अध्वानमुल्लंघ्ययाथः कंहकंच प्रतिगच्छथः गत्वाच केनसह संगतौभवथः कंचाच्छाभि- प्राप्तुंयुंजाथे योजयथोरथमश्वैः कस्यब्रह्माणि परिवृढानि स्तोत्राणि रण्यथः रमेथे वयंच वांयुवां इष्टये गयनायएषणायवा उश्मसि काम- यामहे तस्मात्कस्यचयागंप्रतिनगन्तव्यमित्यर्थः ॥ ३ ॥

5.74.4
पौ॒रं चि॒द्ध्यु᳚द॒प्रुतं॒ पौर᳚ पौ॒राय॒ जिन्व᳚थः ।
यदीं᳚ गृभी॒तता᳚तये सिं॒हमि᳚व द्रु॒हस्प॒दे ॥
▶ पदपाठः (Word-by-word)
पौ॒रम् । चि॒त् । हि । उ॒द॒॑प्रुत᳚म् । पौर᳚ । पौ॒राय᳚ । जिन्व᳚थः ।
यत् । ई॒म् । गृ॒भी॒त॑ता᳚तये । सिं॒हम्॑इ᳚व । द्रु॒हः । प॒दे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेपौर इदमश्विनोःसंबोधनं पौरेणस्तुत्यत्वेनसंबन्धादश्विनावपिपौरौ उभयोश्छान्दसमेकवचनं हेपौरसंबन्धिनावश्विनौ युवांपौरं चिदितिपूरणः पौरेणवृष्ट्यर्थंप्रार्थ्यमानत्वेनसंबन्धान्मेघोपिपौरः तं उदप्रुतं उदकप्लावकंमेघं पौरायऋषयेमह्यं जिन्वथः प्रेरयथः यद्यौ- युवां ईमितिपूरणः गृभीततातये गृहीतयज्ञसन्तानाय पौराय ईमेनंमेघं प्रतिगच्छ्थः द्रुहः द्रोहस्य पदे स्थाने अरण्यदेशे सिंहमिवगर्जन्तं प्रबलंसिंहंयथाबलात् च्यावयन्तिशूराःतद्वज्जिन्वथइति ॥ ४ ॥

5.74.5
प्र च्यवा᳚नाज्जुजु॒रुषो᳚ व॒व्रिमत्कं॒ न मु᳚ञ्चथः ।
युवा॒ यदी᳚ कृ॒थः पुन॒रा काम᳚मृण्वे व॒ध्व᳚ः ॥
▶ पदपाठः (Word-by-word)
प्र । च्यवा᳚नात् । जु॒जु॒रुषः᳚ । व॒व्रिम् । अत्क᳚म् । न । मु॒ञ्च॒थः॒ ।
युवा᳚ । यदि᳚ । कृ॒थः । पुनः᳚ । आ । काम᳚म् । ऋ॒ण्वे॒ । व॒ध्वः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

च्यावानादृषेः जुजुरुषोजरसाजीर्णात्सकाशाद्वव्रिं हेयं पुराणं रूपं अत्कंन कवचमिव प्रमुंचथः प्रमुंचतं प्रामुंचतं द्रापिमिवच्यवाना- दित्यादिमंत्रान्तरम् । यदि यदा पुनः युवाकृथः युवानं कुरुथइत्यार्थः तदावध्वः सुरूपायाःस्त्रियः कामं कमनीयंरूपमाऋण्वे प्राप्तवान् ॥ ५ ॥

5.74.6
अस्ति॒ हि वा᳚मि॒ह स्तो॒ता स्मसि᳚ वां सं॒दृशि᳚ श्रि॒ये ।
नू श्रु॒तं म॒ आ ग᳚त॒मवो᳚भिर्वाजिनीवसू ॥
▶ पदपाठः (Word-by-word)
अस्ति᳚ । हि । वा॒म् । इ॒ह । स्तो॒ता । स्मसि᳚ । वा॒म् । स॒म्॑दृशि᳚ । श्रि॒ये ।
नु । श्रु॒तम् । मे॒ । आ । ग॒त॒म् । अवः᳚॑भिः । वा॒जि॒नी॒व॒सू॒ इति᳚ वाजिनी॑वसू ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअश्विनौ वांस्तोता पौरोस्तिहि वर्ततेखलु हेदेवौ वांसंदृशि संदर्शने संनिधाने स्मसि स्मः भवेम किमर्थं नु अद्य मदीयमाह्वानं श्रुतं श्रृणुतं श्रुत्वा आगतं आगच्छातं किंतूष्णी नेत्याह अवोभीरक्षणैःसह वाजिनीवसू अन्नवसू ॥ ६ ॥

5.74.7
को वा᳚म॒द्य पु᳚रू॒णामा व᳚व्ने॒ मर्त्या᳚नाम् ।
को विप्रो᳚ विप्रवाहसा॒ को य॒ज्ञैर्वा᳚जिनीवसू ॥
▶ पदपाठः (Word-by-word)
कः । वा॒म् । अ॒द्य । पु॒रू॒णाम् । आ । व॒व्ने॒ । मर्त्या᳚नाम् ।
कः । विप्रः᳚ । वि॒प्र॒॑वा॒ह॒सा॒ । कः । य॒ज्ञैः । वा॒जि॒नी॒व॒सू॒ इति᳚ वाजिनी॑वसू ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवाजिनीवसू अन्नवसू वांयुवां अद्यास्मिन् दिने पुरूणां मर्त्यानांमध्ये कआवव्रे सर्वतोभजति हेविप्रवाहसा विप्रैर्मेधाविभिर्वहनीयौ कोविप्रोमेधावीवव्ने कोयजमानोयज्ञैर्वव्ने अत्यन्तविलंबमसहमानःसन् पुनः पुनर्ब्रूते ॥ ७ ॥

5.74.8 समानपद
आ वां॒ रथो॒ रथा᳚नां॒ येष्ठो᳚ यात्वश्विना ।
पु॒रू चि᳚दस्म॒युस्ति॒र आ᳚ङ्गू॒षो मर्त्ये॒ष्वा ॥
▶ पदपाठः (Word-by-word)
आ । वा॒म् । रथः᳚ । रथा᳚नाम् । येष्ठः᳚ । या॒तु॒ । अ॒श्वि॒ना॒ ।
पु॒रु । चि॒त् । अ॒स्म॒॑युः । ति॒रः । आ॒ङ्गू॒षः । मर्त्ये᳚षु । आ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअश्विना अश्विनौ वांयुवयोरथःएकोरथः रथानांयेष्ठः इतरदेवरथानांमध्येतिशयेनगन्तासन् आयातु कीदृशःसन् पुरूचिद्बहून्यपि अस्मद्विरोधिनस्तिरोहिंसकस्तिरस्कर्तावा अस्मयुः अस्मान्कामयमानः मर्त्येषु सर्वेषुयजमानेषु मध्येआंगूषः स्तुत्यः आकारःपूरणः अथवा आंगूषःस्तोमःस्तवः अस्मयुः अस्मान् बलैर्योक्तुंकामयमानः मर्त्येषुमर्त्यैरस्मदीयैरृत्विग्भिःप्रेरितःसन् उक्तलक्षणाश्विनोरथस्यवा- स्तुतिरासर्वतः पुरूचित् पुरूण्यपिशत्रुबलानितिरस्तिरस्करोति ॥ ८ ॥

5.74.9
शमू॒ षु वां᳚ मधूयुवा॒स्माक᳚मस्तु चर्कृ॒तिः ।
अ॒र्वा॒ची॒ना वि᳚चेतसा॒ विभि᳚ः श्ये॒नेव᳚ दीयतम् ॥
▶ पदपाठः (Word-by-word)
शम् । ऊं॒ इति᳚ । सु । वा॒म् । म॒धु॒॑यु॒वा॒ । अ॒स्माक᳚म् । अ॒स्तु॒ । च॒र्कृ॒तिः ।
अ॒र्वा॒ची॒ना । वि॒॑चे॒त॒सा॒ । वि॑भिः᳚ । श्ये॒ना॑इ᳚व । दी॒य॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमधूयुवा मधुमन्तौ वांयुवाभ्यां चर्कृतिः पुनःपुनःकरणं युवाभ्यां अर्थाय पुनः पुनः क्रियमाणंस्तोत्रं युवयोरागमनस्याभ्यासोवा अस्माकं सु सुष्ठु शमु सुखकरमेव अस्तु भवतु हेअर्वाचीना अर्वागस्मदभिमुखांचनौ हेविचेतसा विशिष्टप्रज्ञौ श्येनेव श्येनाविव विभिर्गन्तृ- भिरभीशुभिर्दीयतं गच्छतं ॥ ९ ॥

5.74.10
अश्वि᳚ना॒ यद्ध॒ कर्हि᳚ चिच्छुश्रू॒यात᳚मि॒मं हव᳚म् ।
वस्वी᳚रू॒ षु वां॒ भुजः᳚ पृ॒ञ्चन्ति॒ सु वां॒ पृचः᳚ ॥
▶ पदपाठः (Word-by-word)
अश्वि᳚ना । यत् । ह॒ । कर्हि᳚ । चि॒त् । शु॒श्रु॒यात᳚म् । इ॒मम् । हव᳚म् ।
वस्वीः᳚ । ऊं॒ इति᳚ । सु । वा॒म् । भुजः᳚ । पृ॒ञ्चन्ति᳚ । सु । वा॒म् । पृचः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअश्विना युवां यद्ध यत्र कर्हिचित् स्थितवन्तौभवथः तत्र मे हवं आह्वानं शुश्रुयातं श्रृणुतं श्रुत्वागच्छतमित्यर्थः किमर्थमिति उच्यते वस्वीः प्रशस्याः भुजोधनानि हविर्लक्षणानि सु सुष्ठु वांयुवांपृंचन्ति मिश्रयन्तिप्राप्नुवन्ति उइतिपूरणः कीदृश्योभुजः वां युवां सु सुष्ठु पृचः संपर्चनाः युवांप्राप्तुं कामयमानाइत्यर्थः अथवा सुपृचः सुसंपर्चनाः स्तोतारोवस्वीर्भुजोवां सुष्ठुपृंचन्ति संपर्चयन्ति ॥ १० ॥

प्रतिप्रियतममितिनवर्चंतृतीयंसूक्तं अवस्युर्नामात्रेयऋषिः पंक्तिश्छन्दः अश्विनौदेवता अनुक्रान्तंच-प्रतिनवावस्युःपांक्तमिति । प्रात- रनुवाकेआश्विनेक्रतौपांक्तेछन्दसि आश्विनशस्त्रेचेदंसूक्तं प्रतिप्रियतममितिपांक्तमितिहिसूत्रितम् ।