पञ्चमं मण्डलम् - सूक्तम् 48

5 ऋचः

ऋषिः: प्रतिभानुरात्रेयः देवता: विश्वेदेवाः छन्दः: जगती

सूक्तम् 5.48 - सम्पूर्णम्

1 / 5
ऋक्: 5.48.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
5.48.1 समानपद
कदु᳚ प्रि॒याय॒ धाम्ने᳚ मनामहे॒ स्वक्ष᳚त्राय॒ स्वय᳚शसे म॒हे व॒यम् ।
आ॒मे॒न्यस्य॒ रज᳚सो॒ यद॒भ्र आ{4} अ॒पो वृ᳚णा॒ना वि᳚त॒नोति᳚ मा॒यिनी᳚ ॥
▶ पदपाठः (Word-by-word)
कत् । ऊं॒ इति᳚ । प्रि॒याय᳚ । धाम्ने᳚ । म॒ना॒म॒हे॒ । स्व॑क्ष᳚त्राय । स्व॑य᳚शसे । म॒हे । व॒यम् ।
आ॒॑मे॒न्यस्य᳚ । रज᳚सः । यत् । अ॒भ्रे । आ । अ॒पः । वृ॒णा॒ना । वि॒॑त॒नोति᳚ । मा॒यिनी᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्रविद्युताग्निसंस्तवः कदु कदा उइतिपूरणः प्रियाय सर्वेषांप्रियभूताय वृष्टिद्वारा हविरादिप्रयोजकत्वात्सर्वप्रियत्वमस्यप्रसिद्धं तादृशाय धाम्ने तेजसे वैद्युताय उत्तरवाक्ये उभ्रेपोवितनोतीतिवक्ष्यमाणत्वादिदंलभ्यते कीदृशाय स्वक्षत्राय स्वभूतबलाय किंच स्वयशसे स्वभूता- न्नाय सर्वमप्यन्नंह्यस्यस्वं महे महते पूज्याय वयं कदा मनामहे स्तवाम गत् उत्तरत्रस्त्रीलिंगनिर्देशात् येतिविपरिणामयितव्यम् या आग्ने- यीशक्तिः आमेन्यस्य समन्तान्मातव्यस्य रजसोन्तरिक्षस्य अपरिमितमपिनभइयदितिसर्वैर्मीयते संबन्धिनि अभ्रे मेघे आअधि मेघस्योपरि अपउदकानि वृष्टिलक्षणानि वितनोति विस्तारयति वृणाना आच्छादयन्तीसेव्यमानावा मायिनी मायेतिप्रज्ञानाम प्रज्ञावतीसती यत् यस्यसंबन्धिनीमाध्यमिकीवागितिवायोज्यम् ॥ १ ॥

5.48.2
ता अ᳚त्नत व॒युनं᳚ वी॒रव᳚क्षणं समा॒न्या वृ॒तया॒ विश्व॒मा रजः᳚ ।
अपो॒ अपा᳚ची॒रप᳚रा॒ अपे᳚जते॒ प्र पूर्वा᳚भिस्तिरते देव॒युर्जनः᳚ ॥
▶ पदपाठः (Word-by-word)
ताः । अ॒त्न॒त॒ । व॒युन᳚म् । वी॒र॑व᳚क्षणम् । स॒मा॒न्या । वृ॒तया᳚ । विश्व᳚म् । आ । रजः᳚ ।
अपो॒ इति᳚ । अपा᳚चीः । अप᳚राः । अप᳚ । ई॒ज॒ते॒ । प्र । पूर्वा᳚भिः । ति॒र॒ते॒ । दे॒व॒॑युः । जनः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इयमुषस्या ताउषसः अत्नत वितन्वन्ति किं वयुनं प्रज्ञानं कीदृशं वीरवक्षणं वीरैरृत्विग्भिर्वहनीयं यद्वा वक्षणाः कार्यवोढारोयेनप्रेर्यन्तेतत्तादृशं किंच समान्या एकरूपया वृतया आवरकयादीप्त्या विश्वमासर्वमपिरजः जगदत्नत एवंसति देवयुः देवकामोजनः अपाचीः अपांचनाः प्रतिनिवृत्तमुखीः अपरा अन्याआगामिनीरुषसः अपोएजते अपचालयति अपरोपशब्दःपूरणः सर्वाभिस्ताभिः प्रतिरते प्रपूर्वस्तिरतिर्वर्धनार्थः वर्धयतिस्वमनीषां वर्धतेवास्वयम् ॥ २ ॥

5.48.3
आ ग्राव᳚भिरह॒न्ये᳚भिर॒क्तुभि॒र्वरि᳚ष्ठं॒ वज्र॒मा जि᳚घर्ति मा॒यिनि᳚ ।
श॒तं वा॒ यस्य᳚ प्र॒चर॒न्त्स्वे दमे᳚ संव॒र्तय᳚न्तो॒ वि च᳚ वर्तय॒न्नहा᳚ ॥
▶ पदपाठः (Word-by-word)
आ । ग्राव᳚॑भिः । अ॒ह॒न्ये᳚भिः । अ॒क्तु॑भिः᳚ । वरि᳚ष्ठम् । वज्र᳚म् । आ । जि॒घ॒र्ति॒ । मा॒यिनि᳚ ।
श॒तम् । वा॒ । यस्य᳚ । प्र॒॑चर᳚न् । स्वे । दमे᳚ । स॒म्॑व॒र्तय᳚न्तः । वि । च॒ । व॒र्त॒य॒न् । अहा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्रपूर्वार्धेइन्द्रउच्यते उत्तरार्धेइन्द्रात्मासूर्यः आहूयतइतिशेषः कैः अहन्येभिः अहनिसंपादितैः अक्तुभीरात्रिभिः तत्रनिष्पन्नैरित्यर्थः तथाविधैर्ग्रावभिः साध्ये साधनशब्दः ग्रावसाध्यैरभिषवैर्निमित्तभूतैः आगत्यात्र सोमीसन् मायिनि वृत्रेनिमित्तेसति वरिष्ठमुरुतरंवज्रं आसर्वतोजिघर्ति चालयतिदीपयतिवा किंच वाशब्दश्चार्थे यस्येन्द्रात्मकस्यादित्यस्य शतं शतसंख्याकारश्मयः स्वेदमे स्वकीयेगृहे आकाशे प्रचरन् प्रचरन्ति किंकुर्वन्तः प्राणिनोनशयन्तः यद्वा अहा अहानिदिवसान् संवर्तयन्तः सम्यक्प्रवर्तयन्तः विचवर्तयन् अहानिनि- वर्तयन्तिगतान्येवपुनः प्रापयन्तिच तपपरिस्पंदाधीनत्वात्प्राणिनामायः क्षयस्याहोरात्रादिव्यवहरस्यच ॥ ३ ॥

5.48.4
ताम᳚स्य री॒तिं प᳚र॒शोरि᳚व॒ प्रत्यनी᳚कमख्यं भु॒जे अ᳚स्य॒ वर्प᳚सः ।
सचा॒ यदि᳚ पितु॒मन्त᳚मिव॒ क्षयं॒ रत्नं॒ दधा᳚ति॒ भर᳚हूतये वि॒शे ॥
▶ पदपाठः (Word-by-word)
ताम् । अ॒स्य॒ । री॒तिम् । प॒र॒शोः॑इ᳚व । प्रति᳚ । अनी᳚कम् । अ॒ख्य॒म् । भु॒जे । अ॒स्य॒ । वर्प᳚सः ।
सचा᳚ । यदि᳚ । पि॒तु॒मन्त᳚म्॑इव । क्षय᳚म् । रत्न᳚म् । दधा᳚ति । भर᳚॑हूतये । वि॒शे ॥
▶ सायणभाष्यम् (Sayana Commentary)

इयमाग्नेयी तां प्रसिद्धामस्याग्नेः रीतिंस्वभावगतिंवा परशोरिवप्रतिपरशोः प्रतिनिधिमिव पश्यामि परशुर्यथास्वस्वामिन्यभिमतंसा- धयतितद्वदित्यर्थः अस्य वर्पसोरूपवतोस्यादित्यस्यानीकंरश्मिसमूहं भुजे भोगाय अख्यं कथयाम्यहं यदि यस्मात् सचदेवः सचात्मत्सहायः सन् पितुमंतं अन्नवन्तं क्षयमिव निवासमिव भरहूतये संग्रामेयज्ञेवा आह्वानयुक्ताय विशे यजमानाय रत्नं रमणीयंधनं दधाति धारयति उभयमपिददातीत्यर्थः ॥ ४ ॥

5.48.5
स जि॒ह्वया॒ चतु᳚रनीक ऋञ्जते॒ चारु॒ वसा᳚नो॒ वरु᳚णो॒ यत᳚न्न॒रिम् ।
न तस्य᳚ विद्म पुरुष॒त्वता᳚ व॒यं यतो॒ भगः᳚ सवि॒ता दाति॒ वार्य᳚म् ॥
▶ पदपाठः (Word-by-word)
सः । जि॒ह्वया᳚ । चतुः᳚॑अनीकः । ऋ॒ञ्ज॒ते॒ । चारु᳚ । वसा᳚नः । वरु᳚णः । यत᳚न् । अ॒रिम् ।
न । तस्य᳚ । वि॒द्म॒ । पु॒रु॒ष॒त्वता᳚ । व॒यम् । यतः᳚ । भगः᳚ । स॒वि॒ता । दाति᳚ । वार्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोग्निश्चतुरनीकः चतुर्दिक्षुप्रसृतज्वालः सन् जिह्वाया ऋंजते गच्छति घृतादिकं यद्वा जिह्वयाचतुरनीकःसन् ऋंजते अलंकरोतिस्वात्मानं किंकुर्वन् चारु चरणीयं तेजोवसानआच्छादयन् वरुणस्तमोवारकःसन् अरिममित्रं यतन् उद्धरन् तस्यतमित्यर्थः तंनविद्म नजानीमः वयं पुरुषत्वता पुरुषत्वेन कामानांपूरकत्वेनवायुक्तं अपरोभावप्रत्ययः पूरणः यतोयं भगोमहानूभजनीयः सविता प्रेरकोदेवोदाति यच्छति वार्यं वरणीयंधनं ॥ ५ ॥

देवंवइतिपंचर्चंपंचमंसूक्तं आत्रेयस्यप्रतिप्रभस्यार्षं त्रैष्टुभं वैश्वदेवम् देवंवः प्रतिप्रभोत्यातृणपाणिरित्यनुक्रमणिका । विनियोग-लैंगिकः ।