श्रवणम्

5.48.1 समानपद
कदु᳚ प्रि॒याय॒ धाम्ने᳚ मनामहे॒ स्वक्ष᳚त्राय॒ स्वय᳚शसे म॒हे व॒यम् ।
आ॒मे॒न्यस्य॒ रज᳚सो॒ यद॒भ्र आ{4} अ॒पो वृ᳚णा॒ना वि᳚त॒नोति᳚ मा॒यिनी᳚ ॥
▶ पदपाठः (Word-by-word)
कत् । ऊं॒ इति᳚ । प्रि॒याय᳚ । धाम्ने᳚ । म॒ना॒म॒हे॒ । स्व॑क्ष᳚त्राय । स्व॑य᳚शसे । म॒हे । व॒यम् ।
आ॒॑मे॒न्यस्य᳚ । रज᳚सः । यत् । अ॒भ्रे । आ । अ॒पः । वृ॒णा॒ना । वि॒॑त॒नोति᳚ । मा॒यिनी᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्रविद्युताग्निसंस्तवः कदु कदा उइतिपूरणः प्रियाय सर्वेषांप्रियभूताय वृष्टिद्वारा हविरादिप्रयोजकत्वात्सर्वप्रियत्वमस्यप्रसिद्धं तादृशाय धाम्ने तेजसे वैद्युताय उत्तरवाक्ये उभ्रेपोवितनोतीतिवक्ष्यमाणत्वादिदंलभ्यते कीदृशाय स्वक्षत्राय स्वभूतबलाय किंच स्वयशसे स्वभूता- न्नाय सर्वमप्यन्नंह्यस्यस्वं महे महते पूज्याय वयं कदा मनामहे स्तवाम गत् उत्तरत्रस्त्रीलिंगनिर्देशात् येतिविपरिणामयितव्यम् या आग्ने- यीशक्तिः आमेन्यस्य समन्तान्मातव्यस्य रजसोन्तरिक्षस्य अपरिमितमपिनभइयदितिसर्वैर्मीयते संबन्धिनि अभ्रे मेघे आअधि मेघस्योपरि अपउदकानि वृष्टिलक्षणानि वितनोति विस्तारयति वृणाना आच्छादयन्तीसेव्यमानावा मायिनी मायेतिप्रज्ञानाम प्रज्ञावतीसती यत् यस्यसंबन्धिनीमाध्यमिकीवागितिवायोज्यम् ॥ १ ॥