यू॒थेव᳚ प॒श्वो व्यु᳚नोति गो॒पा अरि᳚ष्टो याति प्रथ॒मः सिषा᳚सन् ॥
पदपाठः (Word-by-word)
यू॒था॑इ᳚व । प॒श्वः । वि । उ॒नो॒ति॒ । गो॒पाः । अरि᳚ष्टः । या॒ति॒ । प्र॒थ॒मः । सिसा᳚सन् ॥
सायणभाष्यम् (Sayana Commentary)
मघवा धनवानिन्द्रः वाजयन्तमन्नमिच्छन्तं यं रथं अध्यस्थादधितिष्ठति तस्मैरथाय प्रवतं प्रवणमाजिंकृणोति करोति अपिच गोपाः गोपालः पश्वोयूथेव पशोःपशूनांयूथानियथाव्युनोतिप्रेरयति तथा शत्रुसैन्यानिप्रेरयति अरिष्टः शत्रुभिःस्वयमहिंसितः प्रथमोदेवानां मुख्यः इन्द्रः सिषासन् शत्रुधनानीच्छन् याति गच्छति ॥ १ ॥