श्रवणम्

5.31.6
प्र ते॒ पूर्वा᳚णि॒ कर᳚णानि वोचं॒ प्र नूत᳚ना मघव॒न्या च॒कर्थ᳚ ।
शक्ती᳚वो॒ यद्वि॒भरा॒ रोद᳚सी उ॒भे जय᳚न्न॒पो मन᳚वे॒ दानु᳚चित्राः ॥
▶ पदपाठः (Word-by-word)
प्र । ते॒ । पूर्वा᳚णि । कर᳚णानि । वो॒च॒म् । प्र । नूत᳚ना । म॒घ॒॑व॒न् । या । च॒कर्थ᳚ ।
शक्ति᳚॑वः । यत् । वि॒॑भराः᳚ । रोद᳚सी॒ इति᳚ । उ॒भे इति᳚ । जय᳚न् । अ॒पः । मन᳚वे । दानु᳚॑चित्राः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र तेत्वदीयानि पूर्वाणि पुरातनानि करणानि कर्माणि प्रवोचं अहंप्रकर्षेणाब्रवीमि नूतना नूतनानि नवानिकर्माणिप्रवोचं प्रब्रवीमि हेमघवन्धनवन्निन्द्र या यानिकर्माणिच कर्थ कृतवानसि तानिप्रवोचमितिसंबन्धः हेशक्तीवः शक्तिमन् शक्तिर्वज्रंकर्मवातद्वन्निन्द्र यत् यस्त्वंउभेरोदसी द्यावापृथिव्यौ जयन् वशीकुर्वन् अपः उदकानि मनवेमनुष्याय विभराः विविच्यबिभर्षि कीदृशीः दानुचित्राः चित्रदानाः ॥ ६ ॥