श्रवणम्

5.31.8
त्वम॒पो यद᳚वे तु॒र्वशा॒यार᳚मयः सु॒दुघा᳚ः पा॒र इ᳚न्द्र ।
उ॒ग्रम᳚यात॒मव᳚हो ह॒ कुत्सं॒ सं ह॒ यद्वा᳚मु॒शनार᳚न्त दे॒वाः ॥
▶ पदपाठः (Word-by-word)
त्वम् । अ॒पः । यद᳚वे । तु॒र्वशा॒य । अर᳚मयः । सु॒॑दुघाः᳚ । पा॒रः । इ॒न्द्र॒ ।
उ॒ग्रम् । अ॒या॒त॒म् । अव᳚हः । ह॒ । कुत्स᳚म् । सम् । ह॒ । यत् । वा॒म् । उ॒शना᳚ । अर᳚न्त । दे॒वाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वं पारे नदीनांतीरे प्रवृद्धइतिशेषः सुदुघाः ओषधिवनस्पतीन् सुष्ठुदुहतीः अपउदकानियदवे यदुनामकायराज्ञे तुर्वशाय एतन्नामकायराज्ञेच अरमयः रमितवानसि हे इन्द्र युवां त्वं कुत्सश्चेतिशेषः उग्रं उद्गूर्णं शुष्णं अयातं अगच्छतं तदनंतरं त्वं शुष्णंहत्वा कुत्समवहोह स्वगृहंप्रापितवानसिखलु यद्यदा वां युवां इन्द्राकुत्सौउशनाभार्गवौ देवाश्च समरन्तह संभेजिरेखलु ॥ ८ ॥