सूर᳚श्चि॒द्रथं॒ परि᳚तक्म्यायां॒ पूर्वं᳚ कर॒दुप᳚रं जूजु॒वांस᳚म् ।
भर᳚च्च॒क्रमेत᳚श॒ः सं रि᳚णाति पु॒रो दध᳚त्सनिष्यति॒ क्रतुं᳚ नः ॥
भर᳚च्च॒क्रमेत᳚श॒ः सं रि᳚णाति पु॒रो दध᳚त्सनिष्यति॒ क्रतुं᳚ नः ॥
पदपाठः (Word-by-word)
सूरः᳚ । चि॒त् । रथ᳚म् । परि᳚॑तक्म्यायाम् । पूर्व᳚म् । क॒र॒त् । उप᳚रम् । जू॒जु॒॑वांस᳚म् ।
भर᳚त् । च॒क्रम् । एत᳚शः । सम् । रि॒णा॒ति॒ । पु॒रः । दध᳚त् । स॒नि॒ष्य॒ति॒ । क्रतु᳚म् । नः॒ ॥
भर᳚त् । च॒क्रम् । एत᳚शः । सम् । रि॒णा॒ति॒ । पु॒रः । दध᳚त् । स॒नि॒ष्य॒ति॒ । क्रतु᳚म् । नः॒ ॥
सायणभाष्यम् (Sayana Commentary)
इन्द्रः परितक्म्यायां संग्रमेपरितोगच्छन्त्यस्यांभयइतिपरितक्म्या संग्रामः तस्मिन् एतशाख्येनऋषिणासहयोद्धुःसूरश्चित् सूर्यस्यापिसंबन्धिनं जूजुवांसं वेगेनगच्छन्तं रथं उपरं उपरतव्यापारंपूर्वंकरत् पुराकरोत् एतशःएतशाय विभक्तिव्यत्ययः इन्द्रः पूर्वंद्विचक्रस्यरथस्य एकंचक्रंभरत् अहरत् सइन्द्रः तेनचक्रेणासुरान् संरिणाति हिनस्ति अपिच पुरोदधत् अस्मान् पुरस्कुर्वन् नोस्मदीयंक्रतुंयज्ञंसनिष्यति संभजतु ॥ ११ ॥