उद्यत्सह॒ः सह᳚स॒ आज᳚निष्ट॒ देदि᳚ष्ट॒ इन्द्र᳚ इन्द्रि॒याणि॒ विश्वा᳚ ।
प्राचो᳚दयत्सु॒दुघा᳚ व॒व्रे अ॒न्तर्वि ज्योति᳚षा संववृ॒त्वत्तमो᳚॑वः ॥
प्राचो᳚दयत्सु॒दुघा᳚ व॒व्रे अ॒न्तर्वि ज्योति᳚षा संववृ॒त्वत्तमो᳚॑वः ॥
पदपाठः (Word-by-word)
उत् । यत् । सहः᳚ । सह᳚सः । आ । अज᳚निष्ट । देदि᳚ष्टे । इन्द्रः᳚ । इ॒न्द्रि॒याणि᳚ । विश्वा᳚ ।
प्र । अ॒चो॒द॒य॒त् । सु॒॑दुघाः᳚ । व॒व्रे । अ॒न्तः । वि । ज्योति᳚षा । स॒म्॑व॒वृ॒त्वत् । तमः᳚ । अ॒व॒रित्य᳚वः ॥
प्र । अ॒चो॒द॒य॒त् । सु॒॑दुघाः᳚ । व॒व्रे । अ॒न्तः । वि । ज्योति᳚षा । स॒म्॑व॒वृ॒त्वत् । तमः᳚ । अ॒व॒रित्य᳚वः ॥
सायणभाष्यम् (Sayana Commentary)
यद्यदा सहः सूर्यसंबन्धितेजः सहसःउषः संबन्धिनस्तेजसः उदाजनिष्ट उपरिष्टात्प्रादुर्बभूव तदाइन्द्रः विश्वा विश्वानि सर्वाणि इन्द्रियाणिधनानि इन्द्रियमितिधननामैतत् देदिष्टे यजमानेभ्योदिशती वव्रे निवारकेपर्वते अन्तर्मध्येबलेननिरुद्धाः सुदुघाः सुष्ठुदोग्ध्रीर्गाः प्राचोदयत् प्रैरयत् ज्योतिषातेजसासंववृत्वत् संवरणशीलंतमः विवः निवारितवान् ॥ ३ ॥