श्रवणम्

5.31.13
ये चा॒कन᳚न्त चा॒कन᳚न्त॒ नू ते मर्ता᳚ अमृत॒ मो ते अंह॒ आर᳚न् ।
वा॒व॒न्धि यज्यू{4}᳚रु॒त तेषु᳚ धे॒ह्योजो॒ जने᳚षु॒ येषु᳚ ते॒ स्याम᳚ ॥
▶ पदपाठः (Word-by-word)
ये । चा॒कन᳚न्त । चा॒कन᳚न्त । नु । ते । मर्ताः᳚ । अ॒मृ॒त॒ । मो इति᳚ । ते । अंहः᳚ । आ । अ॒र॒न् ।
व॒व॒न्धि । यज्यू᳚न् । उ॒त । तेषु᳚ । धे॒हि॒ । ओजः᳚ । जने᳚षु । येषु᳚ । ते॒ । स्याम᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र धनार्थंयेजनाः त्वांचाकनन्त अकामयन्त पुनश्चते नु क्षिप्रमेवत्वां चाकनन्त हेअमृत अमरणशीलेन्द्र मर्ताः मरणधर्माणस्तेजनाः अंहोनर्थं मोआरन् मागमन् माउइतिनिपातसमुदायोमेत्येकनिपातार्थेवर्तते उतापिच यज्यून् यजमानान् ववन्धि संभजस्व येषुजनेषु येषांजनानांमध्ये वयंस्तोतारः तेत्वदीयाःस्याम भवाम हेइन्द्र त्वंतेषुजनेषु ओजोबलंधेहि ॥ १३ ॥

अदर्दरुत्समितिद्वादशर्चमष्टादशंसूक्तं गातुर्नामात्रेयऋषिः त्रिष्टुप् छन्दः इन्द्रोदेवता तथाचानुक्रान्तं-अदर्दर्द्वादशगातुरिति । गतोविनियोगः ।