पञ्चमं मण्डलम् - सूक्तम् 56

9 ऋचः

ऋषिः: श्यावाश्व आत्रेयः देवता: मरुतः छन्दः: बृहती

सूक्तम् 5.56 - सम्पूर्णम्

1 / 9
ऋक्: 5.56.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
5.56.1
अग्ने॒ शर्ध᳚न्त॒मा ग॒णं पि॒ष्टं रु॒क्मेभि᳚र॒ञ्जिभि᳚ः ।
विशो᳚ अ॒द्य म॒रुता॒मव᳚ ह्वये दि॒वश्चि᳚द्रोच॒नादधि᳚ ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । शर्ध᳚न्तम् । आ । ग॒णम् । पि॒ष्टम् । रु॒क्मेभिः᳚ । अ॒ञ्जि॑भिः᳚ ।
विशः᳚ । अ॒द्य । म॒रुता᳚म् । अव᳚ । ह्व॒ये॒ । दि॒वः । चि॒त् । रो॒च॒नात् । अधि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने शर्धन्तं शत्रूनभिभवन्तं यज्ञायोत्सहमानंवा गणं मरुतांगणं आह्वयेइतिशेषः कीदृशंगणं रुक्मेभिः रुक्मैः रोचमानैरंजिभिः आ- भरणैश्च पिष्टं अवयवितं युक्तमित्यर्थः अद्यास्मिन्यागदिनेमरुतांविशः प्रजाः गणानित्यर्थः तान्त्रोचनाद्रोचमानाद्दिवोद्युलोकादधीतिपंच-म्यर्थानुवादी चित्पूरणः अव अवस्तात् अस्मदभिमुखं ह्वये आह्वयामि ॥ १ ॥

5.56.2
यथा᳚ चि॒न्मन्य᳚से हृ॒दा तदिन्मे᳚ जग्मुरा॒शसः᳚ ।
ये ते॒ नेदि᳚ष्ठं॒ हव᳚नान्या॒गम॒न्तान्व᳚र्ध भी॒मसं᳚दृशः ॥
▶ पदपाठः (Word-by-word)
यथा᳚ । चि॒त् । मन्य᳚से । हृ॒दा । तत् । इत् । मे॒ । ज॒ग्मुः॒ । आ॒॑शसः᳚ ।
ये । ते॒ । नेदि᳚ष्ठम् । हव᳚नानि । आ॒॑गम᳚न् । तान् । व॒र्ध॒ । भी॒म॑स᳚न्दृशः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने त्वं हृदा हृदयेन मरुतोयथाचिन्मन्यसे चिदितिपूजायां येनप्रकारेण अतिपूजितं जानासि तेष्वादरंकरोषीत्यर्थः तदित् तथैव मेमदर्थं जग्मुर्गछन्तु आशसः आशंसितारः इच्छन्तः शत्रुन् हिंसन्तोवा अनन्तरं येमरुतोनेदिष्ठं अत्यंतांतिकंसन्निधावेव ते तव हवनान्याह्वानानिश्रुत्वा आगमन् आगच्छन्ति तान् भीमसंदृशः कालविलंबासहनेनभयंकरदर्शनान् वर्ध वर्धय ह्विःप्रापणेन ॥ २ ॥

5.56.3
मी॒ळ्हुष्म᳚तीव पृथि॒वी परा᳚हता॒ मद᳚न्त्येत्य॒स्मदा ।
ऋक्षो॒ न वो᳚ मरुत॒ः शिमी᳚वा{4}॒ अमो᳚ दु॒ध्रो गौरि᳚व भीम॒युः ॥
▶ पदपाठः (Word-by-word)
मी॒ळ्हुष्म᳚ती॑इव । पृ॒थि॒वी । परा᳚॑हता । मद᳚न्ती । ए॒ति॒ । अ॒स्मत् । आ ।
ऋक्षः᳚ । न । वः॒ । म॒रु॒तः॒ । शिमी᳚॑वान् । अमः᳚ । दु॒ध्रः । गौः॑इ᳚व । भी॒म॒॑युः ॥
▶ सायणभाष्यम् (Sayana Commentary)

मीह्ळुष्मतीप्रबलस्वामिका पराहत अन्यैरभिभूतापृथिवीव अत्रपृथिवीशब्दस्तदधिष्ठितांप्रजांलक्षयति सायथा स्वस्वामिनमुपद्रुता- भिगच्छतितद्वदिति मरुतांसाकल्येनसर्वथाप्राप्तेर्दृष्टान्तः एवंमदन्तीहृष्यन्ती मरुत्सेना अस्मत् अस्मानित्यर्थः आएति आगच्छति हेमरुतो- वोयुष्माकं अमोबलं गणः ऋक्षोन अग्निरिव शिमीवान् कर्मवान् दुध्रोदुर्धरः गौरिवभीमयुः भीमैर्वृषभैक्तागौरिव सयथा शिमीवान् कर्मवान् ॥ ३ ॥

5.56.4
नि ये रि॒णन्त्योज᳚सा॒ वृथा॒ गावो॒ न दु॒र्धुरः᳚ ।
अश्मा᳚नं चित्स्व॒र्यं१॒᳚ पर्व᳚तं गि॒रिं प्र च्या᳚वयन्ति॒ याम᳚भिः ॥
▶ पदपाठः (Word-by-word)
नि । ये । रि॒णन्ति᳚ । ओज᳚सा । वृथा᳚ । गावः᳚ । न । दुः॒॑धुरः᳚ ।
अश्मा᳚नम् । चि॒त् । स्व॒र्य᳚म् । पर्व᳚तम् । गि॒रिम् । प्र । च्य॒व॒य॒न्ति॒ । याम᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

येमरुतोओजसा स्वीयेनबलेन निरिणन्ति हिंसन्ति शत्रून् वृथा अनायासेन स्वसंचारमात्रेण गावोन दुर्धुरः दुःखेनहिंस्याअश्वाइव तेम- रुतः स्वर्यं शब्दयन्तं अश्मानं व्याप्तंपर्वतं जगत्पूरकोदकवन्तं पर्ववान्पर्वतः पर्वपुनः पृणातेः प्रीणातेर्बाइतिनिरुक्तम् । तादृशं गिरिं मेघं यद्वा पर्वतमितिविशेष्यंगिरिमितिविशेषणं निगिरत्युदकमितिगिरिः तंयामभिर्गमनैः प्रच्यावयन्ति उदकनिर्गमनार्थं ॥ ४ ॥

5.56.5 समानपद
उत्ति᳚ष्ठ नू॒नमे᳚षां॒ स्तोमै॒ः समु᳚क्षितानाम् ।
म॒रुतां᳚ पुरु॒तम॒मपू᳚र्व्यं॒ गवां॒ सर्ग᳚मिव ह्वये ॥
▶ पदपाठः (Word-by-word)
उत् । ति॒ष्ठ॒ । नू॒नम् । ए॒षा॒म् । स्तोमैः᳚ । सम्॑उ᳚क्षितानाम् ।
म॒रुता᳚म् । पु॒रु॒॑तम᳚म् । अपू᳚र्व्यम् । गवा᳚म् । सर्ग᳚म्॑इव । ह्वये ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतोयूयं उत्तिष्ठ उत्तिष्ठत व्यत्ययेनैकवचनं नूनं निश्चयं एषांस्तोमैःस्तोत्रैः समुक्षितानां वर्धितानांमरुतां यद्वा स्तोमैरुपह्वयइति- संबन्धः तादृशां मरुतां पुरुतमं प्रभूततमं अपूर्व्यं नविद्यतेपूर्वोयेभ्यस्तंअपूर्व्यं सर्गं संघं गवामुदकानां प्रसिद्धानांगवांवा सर्गं संघमिवह्वये आह्वये ॥ ५ ॥

5.56.6
यु॒ङ्ग्ध्वं ह्यरु᳚षी॒ रथे᳚ यु॒ङ्ग्ध्वं रथे᳚षु रो॒हितः᳚ ।
यु॒ङ्ग्ध्वं हरी᳚ अजि॒रा धु॒रि वोळ्ह᳚वे॒ वहि᳚ष्ठा धु॒रि वोळ्ह᳚वे ॥
▶ पदपाठः (Word-by-word)
यु॒ङ्ग्ध्वम् । हि । अरु᳚षीः । रथे᳚ । यु॒ङ्ग्ध्वम् । रथे᳚षु । रो॒हितः᳚ ।
यु॒ङ्ग्ध्वम् । हरी॒ इति᳚ । अ॒जि॒रा । धु॒रि । वोळ्ह᳚वे । वहि᳚ष्ठा । धु॒रि । वोळ्ह᳚वे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतोयूयं रथे युष्मदीये सर्वेषांसाधारणभूते अरुषीरारोचमानावडवाः युङ्ध्वं योजयध्वं तथा रथेषु युष्मदीयेषु रोहितोरोहितव- र्णायुङ्ध्वं हरी अश्वौ अजिरा अजिरौ आशुगमनौ धुरिवोह्ळ्वे वहनाययुङ्ध्वं आदरार्थंपुनरुच्यते वहिष्ठावोढृतमावश्वौधुरिवोह्ळवे ॥ ६ ॥

5.56.7
उ॒त स्य वा॒ज्य᳚रु॒षस्तु᳚वि॒ष्वणि᳚रि॒ह स्म᳚ धायि दर्श॒तः ।
मा वो॒ यामे᳚षु मरुतश्चि॒रं क᳚र॒त्प्र तं रथे᳚षु चोदत ॥
▶ पदपाठः (Word-by-word)
उ॒त । स्यः । वा॒जी । अ॒रु॒षः । तु॒वि॒॑स्वनिः᳚ । इ॒ह । स्म॒ । धा॒यि॒ । द॒र्श॒तः ।
मा । वः॒ । यामे᳚षु । म॒रु॒तः॒ । चि॒रम् । क॒र॒त् । प्र । तम् । रथे᳚षु । चो॒द॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापिच स्यः सवाजी वेजनवानरुषआरोचनः तुविष्वणिः प्रभूतध्वनिरश्वः अरुषइत्यनेनरोहितइत्युक्तंभवति प्रष्टिर्वहतिरोहितइति- ह्युक्तम् । इहेदानीं दर्शतोदर्शनीयःसन् धायि रथेनियोजितः स्मेतिपूरणः हेमरुतोवोयामेषु गमनेषु सोश्वश्चिरंविलंबंमाकरत् माकरोतु तं रथेषु रथेयुक्तमितिशेषः प्रचोदत प्रेरयत यथाविलंबंनकुर्यात्तथाप्रेरयत ॥ ७ ॥

5.56.8
रथं॒ नु मारु᳚तं व॒यं श्र᳚व॒स्युमा हु᳚वामहे ।
आ यस्मि᳚न्त॒स्थौ सु॒रणा᳚नि॒ बिभ्र᳚ती॒ सचा᳚ म॒रुत्सु᳚ रोद॒सी ॥
▶ पदपाठः (Word-by-word)
रथ᳚म् । नु । मारु᳚तम् । व॒यम् । श्र॒व॒स्युम् । आ । हु॒वा॒म॒हे॒ ।
आ । यस्मि᳚न् । त॒स्थौ । सु॒रणा᳚नि । बिभ्र᳚ती । सचा᳚ । म॒रुत्॑सु᳚ । रो॒द॒सी ॥
▶ सायणभाष्यम् (Sayana Commentary)

वयमात्रेयाः रथं रंहणस्वभावं मारुतं मरुतांसंबन्धिनंरथं श्रवस्युं अन्नेछुं नुअद्य आहुवामहे आह्वयामः यस्मिन्त्रथे सुरणानि सुरम- णानि जलानि बिभ्रती धारयन्ती रोदसी रुद्रस्यपत्नी मरुतांमाता यद्वा रुद्रोवायुः तत्पत्नी माध्यमिकादेवीमरुत्सु सचा सहिता आतस्थौ आस्थितवती तंरथमाहुवे ॥ ८ ॥

5.56.9
तं व॒ः शर्धं᳚ रथे॒शुभं᳚ त्वे॒षं प᳚न॒स्युमा हु᳚वे ।
यस्मि॒न्त्सुजा᳚ता सु॒भगा᳚ मही॒यते॒ सचा᳚ म॒रुत्सु᳚ मीळ्हु॒षी ॥
▶ पदपाठः (Word-by-word)
तम् । वः॒ । शर्ध᳚म् । र॒थे॒॑शुभ᳚म् । त्वे॒षम् । प॒न॒स्युम् । आ । हु॒वे॒ ।
यस्मि᳚न् । सु॑जा᳚ता । सु॒॑भगा᳚ । म॒ही॒यते᳚ । सचा᳚ । म॒रुत्॑सु᳚ । मी॒ळ्हु॒षी ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतः वः शर्घं युष्मदीयं बलं गणं रथेशुभं रथेशोभमानं त्वेषं दीप्तं पनस्युं स्तुत्यमाहुवे आह्वये यस्मिन् शर्धे सुजाता सुष्ठुप्रवृद्धा सु- भगा शोभनभाग्या अतिमहती मीह्ळुषी मीह्ळुष्टमशिवतमेत्यादौदर्शनान्मीढ्वान्त्रुद्रः तत्पत्नीमीह्ळुषी मरुत्सु सचा सह महीयते पूज्यते तंशर्धमाहुवे आपस्तंबोपिरुद्रपत्नींमीह्ळुषीसंज्ञयाव्यवजहार उत्तरया दक्षिणस्यामीशानमावाहयति लौकिक्यावाचोत्तरस्यां मीह्ळुषीं मध्येजयन्तमिति ॥ ९ ॥

पंचमेनुवाकेषोडशसूक्तानि तत्रारुद्रासइत्यष्टर्चंप्रथमंसूक्तं श्यावाश्वस्यार्षंमारुतं सप्तम्यष्टम्यौत्रिष्टुभौ शिष्टाषड्जग्त्यः आरुद्रासोष्टौद्वि- त्रिष्टुबन्तमित्यनुक्रमणिका । विनियोगोलैंगिकः ।