श्रवणम्

5.56.2
यथा᳚ चि॒न्मन्य᳚से हृ॒दा तदिन्मे᳚ जग्मुरा॒शसः᳚ ।
ये ते॒ नेदि᳚ष्ठं॒ हव᳚नान्या॒गम॒न्तान्व᳚र्ध भी॒मसं᳚दृशः ॥
▶ पदपाठः (Word-by-word)
यथा᳚ । चि॒त् । मन्य᳚से । हृ॒दा । तत् । इत् । मे॒ । ज॒ग्मुः॒ । आ॒॑शसः᳚ ।
ये । ते॒ । नेदि᳚ष्ठम् । हव᳚नानि । आ॒॑गम᳚न् । तान् । व॒र्ध॒ । भी॒म॑स᳚न्दृशः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने त्वं हृदा हृदयेन मरुतोयथाचिन्मन्यसे चिदितिपूजायां येनप्रकारेण अतिपूजितं जानासि तेष्वादरंकरोषीत्यर्थः तदित् तथैव मेमदर्थं जग्मुर्गछन्तु आशसः आशंसितारः इच्छन्तः शत्रुन् हिंसन्तोवा अनन्तरं येमरुतोनेदिष्ठं अत्यंतांतिकंसन्निधावेव ते तव हवनान्याह्वानानिश्रुत्वा आगमन् आगच्छन्ति तान् भीमसंदृशः कालविलंबासहनेनभयंकरदर्शनान् वर्ध वर्धय ह्विःप्रापणेन ॥ २ ॥