तं व॒ः शर्धं᳚ रथे॒शुभं᳚ त्वे॒षं प᳚न॒स्युमा हु᳚वे ।
यस्मि॒न्त्सुजा᳚ता सु॒भगा᳚ मही॒यते॒ सचा᳚ म॒रुत्सु᳚ मीळ्हु॒षी ॥
यस्मि॒न्त्सुजा᳚ता सु॒भगा᳚ मही॒यते॒ सचा᳚ म॒रुत्सु᳚ मीळ्हु॒षी ॥
पदपाठः (Word-by-word)
तम् । वः॒ । शर्ध᳚म् । र॒थे॒॑शुभ᳚म् । त्वे॒षम् । प॒न॒स्युम् । आ । हु॒वे॒ ।
यस्मि᳚न् । सु॑जा᳚ता । सु॒॑भगा᳚ । म॒ही॒यते᳚ । सचा᳚ । म॒रुत्॑सु᳚ । मी॒ळ्हु॒षी ॥
यस्मि᳚न् । सु॑जा᳚ता । सु॒॑भगा᳚ । म॒ही॒यते᳚ । सचा᳚ । म॒रुत्॑सु᳚ । मी॒ळ्हु॒षी ॥
सायणभाष्यम् (Sayana Commentary)
हेमरुतः वः शर्घं युष्मदीयं बलं गणं रथेशुभं रथेशोभमानं त्वेषं दीप्तं पनस्युं स्तुत्यमाहुवे आह्वये यस्मिन् शर्धे सुजाता सुष्ठुप्रवृद्धा सु- भगा शोभनभाग्या अतिमहती मीह्ळुषी मीह्ळुष्टमशिवतमेत्यादौदर्शनान्मीढ्वान्त्रुद्रः तत्पत्नीमीह्ळुषी मरुत्सु सचा सह महीयते पूज्यते तंशर्धमाहुवे आपस्तंबोपिरुद्रपत्नींमीह्ळुषीसंज्ञयाव्यवजहार उत्तरया दक्षिणस्यामीशानमावाहयति लौकिक्यावाचोत्तरस्यां मीह्ळुषीं मध्येजयन्तमिति ॥ ९ ॥
पंचमेनुवाकेषोडशसूक्तानि तत्रारुद्रासइत्यष्टर्चंप्रथमंसूक्तं श्यावाश्वस्यार्षंमारुतं सप्तम्यष्टम्यौत्रिष्टुभौ शिष्टाषड्जग्त्यः आरुद्रासोष्टौद्वि- त्रिष्टुबन्तमित्यनुक्रमणिका । विनियोगोलैंगिकः ।