पञ्चमं मण्डलम् - सूक्तम् 46

8 ऋचः

ऋषिः: प्रतिक्षत्र आत्रेयः देवता: विश्वेदेवाः छन्दः: जगती

सूक्तम् 5.46 - सम्पूर्णम्

1 / 8
ऋक्: 5.46.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (8)
5.46.1
हयो॒ न वि॒द्वा{4} अ᳚युजि स्व॒यं धु॒रि तां व᳚हामि प्र॒तर᳚णीमव॒स्युव᳚म् ।
नास्या᳚ वश्मि वि॒मुचं॒ नावृतं॒ पुन᳚र्वि॒द्वान्प॒थः पु᳚रए॒त ऋ॒जु ने᳚षति ॥
▶ पदपाठः (Word-by-word)
हयः᳚ । न । वि॒द्वान् । अ॒यु॒जि॒ । स्व॒यम् । धु॒रि । ताम् । व॒हा॒मि॒ । प्र॒तर᳚णीम् । अ॒व॒स्युव᳚म् ।
न । अ॒स्याः॒ । व॒श्मि॒ । वि॒॑मुच᳚म् । न । आ॒॑वृत᳚म् । पुनः᳚ । वि॒द्वान् । प॒थः । पु॒रः॒॑ए॒ता । ऋ॒जु । ने॒ष॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हयोन अश्वइव विद्वान् सर्वज्ञः प्रतिक्षत्रः स्वयंअनन्यप्रेरितः सन् धुरि यज्ञात्मिकायां अयुजि युक्तोभवत् तांधुरं प्रतरणीं प्रकर्षेणतारयित्रीं अवस्युवं रक्षयित्रीं वहामि धारयाम्यहमध्वर्युर्होतावा अस्याधुरोविमुचंविमोचनंपरित्यागं नवश्मि नकामये नावृतं पुनः पुनःआवरणं धारणमपि नचवश्मि ममकोभारइति तदेवोच्यते विद्वान् मार्गाभिज्ञोन्तर्यामीदेवः पुरएता पुरतोगन्तासन् पथोयज्ञमार्गान् ऋजुअकुटिलं नेषति प्रापयति ॥ १ ॥

5.46.2
अग्न॒ इन्द्र॒ वरु᳚ण॒ मित्र॒ देवा॒ः शर्ध॒ः प्र य᳚न्त॒ मारु᳚तो॒त वि᳚ष्णो ।
उ॒भा नास᳚त्या रु॒द्रो अध॒ ग्नाः पू॒षा भग॒ः सर᳚स्वती जुषन्त ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । इन्द्र᳚ । वरु᳚ण । मित्र᳚ । देवाः᳚ । शर्धः᳚ । प्र । य॒न्त॒ । मारु᳚त । उ॒त । वि॒ष्णो॒ इति᳚ ।
उ॒भा । नास᳚त्या । रु॒द्रः । अध᳚ । ग्नाः । पू॒षा । भगः᳚ । सर᳚स्वती । जु॒ष॒न्त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने इन्द्रवरुणमित्रदेवाः यूयं शर्धोबलमस्माकं प्रयन्त प्रापयत अत्रसर्वत्रपूर्वस्याविद्यमानत्वेनोत्तरस्यपादादित्वादनिघातः प्रथमस्यतु स्वतएवपादादित्वं उतअपिच हेमारुत मारुतानि मरुतांबलानि हेविष्णो यूयंशर्धः प्रयन्त विष्णोइत्यस्यउतेत्यनेनव्यवधानान्निघातः किं च उभा उभौ नासत्या सत्यभूतौ रुद्रः अध अथ ग्नाः एतेषांदेवानांस्त्रियश्च पूषा भगः सरस्वतीच जुषन्त सेवन्तां अस्मदीयंयज्ञंस्तुतिंवा ॥ २ ॥

5.46.3
इ॒न्द्रा॒ग्नी मि॒त्रावरु॒णादि᳚तिं॒ स्व᳚ः पृथि॒वीं द्यां म॒रुत॒ः पर्व᳚ता{4} अ॒पः ।
हु॒वे विष्णुं᳚ पू॒षणं॒ ब्रह्म᳚ण॒स्पतिं॒ भगं॒ नु शंसं᳚ सवि॒तार᳚मू॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
इ॒न्द्रा॒ग्नी इति᳚ । मि॒त्रावरु᳚णा । अदि᳚तिम् । स्व१॒᳚रिति᳚ स्वः᳚ । पृ॒थि॒वीम् । द्याम् । म॒रुतः᳚ । पर्व᳚तान् । अ॒पः ।
हु॒वे । विष्णु᳚म् । पू॒षण᳚म् । ब्रह्म᳚णः । पति᳚म् । भग᳚म् । नु । शंस᳚म् । स॒वि॒तार᳚म् । ऊ॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रादिसवित्रन्तान् चतुर्दशदेवान् ऊतयेस्मद्रक्षणाय हुवे आह्वयामि स्तौमिवा स्वरित्यदित्यउच्यते स्वरणात् ॥ ३ ॥

5.46.4
उ॒त नो॒ विष्णु᳚रु॒त वातो᳚ अ॒स्रिधो᳚ द्रविणो॒दा उ॒त सोमो॒ मय᳚स्करत् ।
उ॒त ऋ॒भव᳚ उ॒त रा॒ये नो᳚ अ॒श्विनो॒त त्वष्टो॒त विभ्वानु᳚ मंसते ॥
▶ पदपाठः (Word-by-word)
उ॒त । नः॒ । विष्णुः᳚ । उ॒त । वातः᳚ । अ॒स्रिधः᳚ । द्र॒वि॒णः॒॑दाः । उ॒त । सोमः᳚ । मयः᳚ । क॒र॒त् ।
उ॒त । ऋ॒भवः᳚ । उ॒त । रा॒ये । नः॒ । अ॒श्विना᳚ । उ॒त । त्वष्टा᳚ । उ॒त । वि॑भ्वा᳚ । अनु᳚ । मं॒स॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उत अपिच नोस्माकं विष्णुर्व्यापकोदेवोमयस्करत् मयइतिसुखनाम सुखंकरोतु उतापि च वातोवायुः अस्रिधोहिंसकः सन् मयस्करत् किंच द्रविणोदाः धनस्यदातासोमोपि मयस्करत् उतापिच ऋभवोनोस्मभ्यं राये धनाय अनुमंसते अनुमन्यन्तां उताश्विनाशिनौच उतत्वष्टादेवः उतविश्वा ऋभूणामन्यतमोदेवः एतेसर्वेपि अनुमंसते यद्वा अनमंस्तइतिप्रत्येकंसंबन्धनीयम् ॥ ४ ॥

5.46.5
उ॒त त्यन्नो॒ मारु᳚तं॒ शर्ध॒ आ ग᳚मद्दिविक्ष॒यं य᳚ज॒तं ब॒र्हिरा॒सदे᳚ ।
बृह॒स्पति॒ः शर्म᳚ पू॒षोत नो᳚ यमद्वरू॒थ्यं१॒᳚ वरु᳚णो मि॒त्रो अ᳚र्य॒मा ॥
▶ पदपाठः (Word-by-word)
उ॒त । त्यम् । नः॒ । मारु᳚तम् । शर्धः᳚ । आ । ग॒म॒त् । दि॒वि॒॑क्ष॒यम् । य॒ज॒तम् । ब॒र्हिः । आ॒॑सदे᳚ ।
बृह॒स्पतिः᳚ । शर्म᳚ । पू॒षा । उ॒त । नः॒ । य॒म॒त् । व॒रू॒थ्य᳚म् । वरु᳚णः । मि॒त्रः । अ॒र्य॒मा ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापिच त्यत् तन्मारुतंशर्धोमरुतांबलं संघोनोस्मानगमदागच्छतु कीदृशंतच्छर्धः दिविक्षयं द्युलोकेवर्तमानं यजतं पूज्यं किमर्थमागमनमितितदुच्यते बर्हिः बर्हिष्यासदे उपवेष्टुं उपविश्यहविः स्वीकारायेत्यर्थः किंच बृहस्पतिर्देवः शर्म सुखं यमत् यच्छतु उतनोस्मभ्यं पूषापि यमत् कीदृशं शर्म वरूथ्यं वारयतिशीतवातादिकमितिवरूथंगृहं तदर्हंवरूथ्यं किंच वरुणादयस्त्रयोपिप्रत्येकंशर्मयच्छन्तु ॥ ५ ॥

5.46.6
उ॒त त्ये न॒ः पर्व᳚तासः सुश॒स्तयः᳚ सुदी॒तयो᳚ न॒द्य१॒᳚स्त्राम᳚णे भुवन् ।
भगो᳚ विभ॒क्ता शव॒साव॒सा ग᳚मदुरु॒व्यचा॒ अदि᳚तिः श्रोतु मे॒ हव᳚म् ॥
▶ पदपाठः (Word-by-word)
उ॒त । त्ये । नः॒ । पर्व᳚तासः । सु॒॑श॒स्तयः᳚ । सु॒॑दी॒तयः᳚ । न॒द्यः᳚ । त्राम᳚णे । भु॒व॒न् ।
भगः᳚ । वि॒॑भ॒क्ता । शव᳚सा । अव᳚सा । आ । ग॒म॒त् । उ॒रु॒॑व्यचाः᳚ । अदि᳚तिः । श्रो॒तु॒ । मे॒ । हव᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापिच त्ये ते पर्वतासः पर्ववन्तोद्रयः सुशस्तयः शोभनस्तुतयः किंच सुदीतयः सुदानान्द्यश्च त्रामणे पालने नोस्माकं भूवन् भवन्तु भगोदेवोविभक्ता धनानांविभागकर्ता दाता सन् शवसा अन्नेन अवसा रक्षणेनच सहागमदागच्छतु उरुव्यचाः प्रभूतव्याप्तिः अदितिः अदीना देवमाता मेहवं स्तुतिमाह्वानंवा श्रोतु श्रृणोतु ॥ ६ ॥ पत्नीसंयाजेषुदेवपत्नीनांदेवानांपत्नीरित्यादिकेद्वेयाज्यानुवाक्ये सूत्रितंच-देवानांपत्नीरुशतीरवन्तुनइतिद्वेइति । आग्निमारुतशस्त्रेप्येतेदेवानांपत्नीरुशतीरवन्तुनइतिद्वेराकामहमितिद्वेइतितयोर्मध्येप्रथमा ।

5.46.7
दे॒वानां॒ पत्नी᳚रुश॒तीर᳚वन्तु न॒ः प्राव᳚न्तु नस्तु॒जये॒ वाज᳚सातये ।
याः पार्थि᳚वासो॒ या अ॒पामपि᳚ व्र॒ते ता नो᳚ देवीः सुहवा॒ः शर्म᳚ यच्छत ॥
▶ पदपाठः (Word-by-word)
दे॒वाना᳚म् । पत्नीः᳚ । उ॒श॒तीः । अ॒व॒न्तु॒ । नः॒ । प्र । अ॒व॒न्तु॒ । नः॒ । तु॒जये᳚ । वाज᳚॑सातये ।
याः । पार्थि᳚वासः । याः । अ॒पाम् । अपि᳚ । व्र॒ते । ताः । नः॒ । दे॒वीः॒ । सु॒॑ह॒वाः॒ । शर्म᳚ । य॒च्छ॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवनांइन्द्रादीना पत्नीः पत्न्यः उशतीः उशत्यः अस्मदीयांस्तुतिंकर्मवा कामयमानाः नोस्मानवन्तुरक्षन्तु तथा नोस्माकं तुजये बलवते पुत्राय वाजसातये अन्नलाभाय संग्रामाय वा प्रावन्तु प्रकर्षेणरक्षन्तु गच्छन्तुवा याः पार्थिवासः पृथिवीसंबन्धिन्यः याश्चापांउदकामां घ्रतेकर्मण्यन्तरिक्षेवर्तन्ते ताहेदे वीर्देव्यः हेसुहवाः शॊभनाह्वानाः यूयं नोस्मभ्यं शर्मयच्छत ॥ ७ ॥

5.46.8
उ॒त ग्ना व्य᳚न्तु दे॒वप᳚त्नीरिन्द्रा॒ण्य१॒᳚ग्नाय्य॒श्विनी॒ राट् ।
आ रोद᳚सी वरुणा॒नी शृ᳚णोतु॒ व्यन्तु᳚ दे॒वीर्य ऋ॒तुर्जनी᳚नाम् ॥
▶ पदपाठः (Word-by-word)
उ॒त । ग्नाः । व्य॒न्तु॒ । दे॒व॑प᳚त्नीः । इ॒न्द्रा॒णी । अ॒ग्नायी᳚ । अ॒श्विनी᳚ । राट् ।
आ । रोद᳚सी॒ इति᳚ । व॒रु॒णा॒नी । शृ॒णो॒तु॒ । व्यन्तु᳚ । दे॒वीः । यः । ऋ॒तुः । जनी᳚नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतअपिच ग्नाः स्त्रियोदेवपत्नीर्देवपत्न्यः देवाः पतयोयासांताः तादृश्योव्यन्तु हविर्भक्षयन्तु ताविविच्योच्यन्ते इन्द्रस्यपत्नी अग्नाय्यग्नेःपत्नी अश्विनी अश्विनोःपत्नी राट् राजमाना किंच रोदसी रुद्रस्यपत्नीतियास्केनोक्तं एवंसति विषितस्तुकारोदसीत्यत्र यथाआद्युदात्तप्रगृह्यतेनस्तस्तद्वदत्रापिभाव्यं तथापि शाकल्येनमहर्षिणैवमुक्तत्वात्तथैवद्रष्टव्यं वरुणानी वरुणस्यपत्नी आसर्वतः प्रत्येकंश्रृणोतु किंच देवीः पत्नीसंयाजदेव्योव्यन्तुखादन्तुहविः योजनीनां देवजायानां ऋतुः कालः तदभिमानादेव्योपि श्रृण्वन्तु व्यन्तुच अत्रापिच ग्नाव्यन्तुदेवपत्न्यइत्यादिनिरुक्तंद्रष्टव्यम् ॥ ८ ॥

वेदार्थस्यप्रकाशेनतमोहार्दंनिवारयन् ॥ पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेणसायणाचार्येणविरचितेमाधवीयेवेदार्थप्रकाशेऋक् संहिताभाष्येचतुर्थाष्टके द्वितीयोध्यायः ॥ २ ॥