श्रवणम्

5.46.6
उ॒त त्ये न॒ः पर्व᳚तासः सुश॒स्तयः᳚ सुदी॒तयो᳚ न॒द्य१॒᳚स्त्राम᳚णे भुवन् ।
भगो᳚ विभ॒क्ता शव॒साव॒सा ग᳚मदुरु॒व्यचा॒ अदि᳚तिः श्रोतु मे॒ हव᳚म् ॥
▶ पदपाठः (Word-by-word)
उ॒त । त्ये । नः॒ । पर्व᳚तासः । सु॒॑श॒स्तयः᳚ । सु॒॑दी॒तयः᳚ । न॒द्यः᳚ । त्राम᳚णे । भु॒व॒न् ।
भगः᳚ । वि॒॑भ॒क्ता । शव᳚सा । अव᳚सा । आ । ग॒म॒त् । उ॒रु॒॑व्यचाः᳚ । अदि᳚तिः । श्रो॒तु॒ । मे॒ । हव᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापिच त्ये ते पर्वतासः पर्ववन्तोद्रयः सुशस्तयः शोभनस्तुतयः किंच सुदीतयः सुदानान्द्यश्च त्रामणे पालने नोस्माकं भूवन् भवन्तु भगोदेवोविभक्ता धनानांविभागकर्ता दाता सन् शवसा अन्नेन अवसा रक्षणेनच सहागमदागच्छतु उरुव्यचाः प्रभूतव्याप्तिः अदितिः अदीना देवमाता मेहवं स्तुतिमाह्वानंवा श्रोतु श्रृणोतु ॥ ६ ॥ पत्नीसंयाजेषुदेवपत्नीनांदेवानांपत्नीरित्यादिकेद्वेयाज्यानुवाक्ये सूत्रितंच-देवानांपत्नीरुशतीरवन्तुनइतिद्वेइति । आग्निमारुतशस्त्रेप्येतेदेवानांपत्नीरुशतीरवन्तुनइतिद्वेराकामहमितिद्वेइतितयोर्मध्येप्रथमा ।