अग्न॒ इन्द्र॒ वरु᳚ण॒ मित्र॒ देवा॒ः शर्ध॒ः प्र य᳚न्त॒ मारु᳚तो॒त वि᳚ष्णो ।
उ॒भा नास᳚त्या रु॒द्रो अध॒ ग्नाः पू॒षा भग॒ः सर᳚स्वती जुषन्त ॥
उ॒भा नास᳚त्या रु॒द्रो अध॒ ग्नाः पू॒षा भग॒ः सर᳚स्वती जुषन्त ॥
पदपाठः (Word-by-word)
अग्ने᳚ । इन्द्र᳚ । वरु᳚ण । मित्र᳚ । देवाः᳚ । शर्धः᳚ । प्र । य॒न्त॒ । मारु᳚त । उ॒त । वि॒ष्णो॒ इति᳚ ।
उ॒भा । नास᳚त्या । रु॒द्रः । अध᳚ । ग्नाः । पू॒षा । भगः᳚ । सर᳚स्वती । जु॒ष॒न्त॒ ॥
उ॒भा । नास᳚त्या । रु॒द्रः । अध᳚ । ग्नाः । पू॒षा । भगः᳚ । सर᳚स्वती । जु॒ष॒न्त॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेअग्ने इन्द्रवरुणमित्रदेवाः यूयं शर्धोबलमस्माकं प्रयन्त प्रापयत अत्रसर्वत्रपूर्वस्याविद्यमानत्वेनोत्तरस्यपादादित्वादनिघातः प्रथमस्यतु स्वतएवपादादित्वं उतअपिच हेमारुत मारुतानि मरुतांबलानि हेविष्णो यूयंशर्धः प्रयन्त विष्णोइत्यस्यउतेत्यनेनव्यवधानान्निघातः किं च उभा उभौ नासत्या सत्यभूतौ रुद्रः अध अथ ग्नाः एतेषांदेवानांस्त्रियश्च पूषा भगः सरस्वतीच जुषन्त सेवन्तां अस्मदीयंयज्ञंस्तुतिंवा ॥ २ ॥