पञ्चमं मण्डलम् - सूक्तम् 84

3 ऋचः

ऋषिः: भौमोत्रिः देवता: पृथिवी छन्दः: अनुष्टुप्

सूक्तम् 5.84 - सम्पूर्णम्

1 / 3
ऋक्: 5.84.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (3)
5.84.1
बळि॒त्था पर्व᳚तानां खि॒द्रं बि᳚भर्षि पृथिवि ।
प्र या भूमिं᳚ प्रवत्वति म॒ह्ना जि॒नोषि᳚ महिनि ॥
▶ पदपाठः (Word-by-word)
बट् । इ॒त्था । पर्व᳚तानाम् । खि॒द्रम् । बि॒भ॒र्षि॒ । पृ॒थि॒वि॒ ।
प्र । या । भूमि᳚म् । प्र॒व॒त्व॒ति॒ । म॒ह्ना । जि॒नोषि᳚ । म॒हि॒नि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

द्विरूपापृथिवीचैषा प्रत्यक्षादेवतापिच । मध्यस्थानादेवतोक्ता सात्र संबोध्यवर्ण्यते ॥ हेपृथिवि विप्रथनवति मध्यस्थानदेवतेत्वं इत्था- इत्थं अत्र अमुत्रान्तरिक्षेवा बट् सत्यं पर्वतानां मेघानांवाखिद्रं खेदनं भेदनं बिभर्षि धारयसि हेमहिनि महति हेप्रवत्वति प्रकर्षवति प्रव- णोदकवतिवायात्वं भूमिं प्रत्यक्षांपृथिवीं मह्ना महत्वेन महतोदकेनवा प्रजिनोषि प्रकर्षेणप्रीणयसि ॥ १ ॥

5.84.2
स्तोमा᳚सस्त्वा विचारिणि॒ प्रति᳚ ष्टोभन्त्य॒क्तुभि᳚ः ।
प्र या वाजं॒ न हेष᳚न्तं पे॒रुमस्य᳚स्यर्जुनि ॥
▶ पदपाठः (Word-by-word)
स्तोमा᳚सः । त्वा॒ । वि॒॑चा॒रि॒णि॒ । प्रति᳚ । स्तो॒भ॒न्ति॒ । अ॒क्तु॑भिः᳚ ।
प्र । या । वाज᳚म् । न । हेष᳚न्तम् । पे॒रुम् । अस्य᳚सि । अ॒र्जु॒नि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेविचारिणि विविधंचरणशीले पृथिविदेवि त्वां स्तोमासः स्तोतारः अक्तुभिर्गमनशीलैः स्तोत्रैः प्रतिष्टोभन्ति अभिष्टुवन्ति किंच यात्वं हेषंतं शब्दयन्तं वाजंन अश्वमिव उहत्तं पेरुं पूरकं मेघं प्रास्यसि प्रक्षिपसि हेअर्जुनि शुभ्रवर्णे गमनशीलेवा ॥ २ ॥ देवानांहविःषुदृह्ळाचिदितिपृथिव्यायाज्या एषैवभूमिः स्तोमेनिष्केवल्येसूक्त्मुखीया सूत्रंतु पूर्वमेवोदाहृतम् ।

5.84.3 समानपद
दृ॒ळ्हा चि॒द्या वन॒स्पती᳚न्क्ष्म॒या दर्ध॒र्ष्योज᳚सा ।
यत्ते᳚ अ॒भ्रस्य᳚ वि॒द्युतो᳚ दि॒वो वर्ष᳚न्ति वृ॒ष्टयः᳚ ॥
▶ पदपाठः (Word-by-word)
दृ॒ळ्हा । चि॒त् । या । वन॒स्पती᳚न् । क्ष्म॒या । दर्ध᳚र्षि । ओज᳚सा ।
यत् । ते॒ । अ॒भ्रस्य᳚ । वि॒॑द्युतः᳚ । दि॒वः । वर्ष᳚न्ति । वृ॒ष्टयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेपृथिवि यात्वं दृह्ळाचित् सुपांसुलुगितितृतीयायाआकारः दृढया क्ष्मया भूम्या सहवनस्पतीन् वृक्षान् ओजसा बलेन दर्धर्षि धारयसि अथवा दृह्ळेतिविधेयविशेषणं वनस्पतीन् दृह्ळान् कृत्वा धारयसीत्यर्थः यत् अस्यास्ते तवसंबंधिनोवृष्टयोवर्षकामेघाः विद्युतोविद्योत- मानात् अभ्रस्य पंचम्यर्थेषष्ठी अभ्रादपांहर्त्तुः दिवोन्तरिक्षादादित्याद्वावर्षन्ति अथवा यद्यस्यास्ते तवाभ्रस्यमेघस्य वृष्टयः उदकसंघाताः विद्युतोविद्योतमानायादिवः सकाशाद्वर्षन्ति पतन्ति ॥ ३ ॥

प्रसंम्राजइत्यष्टर्चंत्रयोदशंसूक्तं आत्रेयं त्रैष्टुभं वारुणं अनुक्रम्यतेच-प्रसंम्राजेष्टौवारुणमिति । विनियोगोलैंगिकः ।