श्रवणम्

5.84.3 समानपद
दृ॒ळ्हा चि॒द्या वन॒स्पती᳚न्क्ष्म॒या दर्ध॒र्ष्योज᳚सा ।
यत्ते᳚ अ॒भ्रस्य᳚ वि॒द्युतो᳚ दि॒वो वर्ष᳚न्ति वृ॒ष्टयः᳚ ॥
▶ पदपाठः (Word-by-word)
दृ॒ळ्हा । चि॒त् । या । वन॒स्पती᳚न् । क्ष्म॒या । दर्ध᳚र्षि । ओज᳚सा ।
यत् । ते॒ । अ॒भ्रस्य᳚ । वि॒॑द्युतः᳚ । दि॒वः । वर्ष᳚न्ति । वृ॒ष्टयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेपृथिवि यात्वं दृह्ळाचित् सुपांसुलुगितितृतीयायाआकारः दृढया क्ष्मया भूम्या सहवनस्पतीन् वृक्षान् ओजसा बलेन दर्धर्षि धारयसि अथवा दृह्ळेतिविधेयविशेषणं वनस्पतीन् दृह्ळान् कृत्वा धारयसीत्यर्थः यत् अस्यास्ते तवसंबंधिनोवृष्टयोवर्षकामेघाः विद्युतोविद्योत- मानात् अभ्रस्य पंचम्यर्थेषष्ठी अभ्रादपांहर्त्तुः दिवोन्तरिक्षादादित्याद्वावर्षन्ति अथवा यद्यस्यास्ते तवाभ्रस्यमेघस्य वृष्टयः उदकसंघाताः विद्युतोविद्योतमानायादिवः सकाशाद्वर्षन्ति पतन्ति ॥ ३ ॥

प्रसंम्राजइत्यष्टर्चंत्रयोदशंसूक्तं आत्रेयं त्रैष्टुभं वारुणं अनुक्रम्यतेच-प्रसंम्राजेष्टौवारुणमिति । विनियोगोलैंगिकः ।