श्रवणम्

5.84.1
बळि॒त्था पर्व᳚तानां खि॒द्रं बि᳚भर्षि पृथिवि ।
प्र या भूमिं᳚ प्रवत्वति म॒ह्ना जि॒नोषि᳚ महिनि ॥
▶ पदपाठः (Word-by-word)
बट् । इ॒त्था । पर्व᳚तानाम् । खि॒द्रम् । बि॒भ॒र्षि॒ । पृ॒थि॒वि॒ ।
प्र । या । भूमि᳚म् । प्र॒व॒त्व॒ति॒ । म॒ह्ना । जि॒नोषि᳚ । म॒हि॒नि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

द्विरूपापृथिवीचैषा प्रत्यक्षादेवतापिच । मध्यस्थानादेवतोक्ता सात्र संबोध्यवर्ण्यते ॥ हेपृथिवि विप्रथनवति मध्यस्थानदेवतेत्वं इत्था- इत्थं अत्र अमुत्रान्तरिक्षेवा बट् सत्यं पर्वतानां मेघानांवाखिद्रं खेदनं भेदनं बिभर्षि धारयसि हेमहिनि महति हेप्रवत्वति प्रकर्षवति प्रव- णोदकवतिवायात्वं भूमिं प्रत्यक्षांपृथिवीं मह्ना महत्वेन महतोदकेनवा प्रजिनोषि प्रकर्षेणप्रीणयसि ॥ १ ॥