पञ्चमं मण्डलम् - सूक्तम् 21

4 ऋचः

ऋषिः: सस आत्रेयः देवता: अग्निः छन्दः: अनुष्टुप्

सूक्तम् 5.21 - सम्पूर्णम्

1 / 4
ऋक्: 5.21.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (4)
5.21.1
म॒नु॒ष्वत्त्वा॒ नि धी᳚महि मनु॒ष्वत्समि᳚धीमहि ।
अग्ने᳚ मनु॒ष्वद᳚ङ्गिरो दे॒वान्दे᳚वय॒ते य᳚ज ॥
▶ पदपाठः (Word-by-word)
म॒नु॒ष्वत् । त्वा॒ । नि । धी॒म॒हि॒ । म॒नु॒ष्वत् । सम् । इ॒धी॒म॒हि॒ ।
अग्ने᳚ । म॒नु॒ष्वत् । अ॒ङ्गि॒रः॒ । दे॒वान् । दे॒व॒॑य॒ते । य॒ज॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने त्वा त्वां मनुष्वत् मनुरिवनिधीमहि स्थपयामः मनुःशब्दोमनुपर्यायः नभोंगिरोमनुषांवत्युपसंख्यानमितिभसंज्ञायांरुत्वाभावः मनुष्वत् मनुरिव त्वासमिधीमहि समिद्धिः संदीपयामः हेअंगिरः अंगारात्मकाग्ने देवयते देवकामाय यजमानाय मनुष्वत् मनवे मनोरपत्यायदेवान् यज ॥ १ ॥

5.21.2
त्वं हि मानु᳚षे॒ जने॑ग्ने॒ सुप्री᳚त इ॒ध्यसे᳚ ।
स्रुच᳚स्त्वा यन्त्यानु॒षक्सुजा᳚त॒ सर्पि᳚रासुते ॥
▶ पदपाठः (Word-by-word)
त्वम् । हि । मानु᳚षे । जने᳚ । अग्ने᳚ । सु॑प्री᳚तः । इ॒ध्यसे᳚ ।
स्रुचः᳚ । त्वा॒ । य॒न्ति॒ । आ॒नु॒षक् । सु॑जा᳚त । सर्पिः᳚॑आसुते ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने त्वं मानुषेजने मनुष्यलोके सुप्रीतः स्तोत्रैः सुष्ठुप्रीतः सन् इध्यसे दीप्यसे स्रुचोहविर्भिः संपूर्णाआनुषक् अनुषक्तंयथाभवतितिथा त्वा त्वाम् यन्ति प्राप्नुवन्ति हेसुजात हसर्पिरासुते घृतयुक्तान्नेति ॥ २ ॥

5.21.3 समानपद
त्वां विश्वे᳚ स॒जोष᳚सो दे॒वासो᳚ दू॒तम᳚क्रत ।
स॒प॒र्यन्त᳚स्त्वा कवे य॒ज्ञेषु᳚ दे॒वमी᳚ळते ॥
▶ पदपाठः (Word-by-word)
त्वाम् । विश्वे᳚ । स॒॑जोष᳚सः । दे॒वासः᳚ । दू॒तम् । अ॒क्र॒त॒ ।
स॒प॒र्यन्तः᳚ । त्वा॒ । क॒वे॒ । य॒ज्ञेषु᳚ । दे॒वम् । ई॒ळ॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सजोषसः सहप्रीयमाणाः विश्वेसर्वेदेवासोदेवाः त्वां दूतं अक्रत अकुर्वन् अतःकारणात् हेकवे क्रान्तदर्शिन् देवंद्योतमानं त्वा त्वां सपर्यन्तःपरिचरन्तोयजमानाः यज्ञेषुईळते देवानाह्वातुंयाचन्ते ॥ ३ ॥

5.21.4
दे॒वं वो᳚ देवय॒ज्यया॒ग्निमी᳚ळीत॒ मर्त्य᳚ः ।
समि᳚द्धः शुक्र दीदिह्यृ॒तस्य॒ योनि॒मास᳚दः स॒सस्य॒ योनि॒मास᳚दः ॥
▶ पदपाठः (Word-by-word)
दे॒वम् । वः॒ । दे॒व॒॑य॒ज्यया᳚ । अ॒ग्निम् । ई॒ळी॒त॒ । मर्त्यः᳚ ।
सम्॑इ᳚द्धः । शु॒क्र॒ । दी॒दि॒हि॒ । ऋ॒तस्य᳚ । योनि᳚म् । आ । अ॒स॒दः॒ । स॒सस्य᳚ । योनि᳚म् । आ । अ॒स॒दः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मर्त्योमनुष्यः देवंद्योतमानमग्निं अग्रण्यं वः त्वांदेवयज्यया देवयज्यायै देवयागार्थं ईळीत स्तोतुमर्हति हेशुक्र शोचिष्मन् समिद्धः हविर्भिः प्रबृद्धःसन् दीदिहि दीप्यस्व ऋतस्य सत्यभूतस्य ससस्यऋषेः ममयोनिःकारणं स्वर्गसाधनं यज्ञस्थानं आसदः देवतारूपेण आसीद आदरातिशयद्योतनार्थंपुनर्वचनम् ॥ ४ ॥

प्रविश्वसामन्नितिचतुरृचमष्टमंसूक्तं आत्रेयोविश्वसामाऋषिः चतुर्थीपंक्तिः शिष्टाअनुष्टुभः अग्निर्देवता तथाचानुक्रान्तं-प्रविश्व- सामन्विश्वसामेति । उक्तोविनियोगः प्रातरनुवाकाश्विनशस्त्रयोः ।