पञ्चमं मण्डलम् - सूक्तम् 73

10 ऋचः

ऋषिः: पौर आत्रेयः देवता: अश्विनौ छन्दः: अनुष्टुप्

सूक्तम् 5.73 - सम्पूर्णम्

1 / 10
ऋक्: 5.73.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
5.73.1
यद॒द्य स्थः प᳚रा॒वति॒ यद᳚र्वा॒वत्य᳚श्विना ।
यद्वा᳚ पु॒रू पु᳚रुभुजा॒ यद॒न्तरि᳚क्ष॒ आ ग᳚तम् ॥
▶ पदपाठः (Word-by-word)
यत् । अ॒द्य । स्थः॒ । प॒रा॒॑वति᳚ । यत् । अ॒र्वा॒॑वति᳚ । अ॒श्वि॒ना॒ ।
यत् । वा॒ । पु॒रु । पु॒रु॒॑भु॒जा॒ । यत् । अ॒न्तरि᳚क्षे । आ । ग॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेपुरुभुजा बहुषु यज्ञेषु भोक्तारौ अधिकं रक्षितारौवा हेअश्विना अश्विनौ यद्यदि अद्यास्मिन् काले परावति अत्यंतंदूरेदेशे द्युलोके स्थोभवथः यद्वा अर्वावति अरणवति गन्तुंशक्ये प्रदेशे अन्तिकेस्थः यत् यदिवा अथवा पुरु बहु प्रदेशेषुस्थः यद्यदि अन्तरिक्षेस्थः तस्मा- त्सर्वस्मादद्यागतं आगच्छतम् ॥ १ ॥

5.73.2 समानपद
इ॒ह त्या पु᳚रु॒भूत᳚मा पु॒रू दंसां᳚सि॒ बिभ्र᳚ता ।
व॒र॒स्या या॒म्यध्रि᳚गू हु॒वे तु॒विष्ट᳚मा भु॒जे ॥
▶ पदपाठः (Word-by-word)
इ॒ह । त्या । पु॒रु॒॑भूत᳚मा । पु॒रु । दंसां᳚सि । बिभ्र᳚ता ।
व॒र॒स्या । या॒मि॒ । अध्रि᳚गू॒ इत्यध्रि᳚॑गू । हु॒वे । तु॒विः॑त᳚मा । भु॒जे ॥
▶ सायणभाष्यम् (Sayana Commentary)

इहास्मिन्यज्ञे त्या तौ पुरुभूतमा पुरूणां बहूनां यजमानानां भावयितृतमौ पुरु पुरूणि दंसांसि कर्माणि बिभ्रता धारयन्तौ वरस्याव- रणीयौ अध्रिगू अन्यैरधृतगमनकर्माणौ यामि उपागच्छामि तुविष्टमा प्रभूततमौ भुजे भोगाय पालनायवा हुवे आह्वयामि ॥ २ ॥

5.73.3 समानपद
ई॒र्मान्यद्वपु᳚षे॒ वपु᳚श्च॒क्रं रथ᳚स्य येमथुः ।
पर्य॒न्या नाहु᳚षा यु॒गा म॒ह्ना रजां᳚सि दीयथः ॥
▶ पदपाठः (Word-by-word)
ई॒र्मा । अ॒न्यत् । वपु᳚षे । वपुः᳚ । च॒क्रम् । रथ᳚स्य । ये॒म॒थुः॒ ।
परि᳚ । अ॒न्या । नाहु᳚षा । यु॒गा । म॒ह्ना । रजां᳚सि । दी॒य॒थः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअश्विनौ युवां रथस्ययुष्मदीयस्यान्यच्चक्रं ईर्मा अर्तेरीर्मे तिरूपं गंतर्यादित्ये वपुषे तस्यशोभायै वपूर्वपुष्मत् तेजोवत् चक्रंयेमथुः नियमितवन्तौस्थः अन्या अन्येनचक्रेण मह्ना महत्त्वेन स्व्सामर्थ्येन नाहुषायुगा नहुषामनुष्याः तेषांयुगा युगोपलक्षितान् कालान् प्रात- रादिसवनान् अहोरात्रादिकालान्वा रजांसि लोकांश्च परिगच्छथः परिदीयथः न्यघ्न्यस्यमूर्धनिचक्रंरथस्ययेमथुरित्युक्तम् ॥ ३ ॥

5.73.4
तदू॒ षु वा᳚मे॒ना कृ॒तं विश्वा॒ यद्वा॒मनु॒ ष्टवे᳚ ।
नाना᳚ जा॒ताव᳚रे॒पसा॒ सम॒स्मे बन्धु॒मेय᳚थुः ॥
▶ पदपाठः (Word-by-word)
तत् । ऊं॒ इति᳚ । सु । वा॒म् । ए॒ना । कृ॒तम् । विश्वा᳚ । यत् । वा॒म् । अनु᳚ । स्तवे᳚ ।
नाना᳚ । जा॒तौ । अ॒रे॒पसा᳚ । सम् । अ॒स्मे इति᳚ । बन्धु᳚म् । आ । ई॒य॒थुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेविश्वाव्याप्तौ यत् येनस्तोत्रेणवां युवां अनुष्टवे अनुस्तवे तदु उइतिपूरणः एना अनेनपौरेण सु सुष्टुवां युवाभ्यां कृतं संपादितंभवतु नाना पृथगेव जातौ समृद्धौ अरेपसा अपापौ अस्मे अस्मभ्यं बन्धुं अन्नंधनंवा समेयथुः सम्यग्गमयथः सम्यक् प्रयच्छतमित्यर्थः ॥ ४ ॥

5.73.5
आ यद्वां᳚ सू॒र्या रथं॒ तिष्ठ᳚द्रघु॒ष्यदं॒ सदा᳚ ।
परि᳚ वामरु॒षा वयो᳚ घृ॒णा व᳚रन्त आ॒तपः᳚ ॥
▶ पदपाठः (Word-by-word)
आ । यत् । वा॒म् । सू॒र्या । रथ᳚म् । तिष्ठ᳚त् । र॒घु॒॑स्यद᳚म् । सदा᳚ ।
परि᳚ । वा॒म् । अ॒रु॒षाः । वयः᳚ । घृ॒णा । व॒र॒न्ते॒ । आ॒॑तपः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअश्विनौ वांयुवयोः सदा सर्वदा रघुष्यदं शीघ्रगंरथं सूर्या युवयोः पत्नी यत् यदा आतिष्ठत् आस्थितवती तदा वांपरिवरन्ते परितोवृ- ण्वन्ति केअरुषा आरोचमानाः घृणादीप्ताः आतपः आतापनाः शत्रूणां वयोश्वाः अथवा आतपइतिविशेष्यं वयोगन्तारउक्तलक्षणाः आत- पः सर्वतस्तापयित्र्योदीप्तयः परिवरन्ते ॥ ५ ॥

5.73.6
यु॒वोरत्रि᳚श्चिकेतति॒ नरा᳚ सु॒म्नेन॒ चेत᳚सा ।
घ॒र्मं यद्वा᳚मरे॒पसं॒ नास᳚त्या॒स्ना भु᳚र॒ण्यति᳚ ॥
▶ पदपाठः (Word-by-word)
यु॒वोः । अत्रिः᳚ । चि॒के॒त॒ति॒ । नरा᳚ । सु॒म्नेन᳚ । चेत᳚सा ।
घ॒र्मम् । यत् । वा॒म् । अ॒रे॒पस᳚म् । नास᳚त्या । आ॒स्ना । भु॒र॒ण्यति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेनरा नेतारावश्विनौ युवोर्युवयोः युवामित्यर्थः अत्रिरस्मत्पिताऋषिः सुम्नेन सुखेन अग्निदाहोपशमरूपेणहेतुना चेतसा आदरयुक्तेन- मनसा चिकेतति जानाति स्तुतवानित्यर्थः सतिदुःखे सुखमुक्ष्यते दुःखस्यकःप्रसंगइत्यतआह यद्यस्मात् हेनासत्यौ वांयुवयोरास्ना आस्येन तन्निष्पन्नेनस्तोत्रेण घर्मं दीप्तं दहन्तमग्निं असुरैः स्वदाहायप्रक्षिप्तं अरेपसं अपापं सुखकरं भुरण्यति प्राप्तवान् भुरण्यतिर्गतिकर्मा अत्रेरग्नेः सकाशात् रक्षणं हिमेनाग्निंघ्रंसंयुवमृबीसमुततप्तमत्रयइत्यादिभिः स्पष्टंप्रदर्शितम् ॥ ६ ॥

5.73.7 समानपद
उ॒ग्रो वां᳚ ककु॒हो य॒यिः शृ॒ण्वे यामे᳚षु संत॒निः ।
यद्वां॒ दंसो᳚भिरश्वि॒नात्रि᳚र्नराव॒वर्त᳚ति ॥
▶ पदपाठः (Word-by-word)
उ॒ग्रः । वा॒म् । क॒कु॒हः । य॒यिः । शृ॒ण्वे । यामे᳚षु । स॒म्॑त॒निः ।
यत् । वा॒म् । दंसः᳚॑भिः । अ॒श्वि॒ना॒ । अत्रिः᳚ । न॒रा॒ । आ॒॑व॒वर्त᳚ति ॥
▶ सायणभाष्यम् (Sayana Commentary)

उग्रउद्गूर्णबलोवांयुवयोः ककुहः उछ्रितोमहान् ययिर्गन्ता सन्तनिः सततंगच्छन् रथः यामेषु गमनेषु यज्ञेषुवा श्रृण्वे श्रूयते हेअश्विना हेनरा यद्यस्मात् वांयुवां दंसोभिः कर्मभिः अत्रिरस्मत्पिता आववर्तति आवर्तयति ॥ ७ ॥

5.73.8
मध्व᳚ ऊ॒ षु म᳚धूयुवा॒ रुद्रा॒ सिष᳚क्ति पि॒प्युषी᳚ ।
यत्स᳚मु॒द्राति॒ पर्ष᳚थः प॒क्वाः पृक्षो᳚ भरन्त वाम् ॥
▶ पदपाठः (Word-by-word)
मध्वः᳚ । ऊं॒ इति᳚ । सु । म॒धु॒॑यु॒वा॒ । रुद्रा᳚ । सिस᳚क्ति । पि॒प्युषी᳚ ।
यत् । स॒मु॒द्रा । अति᳚ । पर्ष᳚थः । प॒क्वाः । पृक्षः᳚ । भ॒र॒न्त॒ । वा॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमधूयुवा मधुरस्यसोमादेर्मिश्रयितारौ हेरुद्रा रुत् स्तुतिः तयाद्रवणीयौ रुद्रपुत्रौ वांयुवांमध्वोमधुररसेन सुपिप्युषी सुष्ठुप्याययन्ती स्तुतिरस्मत्कृता सिषक्ति सेवते यद्यदा समुद्रा समुद्रवणसाधनान्यन्तरिक्षाणि अतिपर्षथः अतिपारयथः यज्ञंप्राप्नुथइत्यर्थः तदापक्वाः पृक्षोन्नादीनिहविर्लक्षणानि वां भरन्त भ्रियन्तेयजमानैः ॥ ८ ॥

5.73.9
स॒त्यमिद्वा उ᳚ अश्विना यु॒वामा᳚हुर्मयो॒भुवा᳚ ।
ता याम᳚न्याम॒हूत᳚मा॒ याम॒न्ना मृ᳚ळ॒यत्त᳚मा ॥
▶ पदपाठः (Word-by-word)
स॒त्यम् । इत् । वै । ऊं॒ इति᳚ । अ॒श्वि॒ना॒ । यु॒वाम् । आ॒हुः॒ । म॒यः॒॑भुवा᳚ ।
ता । याम᳚न् । या॒म॒॑हूत᳚मा । याम᳚न् । आ । मृ॒ळ॒यत्॑त᳚मा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअश्विना युवांसत्यमित् सत्यमेव वाइतिपदपूरणः मयोभुवा सुखस्यभावयितारावाहुःपुराविदः ता तौ सुखकरत्वेनप्रसिद्धौ युवां या- मन् यज्ञे यामहूतमागमनार्थं भृशमाह्वातव्यौभवतमितिशेषः यामन्नस्मद्यज्ञे अस्मदर्थागमनेवा मृळयत्तमात्र अतिशयेनसुखयितारौभव- तम् ॥ ९ ॥

5.73.10 समानपद
इ॒मा ब्रह्मा᳚णि॒ वर्ध᳚ना॒श्विभ्यां᳚ सन्तु॒ शंत᳚मा ।
या तक्षा᳚म॒ रथा{4}᳚ इ॒वावो᳚चाम बृ॒हन्नमः᳚ ॥
▶ पदपाठः (Word-by-word)
इ॒मा । ब्रह्मा᳚णि । वर्ध᳚ना । अ॒श्वि॑भ्या᳚म् । स॒न्तु॒ । शम्॑त᳚मा ।
या । तक्षा᳚म । रथा᳚न्॑इव । अवो᳚चाम । बृ॒हत् । नमः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अथस्तुतिंनिगमयति इमा इमानीदानींकृतानि ब्रह्माणि परिवृढानि स्तोत्राणि अश्विभ्यां वर्धना वर्धनानि समर्धकानि शंतमा सुखत- मानिसन्तु या यानि तक्षाम संपादयाम रथानिवशिल्पी तद्वत्तक्षाम तानिसुखतमानिसन्तु वयं बृहत्प्रभूतं प्रभूतफलप्रदं नमोनमस्कारो- क्तिमवोचाम ॥ १० ॥

कूष्ठइतिदशर्चंद्वितीयंसूक्तं पौरस्यार्षं कूष्ठइत्यनुक्रमणिका पूर्वत्रतुशब्दादिदमप्यानुष्टुभं आश्विनं तदितिपूर्वोक्तत्वात् प्रातरनुवाका- श्विनशस्त्रयोःपूर्वसूक्तेनसहोक्तोविनियोगः ।