पञ्चमं मण्डलम् - सूक्तम् 76

5 ऋचः

ऋषिः: भौमोत्रिः देवता: अश्विनौ छन्दः: त्रिष्टुप्

सूक्तम् 5.76 - सम्पूर्णम्

1 / 5
ऋक्: 5.76.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
5.76.1
आ भा᳚त्य॒ग्निरु॒षसा॒मनी᳚क॒मुद्विप्रा᳚णां देव॒या वाचो᳚ अस्थुः ।
अ॒र्वाञ्चा᳚ नू॒नं र᳚थ्ये॒ह या᳚तं पीपि॒वांस᳚मश्विना घ॒र्ममच्छ᳚ ॥
▶ पदपाठः (Word-by-word)
आ । भा॒ति॒ । अ॒ग्निः । उ॒षसा᳚म् । अनी᳚कम् । उत् । विप्रा᳚णाम् । दे॒व॒॑याः । वाचः᳚ । अ॒स्थुः॒ ।
अ॒र्वाञ्चा᳚ । नू॒नम् । र॒थ्या॒ । इ॒ह । या॒त॒म् । पी॒पि॒॑वांस᳚म् । अ॒श्वि॒ना॒ । घ॒र्मम् । अच्छ᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उषसामनीकं अनीकभूतः अनीकं सुखं उषसिप्रबुध्यमानइत्यर्थः तादृशोग्निराभातिदीप्यते यद्वा उषसांमुखमाभातिदीपयति उषःकले- ह्यग्नयःप्रतिबोध्यन्ते किंच विप्राणां मेधाविनां स्तोतॄणां देवयाः देवकामाः वाचः स्तोत्राणि उदस्थुः उत्तिष्ठन्ति यस्मादेवंतस्मात् हेरथ्या रथ्स्वामिनौ अश्विना अश्विनौ अर्वांचा अस्मदभिमुखांचनौ नूनं अद्यास्मिन्यागदिने इहायातं कंप्रति पीपिवांसं स्वांगैः परिवृढं घर्मं प्रदी- प्तंयज्ञं यद्वा पीपिवांसं आप्यायितं वसतीवरीभिः क्षरद्रूपंसोमरसं अथवा घृतादिनापीपिवांसंघर्मंप्रवर्ग्यं अच्छ अभिलक्ष्य इहयागे आयातं प्रवर्ग्येऽस्यसूक्तस्यविनियोगः ॥ १ ॥

5.76.2
न सं᳚स्कृ॒तं प्र मि᳚मीतो॒ गमि॒ष्ठान्ति᳚ नू॒नम॒श्विनोप᳚स्तुते॒ह ।
दिवा᳚भिपि॒त्वे॑व॒साग᳚मिष्ठा॒ प्रत्यव᳚र्तिं दा॒शुषे॒ शम्भ᳚विष्ठा ॥
▶ पदपाठः (Word-by-word)
न । सं॒स्कृ॒तम् । प्र । मि॒मी॒तः॒ । गमि᳚ष्ठा । अन्ति᳚ । नू॒नम् । अ॒श्विना᳚ । उप᳚॑स्तुता । इ॒ह ।
दिवा᳚ । अ॒भि॒॑पि॒त्वे । अव᳚सा । आ॑ग᳚मिष्ठा । प्रति᳚ । अव᳚र्तिम् । दा॒शुषे᳚ । शम्॑भ᳚विष्ठा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअश्विनौ संस्कृतंघर्मं नप्रमिमीतः नहिंस्तां किंतु अन्ति अन्तिके घर्मसमीपे नूनमिदानीं इहयज्ञे गमिष्ठा गन्तृतमौअश्विना अश्विनौ उपस्तुता उपस्तुतौभवतः दिवाभिपित्वे दिवसस्याभिपतनेप्रातःकाले अवसा रक्षणेनसहागमिष्ठा आगन्तृतमौ अवर्तिप्रतिद्वंद्वभूतौ वर्ति- र्जीवनं तदभावोवर्तिः तद्रहितमन्नंयथाभवति तथा आगन्तृतमौ आगत्यच दाशुषे हविर्दत्तवतेयजमानाय शंभविष्ठा सुखस्यभावयितारौ- भवतं ॥ २ ॥

5.76.3
उ॒ता या᳚तं संग॒वे प्रा॒तरह्नो᳚ म॒ध्यंदि᳚न॒ उदि᳚ता॒ सूर्य᳚स्य ।
दिवा॒ नक्त॒मव᳚सा॒ शंत᳚मेन॒ नेदानीं᳚ पी॒तिर॒श्विना त᳚तान ॥
▶ पदपाठः (Word-by-word)
उ॒त । आ । या॒त॒म् । स॒म्॑ग॒वे । प्रा॒तः । अह्नः᳚ । म॒ध्यन्दि᳚ने । उत्॑इ᳚ता । सूर्य᳚स्य ।
दिवा᳚ । नक्त᳚म् । अव᳚सा । शम्॑त᳚मेन । न । इ॒दानी᳚म् । पी॒तिः । अ॒श्विना᳚ । आ । त॒ता॒न॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अह्रोद्वेधा त्रेधा पंचदशधेतिसमानाविभागाःसन्ति इहपंचधाविभागआत्तः उतापिचायातमागच्छतं कदा संगवे संगवकाले संगच्छते गावोदोहनभूमिंयस्मिन्कालेससंगवः रात्र्यपरकालेहिगावोवनेहिमतृणानिभक्षयित्वा पुनर्दोहाय संगवे प्रतिनिवर्तन्ते तथा प्रातः प्रातःका- लेपि तथामध्यंदिने अह्नोमध्यकाले सूर्यस्यउदिताउदितौ अभ्युदये अत्यन्तप्रवृद्धसमये अपराह्णइत्यर्थः एतत्सायाह्नस्यापिउपलक्षणं नकेवलमुक्तेष्वेवकालेषु किंतर्हि दिवा नक्तं सर्वदा शंतमेनसुखतमेनअवसारक्षणेन हविषावानिमित्तेनायातं किमर्थं आगम्यते पूर्वमेवान्यैर्देवैः स्वीकृतत्वात् नेत्याह इदानीमपि पीतिरितरदेवानांपानं नाततान नतनोति अश्विना अश्विनौ विहायेतिशेषः ॥ ३ ॥

5.76.4
इ॒दं हि वां᳚ प्र॒दिवि॒ स्थान॒मोक᳚ इ॒मे गृ॒हा अ᳚श्विने॒दं दु᳚रो॒णम् ।
आ नो᳚ दि॒वो बृ᳚ह॒तः पर्व᳚ता॒दाद्भ्यो या᳚त॒मिष॒मूर्जं॒ वह᳚न्ता ॥
▶ पदपाठः (Word-by-word)
इ॒दम् । हि । वा॒म् । प्र॒॑दिवि᳚ । स्थान᳚म् । ओकः᳚ । इ॒मे । गृ॒हाः । अ॒श्वि॒ना॒ । इ॒दम् । दु॒रो॒णम् ।
आ । नः॒ । दि॒वः । बृ॒ह॒तः । पर्व᳚तात् । आ । अ॒त्॑भ्यः । या॒त॒म् । इष᳚म् । ऊर्ज᳚म् । वह᳚न्ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअश्विना वांयुवयोः प्रदिविपुराणमिदंह्योकोनिवासयोग्यंस्थानं उत्तरवेद्याख्यं अथ सौमिकवेद्यभिप्रायेणाह इमेगृहाः प्राचीनवंशा- दयः इदंदुरोणं देवयजनगृहं नोस्मदर्थं दिवोद्युलोकात् बृहतः पर्वतात् पर्ववतोमेघादद्भ्योपांकारणात् अन्तरिक्षादायातं आगच्छतं किंतूष्णीं न इषमूर्जंच अन्नं बलंच बलसाधनमन्नंसारभूतमित्यर्थः तादृशंवहन्ता वहन्तौ ॥ ४ ॥

5.76.5
सम॒श्विनो॒रव᳚सा॒ नूत᳚नेन मयो॒भुवा᳚ सु॒प्रणी᳚ती गमेम ।
आ नो᳚ र॒यिं व᳚हत॒मोत वी॒राना विश्वा᳚न्यमृता॒ सौभ᳚गानि ॥
▶ पदपाठः (Word-by-word)
सम् । अ॒श्विनोः᳚ । अव᳚सा । नूत᳚नेन । म॒यः॒॑भुवा᳚ । सु॒॑प्रनी᳚ती । ग॒मे॒म॒ ।
आ । नः॒ । र॒यिम् । व॒ह॒त॒म् । आ । उ॒त । वी॒रान् । आ । विश्वा᳚नि । अ॒मृ॒ता॒ । सौभ᳚गानि ॥
▶ सायणभाष्यम् (Sayana Commentary)

वयं संगमेम संगच्छेम आश्विनोर्नूतनेनावसा अनन्यकृतेनरक्षणेन मयोभुवा सुखस्यभावयित्र्या सुप्रणीतो सुप्रणीत्या सुष्ठु आगमनेनच अपिवा एते उभेअवसोविशेषणे उक्तलक्षणेन संगमेम नोस्मभ्यं रयिं आवहतं उत वीरान् पुत्रादीनावहतं हेअमृता अमरणधर्माणौ विश्वा विश्वानिसौभगानिसुभगत्वानि आवहतं ॥ ५ ॥

प्रातर्यावाणेतिपंचर्चंपंचमंसूक्तं आत्रेयं त्रैष्टुभमाश्विनं प्रातर्यावाणेतिह्यनुक्रान्तं प्रातरनुवाकाश्विनशस्त्रयोः पूर्वसूक्तेनसहोक्तोविनि- योगः अप्तोर्यामेमैत्रावरुणातिरिक्तोक्थ्येइदमेवशस्यं तथाचसूत्रितं-प्रातर्यावाणाक्षेत्रस्यपतेमधुमन्तमूर्मिमिति ।