श्रवणम्

5.76.2
न सं᳚स्कृ॒तं प्र मि᳚मीतो॒ गमि॒ष्ठान्ति᳚ नू॒नम॒श्विनोप᳚स्तुते॒ह ।
दिवा᳚भिपि॒त्वे॑व॒साग᳚मिष्ठा॒ प्रत्यव᳚र्तिं दा॒शुषे॒ शम्भ᳚विष्ठा ॥
▶ पदपाठः (Word-by-word)
न । सं॒स्कृ॒तम् । प्र । मि॒मी॒तः॒ । गमि᳚ष्ठा । अन्ति᳚ । नू॒नम् । अ॒श्विना᳚ । उप᳚॑स्तुता । इ॒ह ।
दिवा᳚ । अ॒भि॒॑पि॒त्वे । अव᳚सा । आ॑ग᳚मिष्ठा । प्रति᳚ । अव᳚र्तिम् । दा॒शुषे᳚ । शम्॑भ᳚विष्ठा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअश्विनौ संस्कृतंघर्मं नप्रमिमीतः नहिंस्तां किंतु अन्ति अन्तिके घर्मसमीपे नूनमिदानीं इहयज्ञे गमिष्ठा गन्तृतमौअश्विना अश्विनौ उपस्तुता उपस्तुतौभवतः दिवाभिपित्वे दिवसस्याभिपतनेप्रातःकाले अवसा रक्षणेनसहागमिष्ठा आगन्तृतमौ अवर्तिप्रतिद्वंद्वभूतौ वर्ति- र्जीवनं तदभावोवर्तिः तद्रहितमन्नंयथाभवति तथा आगन्तृतमौ आगत्यच दाशुषे हविर्दत्तवतेयजमानाय शंभविष्ठा सुखस्यभावयितारौ- भवतं ॥ २ ॥