आ भा᳚त्य॒ग्निरु॒षसा॒मनी᳚क॒मुद्विप्रा᳚णां देव॒या वाचो᳚ अस्थुः ।
अ॒र्वाञ्चा᳚ नू॒नं र᳚थ्ये॒ह या᳚तं पीपि॒वांस᳚मश्विना घ॒र्ममच्छ᳚ ॥
अ॒र्वाञ्चा᳚ नू॒नं र᳚थ्ये॒ह या᳚तं पीपि॒वांस᳚मश्विना घ॒र्ममच्छ᳚ ॥
पदपाठः (Word-by-word)
आ । भा॒ति॒ । अ॒ग्निः । उ॒षसा᳚म् । अनी᳚कम् । उत् । विप्रा᳚णाम् । दे॒व॒॑याः । वाचः᳚ । अ॒स्थुः॒ ।
अ॒र्वाञ्चा᳚ । नू॒नम् । र॒थ्या॒ । इ॒ह । या॒त॒म् । पी॒पि॒॑वांस᳚म् । अ॒श्वि॒ना॒ । घ॒र्मम् । अच्छ᳚ ॥
अ॒र्वाञ्चा᳚ । नू॒नम् । र॒थ्या॒ । इ॒ह । या॒त॒म् । पी॒पि॒॑वांस᳚म् । अ॒श्वि॒ना॒ । घ॒र्मम् । अच्छ᳚ ॥
सायणभाष्यम् (Sayana Commentary)
उषसामनीकं अनीकभूतः अनीकं सुखं उषसिप्रबुध्यमानइत्यर्थः तादृशोग्निराभातिदीप्यते यद्वा उषसांमुखमाभातिदीपयति उषःकले- ह्यग्नयःप्रतिबोध्यन्ते किंच विप्राणां मेधाविनां स्तोतॄणां देवयाः देवकामाः वाचः स्तोत्राणि उदस्थुः उत्तिष्ठन्ति यस्मादेवंतस्मात् हेरथ्या रथ्स्वामिनौ अश्विना अश्विनौ अर्वांचा अस्मदभिमुखांचनौ नूनं अद्यास्मिन्यागदिने इहायातं कंप्रति पीपिवांसं स्वांगैः परिवृढं घर्मं प्रदी- प्तंयज्ञं यद्वा पीपिवांसं आप्यायितं वसतीवरीभिः क्षरद्रूपंसोमरसं अथवा घृतादिनापीपिवांसंघर्मंप्रवर्ग्यं अच्छ अभिलक्ष्य इहयागे आयातं प्रवर्ग्येऽस्यसूक्तस्यविनियोगः ॥ १ ॥