पञ्चमं मण्डलम् - सूक्तम् 49

5 ऋचः

ऋषिः: प्रतिप्रभ आत्रेयः देवता: विश्वेदेवाः छन्दः: त्रिष्टुप्

सूक्तम् 5.49 - सम्पूर्णम्

1 / 5
ऋक्: 5.49.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
5.49.1
दे॒वं वो᳚ अ॒द्य स᳚वि॒तार॒मेषे॒ भगं᳚ च॒ रत्नं᳚ वि॒भज᳚न्तमा॒योः ।
आ वां᳚ नरा पुरुभुजा ववृत्यां दि॒वेदि᳚वे चिदश्विना सखी॒यन् ॥
▶ पदपाठः (Word-by-word)
दे॒वम् । वः॒ । अ॒द्य । स॒वि॒तार᳚म् । आ । ई॒षे॒ । भग᳚म् । च॒ । रत्न᳚म् । वि॒॑भज᳚न्तम् । आ॒योः ।
आ । वा॒म् । न॒रा॒ । पु॒रु॒॑भु॒जा॒ । व॒वृ॒त्या॒म् । दि॒वे॑दि᳚वे । चि॒त् । अ॒श्वि॒ना॒ । स॒खि॒॑यन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवं द्योतमानं सवितारं सर्वस्याभ्यनुज्ञातारं वः स्वामित्यर्थः यद्वा होतुरिदंवाक्यं वोयजमानेभ्योयुष्मभ्यमर्थाय अद्य इदानीं आईषेउपगच्छामि भगंच भजनीयंदेवं आयोर्मनुष्यस्य यजमानस्य रत्नं रमणीयं हविर्विभजन्तम् भगोवांविभजत्वितिहिभगस्यविभजनंप्रसिद्धं रायोविभक्तासंभरश्चवस्वः । भगोविभक्ताशवसेतिचश्रुतिः । यद्वा चतुर्थ्यर्थेषष्ठी यजमानार्थं रत्नं रमणीयंधनं विभजन्तं हेनरा नेतारौ हेपुरुभुजा पुरुभुंजातेइतिपुरुभुजौ अश्विना अश्विनौ वां युवां दिवेदिवे प्रतिदिनं आववृत्यां आवर्तयामिअस्मदभिमुखं सखीयन् युवयोः सखित्वमिच्छ्न् चिदितिपूरणः ॥ १ ॥

5.49.2
प्रति᳚ प्र॒याण॒मसु᳚रस्य वि॒द्वान्त्सू॒क्तैर्दे॒वं स᳚वि॒तारं᳚ दुवस्य ।
उप᳚ ब्रुवीत॒ नम᳚सा विजा॒नञ्ज्येष्ठं᳚ च॒ रत्नं᳚ वि॒भज᳚न्तमा॒योः ॥
▶ पदपाठः (Word-by-word)
प्रति᳚ । प्र॒॑यान᳚म् । असु᳚रस्य । वि॒द्वान् । सु॒॑उ॒क्तैः । दे॒वम् । स॒वि॒तार᳚म् । दु॒व॒स्य॒ ।
उप᳚ । ब्रु॒वी॒त॒ । नम᳚सा । वि॒॑जा॒नन् । ज्येष्ठ᳚म् । च॒ । रत्न᳚म् । वि॒॑भज᳚न्तम् । आ॒योः ॥
▶ सायणभाष्यम् (Sayana Commentary)

असुरस्य शत्रूणांनिरसितुः सवितुः प्रतिप्रयाणं प्रत्यागतिं विद्वान् जानन् सूक्तैः सवितारंदेवं दुवस्य परिचर हेअन्तरात्मन् किंच आयोर्मनुष्याय ज्येष्ठं रत्नंधनंच विभजंतं ददतमित्यर्थः नमसा नमस्कारेण हविषावा विजानन् विशेषेणभावयन्नित्यर्थः यद्वान्तर्णीतण्यर्थोयं ज्ञापयन् उपब्रुवीत स्तौतुभवान् ॥ २ ॥

5.49.3
अ॒द॒त्र॒या द᳚यते॒ वार्या᳚णि पू॒षा भगो॒ अदि᳚ति॒र्वस्त᳚ उ॒स्रः ।
इन्द्रो॒ विष्णु॒र्वरु᳚णो मि॒त्रो अ॒ग्निरहा᳚नि भ॒द्रा ज᳚नयन्त द॒स्माः ॥
▶ पदपाठः (Word-by-word)
अ॒द॒त्र॒॑या । द॒य॒ते॒ । वार्या᳚णि । पू॒षा । भगः᳚ । अदि᳚तिः । वस्ते᳚ । उ॒स्रः ।
इन्द्रः᳚ । विष्णुः᳚ । वरु᳚णः । मि॒त्रः । अ॒ग्निः । अहा᳚नि । भ॒द्रा । ज॒न॒य॒न्त॒ । द॒स्माः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमग्निरदत्रया अदनीयानि अदेरौणादिकोऽत्रप्रत्ययः सुपांसुलुगितियाजादेशः अथवा अत्तीत्यदत्राजिह्वातयावायाणि वरणीयानि काष्ठानि दयते दयतिरनेककर्मा अत्रदहने वर्तते दहतीत्यर्थः सामर्थ्यादग्निरितिगम्यते यद्वा अदनीयानि वरणीयानि अन्नानि दयते ददा- तियजमानाय दयदानगतिहिंसाबलाख्यानेषु दीदृशोग्निः पूषा पोषकः भगोभजनीयः अदितिरखंडनीयः यद्वा पूषदयस्त्रयोपिप्रत्येकं अदनीयानि वार्याणिचान्नानिदयते उस्रः सूर्योवस्तेआच्छादयति सामर्थ्यात्तेजांसि इन्द्रादयः पंचापिदेवाः दस्माः दर्शनीयाः अहानि सर्वा- ण्यागन्तॄणि भद्रा शोभनीयानि जनयन्त जनयन्ति दिवसानां यागदानादिविशिष्टत्वमेवभद्रत्वम् ॥ ३ ॥

5.49.4
तन्नो᳚ अन॒र्वा स᳚वि॒ता वरू᳚थं॒ तत्सिन्ध᳚व इ॒षय᳚न्तो॒ अनु᳚ ग्मन् ।
उप॒ यद्वोचे᳚ अध्व॒रस्य॒ होता᳚ रा॒यः स्या᳚म॒ पत᳚यो॒ वाज᳚रत्नाः ॥
▶ पदपाठः (Word-by-word)
तत् । नः॒ । अ॒न॒र्वा । स॒वि॒ता । वरू᳚थम् । तत् । सिन्ध᳚वः । इ॒षय᳚न्तः । अनु᳚ । ग्म॒न् ।
उप᳚ । यत् । वोचे᳚ । अ॒ध्व॒रस्य᳚ । होता᳚ । रा॒यः । स्या॒म॒ । पत᳚यः । वाज᳚॑रत्नाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

तत्प्रसिद्धं वरूथं वरणीयमस्मदभिमतंधनं नोस्मभ्यं अनर्वा अप्रत्यृतः केनाप्यतिरस्कृतः सवितादेवः प्रयच्छत्वितिशेषः तद्धनं सिन्धवः स्यन्दनशीलाइषय्न्तोगच्छन्त्योनद्यः अनु अनुसृत्य ग्मन् गच्छन्तु धनंदातुंगच्छन्त्वित्यर्थः यद्यस्मात् अध्वरस्य यागस्य होता होमनिष्पादकोहं उपवोचे उपेत्य ब्रवीमि तस्मात्तत्प्रयच्छन्त्वितिशेषः वयंचात्रयोरायोधनस्य बहुविधस्य पतयः स्वामिनः स्याम भवेम वाजरत्नाः अन्नेनबलेनवारमणीयाः अथवा यद्यस्माद्वोचेस्तौमि तस्मात्सविता नोवरूथमागच्छतु तस्मान्नद्यश्चनोवरूथं यज्ञमनुग्मन् अनुगच्छंत्वितिवायोज्यम् ॥ ४ ॥

5.49.5
प्र ये वसु᳚भ्य॒ ईव॒दा नमो॒ दुर्ये मि॒त्रे वरु᳚णे सू॒क्तवा᳚चः ।
अवै॒त्वभ्वं᳚ कृणु॒ता वरी᳚यो दि॒वस्पृ᳚थि॒व्योरव᳚सा मदेम ॥
▶ पदपाठः (Word-by-word)
प्र । ये । वसु᳚॑भ्यः । ईव᳚त् । आ । नमः᳚ । दुः । ये । मि॒त्रे । वरु᳚णे । सू॒क्त॑वा᳚चः ।
अव᳚ । ए॒तु॒ । अभ्व᳚म् । कृ॒णु॒त । वरी᳚यः । दि॒वःपृ᳚थि॒व्योः । अव᳚सा । म॒दे॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

येयजमानाः वसुभ्योयज्ञनिवासेभ्योदेवेभ्यः ईवत् गमनवत् नमोन्नंपश्वात्मकं प्रदुः प्रादुः येचमित्रेदेवेवरुणेच सूक्तवाचः सूक्तवचसोभवन्ति तानस्मानभ्वं महद्धनं तेजोवा अवैतु अवगच्छतु हेदेवाः कृणुत कुरुतच एतेभ्योवरीयउरुतरं सुखं दिवस्पृथिव्योर्द्यावापृथिव्योरवसारक्षणेन मदेम हृष्येम ॥ ५ ॥

विश्वोदेवस्येतिपंचर्चंषष्ठंसूक्तं स्वस्त्यात्रेयमुनेरार्षंवैश्वदेवं पंचमीपंक्तिः आद्यश्चतस्रोनुष्टुभः तदुक्तमनुक्रमण्यां-विश्वःस्वस्त्यात्रेयः पं- क्त्यन्तमिति । पृष्ठ्याभिप्लवषडहयोःप्रथमेहनि वैश्वदेवशस्त्रे विश्वोदेवस्येतिप्रतिपत्तृचस्याद्यः सुत्रितंच-विश्वोदेवस्यनेतुरित्येकेति । आभिप्लविकेषुद्वितीयचतुर्थषष्ठेष्वहः सुएषैववैश्वदेवस्यशस्त्रस्यप्रतिपत् युग्मेष्वेवमभिप्लवइतिसूत्रितत्वात् ।