पञ्चमं मण्डलम् - सूक्तम् 51

15 ऋचः

ऋषिः: स्वस्त्यात्रेयः देवता: विश्वेदेवाः छन्दः: गायत्री

सूक्तम् 5.51 - सम्पूर्णम्

1 / 15
ऋक्: 5.51.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (15)
5.51.1
अग्ने᳚ सु॒तस्य᳚ पी॒तये॒ विश्वै॒रूमे᳚भि॒रा ग᳚हि ।
दे॒वेभि᳚र्ह॒व्यदा᳚तये ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । सु॒तस्य᳚ । पी॒तये᳚ । विश्वैः᳚ । ऊमे᳚भिः । आ । ग॒हि॒ ।
दे॒वेभिः᳚ । ह॒व्य॑दा᳚तये ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने त्वं सुतस्यपीतये सोमपानाय विश्वैरूमेभिः ऊमैः सर्वैरपिरक्षकैः देवेभिःदेवैरिन्द्रादिभिः सह हव्यदातये अस्माकंहविर्दानाय तद्दात्रेयजमानायवा आगहि आगच्छ ॥ १ ॥

5.51.2
ऋत᳚धीतय॒ आ ग᳚त॒ सत्य᳚धर्माणो अध्व॒रम् ।
अ॒ग्नेः पि᳚बत जि॒ह्वया᳚ ॥
▶ पदपाठः (Word-by-word)
ऋत᳚॑धीतयः । आ । ग॒त॒ । सत्य᳚॑धर्माणः । अ॒ध्व॒रम् ।
अ॒ग्नेः । पि॒ब॒त॒ । जि॒ह्वया᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेऋतधीतयः सत्यस्तुतयः अबाध्यकर्मणोवादेवाः अध्वरमस्मद्यज्ञं आगत आगच्छत आगत्यच हेसत्यधर्माणः सत्यस्यधारयितारोयूयं अग्नेर्जिह्वया पिबत आज्यसोमादिकम् ॥ २ ॥

5.51.3
विप्रे᳚भिर्विप्र सन्त्य प्रात॒र्याव᳚भि॒रा ग᳚हि ।
दे॒वेभि॒ः सोम᳚पीतये ॥
▶ पदपाठः (Word-by-word)
विप्रे᳚भिः । वि॒प्र॒ । स॒न्त्य॒ । प्रा॒त॒र्याव᳚॑भिः । आ । ग॒हि॒ ।
दे॒वेभिः᳚ । सोम᳚॑पीतये ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेविप्र मेधाविन् विविधकामानांवापूरक हेसन्त्य संबजनीयाग्ने विप्रेभिःउक्तलक्षणैः प्रातर्यावभिः प्रातःकालेआगन्तृभिः देवेभिःदेवैः सार्द्धं आगह्यागच्छ किमर्थं सोमपीतये सोमपानाय ॥ ३ ॥

5.51.4
अ॒यं सोम᳚श्च॒मू सु॒तो॑म᳚त्रे॒ परि᳚ षिच्यते ।
प्रि॒य इन्द्रा᳚य वा॒यवे᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒यम्् । सोमः᳚ । च॒मू इति᳚ । सु॒तः । अम᳚त्रे । परि᳚ । सि॒च्य॒ते॒ ।
प्रि॒यः । इन्द्रा᳚य । वा॒यवे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयंपुरतोवर्तमानः सोमः चमू चम्वोः अत्र्योः अभिषवणफलकयोः सुतः अभिषुतः सन् अमत्रे पात्रे परिषिच्यते पूर्यते सच इन्द्रायवा- यवेच प्रियः तं पातुं हेइन्द्रवायू आगच्छतमितिशेषः ॥ ४ ॥ वायवायाहीत्येषापृष्ठ्यस्यतृतीयेहनिप्रउगशस्त्रवायव्येतृचस्याद्या सूत्रितंच-वायवायाहिवीतयइत्येकावायोयाहिशिवादिव- इतिद्वेइति ।

5.51.5
वाय॒वा या᳚हि वी॒तये᳚ जुषा॒णो ह॒व्यदा᳚तये ।
पिबा᳚ सु॒तस्यान्ध᳚सो अ॒भि प्रयः᳚ ॥
▶ पदपाठः (Word-by-word)
वायो॒ इति᳚ । आ । या॒हि॒ । वी॒तये᳚ । जु॒षा॒णः । ह॒व्य॑दा᳚तये ।
पिब᳚ । सु॒तस्य᳚ । अन्ध᳚सः । अ॒भि । प्रयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवायो प्रयोन्नं सोमाख्यं अभि अभिलक्ष्य आयाहि वीतये भक्षणाय जुषाणः प्रीयमाणः हव्यदातये हविर्दात्रेयजमानाय तदर्थं आगत्य- च सुतस्यान्धसः अभिषुतमन्धोन्नं सोमलक्षणं पिब ॥ ५ ॥ पृष्ठ्यस्यतृतीयेहनिप्रउगशस्त्रेऎन्द्रवायवस्तृचः इन्द्रश्चेत्यादिकेद्वेऋचौशंसेत् तयोः प्रथमांद्वितीयांवा आवर्त्य तृचंसंपादयेत् तथाचसू- त्रितं-इन्द्रश्चवायवेषांसुतानामितिद्वयोरन्यतरांद्विरिति ।

5.51.6
इन्द्र᳚श्च वायवेषां सु॒तानां᳚ पी॒तिम᳚र्हथः ।
ताञ्जु᳚षेथामरे॒पसा᳚व॒भि प्रयः᳚ ॥
▶ पदपाठः (Word-by-word)
इन्द्रः᳚ । च॒ । वायो॒ इति᳚ । ए॒षा॒म् । सु॒ताना᳚म् । पी॒तिम् । अ॒र्ह॒थः॒ ।
तान् । जु॒षे॒था॒म् । अ॒रे॒पसौ । अ॒भि । प्रयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवायो त्वंचेन्द्रश्चैषां पुरतोगृहीतानां सुतानां अभिषुतानां सोमानां पीतिं पानमर्हथः यस्मादेवं तस्मात् तान् सोमरसान् जुषेथां सेवेथां अरेपसौ अहिंसकौ तदर्थं प्रयः सोमाख्यमन्नमभिलक्ष्यागच्छतमितिशेषः यद्वा प्रयोन्नरूपान् ॥ ६ ॥

5.51.7
सु॒ता इन्द्रा᳚य वा॒यवे॒ सोमा᳚सो॒ दध्या᳚शिरः ।
नि॒म्नं न य᳚न्ति॒ सिन्ध᳚वो॒॑भि प्रयः᳚ ॥
▶ पदपाठः (Word-by-word)
सु॒ताः । इन्द्रा᳚य । वा॒यवे᳚ । सोमा᳚सः । दधि᳚॑आशिरः ।
नि॒म्नम् । न । य॒न्ति॒ । सिन्ध᳚वः । अ॒भि । प्रयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रायवायवेच सोमासः सोमाः दध्याशिरः दध्याश्रयणाः सुताः अभिषुताः संपादिताः तेच निम्नंगर्तं सिन्धवोन नद्यइव हेइन्द्रवायू युवामभियन्ति प्रयोन्नरूपाः ॥ ७ ॥ तृतीयेहनिप्रउगशस्त्रेसजूर्विश्वेभिरितिवैश्वदेवस्तृचः सूत्रितंच-सजूर्विश्वेभिर्देवेभिरुतनः प्रियाप्रियास्विति ।

5.51.8 समानपद
स॒जूर्विश्वे᳚भिर्दे॒वेभि᳚र॒श्विभ्या᳚मु॒षसा᳚ स॒जूः ।
आ या᳚ह्यग्ने अत्रि॒वत्सु॒ते र᳚ण ॥
▶ पदपाठः (Word-by-word)
स॒॑जूः । विश्वे᳚भिः । दे॒वेभिः᳚ । अ॒श्वि॑भ्या᳚म् । उ॒षसा᳚ । स॒॑जूः ।
आ । या॒हि॒ । अ॒ग्ने॒ । अ॒त्रि॒॑वत् । सु॒ते । र॒ण॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने विश्वेभिः सर्वैः देवेभिः देवैः सजूः संगतः सन् अश्विभ्यांउषसाच सजूः समानप्रीतिः सन् आयाहि आगहि अत्रिवत् अत्रिरिव अत्रेर्यज्ञेयथातथेत्यर्थः यद्वा अत्रिर्यथायज्ञेरमतेतद्वत् सुते अभिषुतेसोमे रण रमस्व ॥ ८ ॥

5.51.9
स॒जूर्मि॒त्रावरु᳚णाभ्यां स॒जूः सोमे᳚न॒ विष्णु᳚ना ।
आ या᳚ह्यग्ने अत्रि॒वत्सु॒ते र᳚ण ॥
▶ पदपाठः (Word-by-word)
स॒॑जूः । मि॒त्रावरु᳚णाभ्याम् । स॒॑जूः । सोमे᳚न । विष्णु᳚ना ।
आ । या॒हि॒ । अ॒ग्ने॒ । अ॒त्रि॒॑वत् । सु॒ते । र॒ण॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उत्तरेद्वेनवमीदशम्यौस्पष्टे ॥ ९ ॥ १० ॥ पृष्ठ्यस्यषष्ठेहनिवैश्वदेवशस्त्रेस्वस्तिनइतितृचः सूत्रितंच-स्वस्तिनोमिमीतामश्विनाभगइतितृचइतिवैश्वदेवमिति । तथाबृहस्पति- सवेवैश्वदेवनिविद्धानार्थोयंतृचः स्वस्तिनोमिमीतामश्विनाभगइतिवैश्वदेवमितिसूत्रितत्वात् ।

5.51.10
स॒जूरा᳚दि॒त्यैर्वसु᳚भिः स॒जूरिन्द्रे᳚ण वा॒युना᳚ ।
आ या᳚ह्यग्ने अत्रि॒वत्सु॒ते र᳚ण ॥
▶ पदपाठः (Word-by-word)
स॒॑जूः । आ॒दि॒त्यैः । वसु᳚॑भिः । स॒॑जूः । इन्द्रे᳚ण । वा॒युना᳚ ।
आ । या॒हि॒ । अ॒ग्ने॒ । अ॒त्रि॒॑वत् । सु॒ते । र॒ण॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

5.51.11
स्व॒स्ति नो᳚ मिमीताम॒श्विना॒ भगः᳚ स्व॒स्ति दे॒व्यदि᳚तिरन॒र्वणः᳚ ।
स्व॒स्ति पू॒षा असु᳚रो दधातु नः स्व॒स्ति द्यावा᳚पृथि॒वी सु᳚चे॒तुना᳚ ॥
▶ पदपाठः (Word-by-word)
स्व॒स्ति । नः॒ । मि॒मी॒ता॒म् । अ॒श्विना᳚ । भगः᳚ । स्व॒स्ति । दे॒वी । अदि᳚तिः । अ॒न॒र्वणः᳚ ।
स्व॒स्ति । पू॒षा । असु᳚रः । द॒धा॒तु॒ । नः॒ । स्व॒स्ति । द्यावा᳚पृथि॒वी इति᳚ । सु॒॑चे॒तुना᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नोस्मभ्यं अश्विना अश्विनौ स्वस्ति अविनाशं क्षेमंमिमीतांकुरुतां भगश्चस्वस्तिक्षेमं मिमीतां तथा देव्यदितिश्च स्वस्तिमिमीतां अनर्वणः अप्रत्यृतः पूषा असुरः शत्रूणां निरसिता प्राणानां बलानांदातावा नःस्वस्तिदधातु नोस्मभ्यं द्यावापृथिवीद्यावापृथिव्यावपि सुचेतुना शोभनेनप्रज्ञानेन विशिष्टे स्वस्तिमिमीतां ॥ ११ ॥

5.51.12
स्व॒स्तये᳚ वा॒युमुप᳚ ब्रवामहै॒ सोमं᳚ स्व॒स्ति भुव᳚नस्य॒ यस्पति᳚ः ।
बृह॒स्पतिं॒ सर्व᳚गणं स्व॒स्तये᳚ स्व॒स्तय᳚ आदि॒त्यासो᳚ भवन्तु नः ॥
▶ पदपाठः (Word-by-word)
स्व॒स्तये᳚ । वा॒युम् । उप᳚ । ब्र॒वा॒म॒है॒ । सोम᳚म् । स्व॒स्ति । भुव᳚नस्य । यः । पतिः᳚ ।
बृह॒स्पति᳚म् । सर्व᳚॑गणम् । स्व॒स्तये᳚ । स्व॒स्तये᳚ । आ॒दि॒त्यासः᳚ । भ॒व॒न्तु॒ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्वस्तये क्षेमाय वायुमुपब्रवामहै स्तुमइत्यर्थः सोमंचोपब्रवामहै यश्चसोमोभुवनस्य पतिः पालकः सर्वलोकजीवनस्यसोमायतत्वात् तथा सर्वगणं सर्वदेवगणोपेतं बृहस्पतिं बृहतः कर्मणोमंत्रस्यवापालयितारं स्वस्तयेस्तुमः आदित्यासः आदित्याअदितेः पुत्राः सर्वेदेवाः अरुणादयोद्वादशवा नोस्माकं स्वस्तयेभवंतु ॥ १२ ॥ सत्रम्ध्येदीक्षितेव्याधितेसति तस्मिन्नहनि वैश्वदेवशस्त्रेयंतृचोनिविद्धानार्थः सूत्रितंच-स्वस्त्यात्रेयंनिविदंदध्यादिति । स्वस्त्यात्रेय- शब्देनायंतृचोविवक्षितइतितत्रव्याख्यातं तथारूपादिकेसत्ययंतृचोजप्यः ।

5.51.13 समानपद
विश्वे᳚ दे॒वा नो᳚ अ॒द्या स्व॒स्तये᳚ वैश्वान॒रो वसु᳚र॒ग्निः स्व॒स्तये᳚ ।
दे॒वा अ᳚वन्त्वृ॒भवः᳚ स्व॒स्तये᳚ स्व॒स्ति नो᳚ रु॒द्रः पा॒त्वंह᳚सः ॥
▶ पदपाठः (Word-by-word)
विश्वे᳚ । दे॒वाः । नः॒ । अ॒द्य । स्व॒स्तये᳚ । वै॒श्वा॒न॒रः । वसुः᳚ । अ॒ग्निः । स्व॒स्तये᳚ ।
दे॒वाः । अ॒व॒न्तु॒ । ऋ॒भवः᳚ । स्व॒स्तये᳚ । स्व॒स्ति । नः॒ । रु॒द्रः । पा॒तु॒ । अंह᳚सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वे सर्वेपिदेवानोस्मान् अद्यास्मिन्यागदिने स्वस्तये क्षेमायावन्तु वैश्वानरोविश्वएनंनरानयन्तीतिवैश्वानरः वसुः सर्वस्यवासयिता अग्निर्देवः अयमेवाग्निर्वैश्वानरइतिशाकपूणिरितियास्कः । सोपिस्वस्तयेवतु देवाःऋभवोपिस्वस्तयेवन्तु रुद्रोदुःखाद्रावयिता देवोपि अंहसः पापात् स्वस्तिपातुनोस्मान् ॥ १३ ॥

5.51.14
स्व॒स्ति मि᳚त्रावरुणा स्व॒स्ति प᳚थ्ये रेवति ।
स्व॒स्ति न॒ इन्द्र᳚श्चा॒ग्निश्च᳚ स्व॒स्ति नो᳚ अदिते कृधि ॥
▶ पदपाठः (Word-by-word)
स्व॒स्ति । मि॒त्रा॒व॒रु॒णा॒ । स्व॒स्ति । प॒थ्ये॒ । रे॒व॒ति॒ ।
स्व॒स्ति । नः॒ । इन्द्रः᳚ । च॒ । अ॒ग्निः । च॒ । स्व॒स्ति । नः॒ । अ॒दि॒ते॒ । कृ॒धि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमित्रावरुणा अहोरात्राभिमानिदेवौ स्वस्तिकुरुतं हेपथ्ये पथ्यास्वस्तिदेवि पन्थाअन्तरिक्षमार्गः तत्रहितामार्गः तत्रहितामार्गाभिमानि- नीदेवी हेतादृशि रेवति धनवति देविस्वस्ति कृधि इन्द्रश्चाग्निश्चप्रत्येकंनोस्मभ्यं स्वस्तिकृधि हेअदितेदेवि नः स्वस्तिकृधिकुरु ॥ १४ ॥

5.51.15
स्व॒स्ति पन्था॒मनु᳚ चरेम सूर्याचन्द्र॒मसा᳚विव ।
पुन॒र्दद॒ताघ्न᳚ता जान॒ता सं ग᳚मेमहि ॥
▶ पदपाठः (Word-by-word)
स्व॒स्ति । पन्था᳚म् । अनु᳚ । च॒रे॒म॒ । सू॒र्या॒च॒न्द्र॒मसौ᳚॑इव ।
पुनः᳚ । दद᳚ता । अघ्न᳚ता । जा॒न॒ता । सम् । ग॒मे॒म॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पन्थां पन्थानं स्वस्ति क्षेमेणानुचरेम सूर्याचन्द्रमसाविवतौ यथानिरालंबेमार्गे राक्षसादिभिरनुपद्रुतौसंचरतस्तद्वत् किंच वयं प्रवसन्तः पुनर्ददताभिमतं अघ्नता चिरकालविलंबकोपेनाहिंसता जानताअविस्मरतामदीयश्चिरकालंगतः कोयमितिसन्देहमकुर्वतामदी- योयमितिबुध्यमानेनेत्यर्थः उक्तलक्षणेन बन्धुजनेन संगमेहि यद्वा पूर्वार्धं प्रवसतांवाक्यं उत्तरार्धं बन्धूनां वयंबन्धवः ददताअभिमतमुपा- र्जितं यच्छता अघ्नता प्रयासकोपेन अहिंसताजानता सस्नेहमधिगच्छाता प्रवसता संगमेमहि ॥ १५ ॥

प्रश्यावाश्वेतिसप्तदशर्चमष्टमंसूक्तं अत्रेयमनुक्रमणिका-प्रश्यावाश्वत्र्यूनाश्यावाश्वोमारुतंहतत्पंक्तिः षष्ठ्यन्त्याचेति । आत्रेयःश्यावा- श्वऋषिः हतदितिप्रयोगादिदमादीनिदशसूक्तानि मरुद्देवत्यानि षष्ठीसप्तदशीचपंक्त्यौ शिष्टाः पंक्त्यंतपरिभाषयानुष्टुभः गतोविनियोगः ।