श्रवणम्

5.51.6
इन्द्र᳚श्च वायवेषां सु॒तानां᳚ पी॒तिम᳚र्हथः ।
ताञ्जु᳚षेथामरे॒पसा᳚व॒भि प्रयः᳚ ॥
▶ पदपाठः (Word-by-word)
इन्द्रः᳚ । च॒ । वायो॒ इति᳚ । ए॒षा॒म् । सु॒ताना᳚म् । पी॒तिम् । अ॒र्ह॒थः॒ ।
तान् । जु॒षे॒था॒म् । अ॒रे॒पसौ । अ॒भि । प्रयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवायो त्वंचेन्द्रश्चैषां पुरतोगृहीतानां सुतानां अभिषुतानां सोमानां पीतिं पानमर्हथः यस्मादेवं तस्मात् तान् सोमरसान् जुषेथां सेवेथां अरेपसौ अहिंसकौ तदर्थं प्रयः सोमाख्यमन्नमभिलक्ष्यागच्छतमितिशेषः यद्वा प्रयोन्नरूपान् ॥ ६ ॥