पञ्चमं मण्डलम् - सूक्तम् 61

19 ऋचः

ऋषिः: श्यावाश्व आत्रेयः देवता: मरुतः छन्दः: गायत्री

सूक्तम् 5.61 - सम्पूर्णम्

1 / 19
ऋक्: 5.61.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (19)
5.61.1
के ष्ठा᳚ नर॒ः श्रेष्ठ᳚तमा॒ य एक᳚एक आय॒य ।
प॒र॒मस्या᳚ः परा॒वतः᳚ ॥
▶ पदपाठः (Word-by-word)
के । स्थ॒ । न॒रः॒ । श्रेष्ठ᳚॑तमाः । ये । एकः᳚॑एकः । आ॒॑य॒य ।
प॒र॒मस्याः᳚ । प॒रा॒॑वतः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेनरोनेतारोमरुतः श्रेष्ठतमाः अत्यन्तंश्रेष्ठाः यूयं केष्ठ केस्थ केभवथ एवंस्वरूपानिश्चयात् संदिह्यब्रवीति येयूयं एकएकः प्रत्येकं आयय आगच्छथ कस्मादितिउच्यते परमस्याःपरावतः अत्यन्तदूरदेशात् अन्तरिक्षादित्यर्थः ॥ १ ॥

5.61.2
क्व१॒᳚ वो॑श्वा॒ः क्वा॒३॒᳚भीश᳚वः क॒थं शे᳚क क॒था य᳚य ।
पृ॒ष्ठे सदो᳚ न॒सोर्यमः᳚ ॥
▶ पदपाठः (Word-by-word)
क्व᳚ । वः॒ । अश्वाः᳚ । क्व᳚ । अ॒भीश᳚वः । क॒थम् । शे॒क॒ । क॒था । य॒य॒ ।
पृ॒ष्ठे । सदः᳚ । न॒सोः । यमः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतोवोयुष्मकंअश्वाः क्व कुत्रत्याः क्वचाभीशवोबन्धनरज्जवः कथंच शेक शीघ्रंगन्तुंशक्ताभवथ कथा कथं यय याताःस्थ पृष्ठे अश्वा- नांपृष्ठदेशेसदः सीदति तिष्ठेत्यत्रेतिसदः पर्याणं तत्रदृश्यते तथा नसोर्नासिकयोर्यमोनियमिता पलायनप्रतिबन्धकारीपशोर्नासिकयोर्दृश्यते तस्मादश्वादिलिंगैः कुत्रापित्वरितगमनाइव प्रतिभान्ति केयूयमितिदेवत्वमनवधार्याहा ॥ २ ॥

5.61.3
ज॒घने॒ चोद᳚ एषां॒ वि स॒क्थानि॒ नरो᳚ यमुः ।
पु॒त्र॒कृ॒थे न जन᳚यः ॥
▶ पदपाठः (Word-by-word)
ज॒घने᳚ । चोदः᳚ । ए॒षा॒म् । वि । स॒क्थानि᳚ । नरः᳚ । य॒मुः॒ ।
पु॒त्र॒॑कृ॒थे । न । जन᳚यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषामश्वानंजघने हन्तव्यप्रदेशे चोदःप्रेरिका कशा अराग्रकाष्ठविशेषोवा वर्तते शीघ्रगमनायताडयन्वर्ततइत्यर्थः सक्थानि ऊरुप्रदेशान् नरोनेतारोमरुतोवि विविच्ययमुः नियच्छन्ति आशुधावनेन विवृताभवन्तीत्यर्थः विवृतौदृष्टान्तः-पुत्रकृथे पुत्रकरणे उत्पादने जनयः अप- त्योत्पादयित्र्योयोषितइव तायथापुत्रोत्पादनकाले संगमसमये ऊरू विवृतौकुर्वन्तितद्वदित्यर्थः ॥ ३ ॥

5.61.4
परा᳚ वीरास एतन॒ मर्या᳚सो॒ भद्र᳚जानयः ।
अ॒ग्नि॒तपो॒ यथास᳚थ ॥
▶ पदपाठः (Word-by-word)
परा᳚ । वी॒रा॒सः॒ । इ॒त॒न॒ । मर्या᳚सः । भद्र᳚॑जानयः ।
अ॒ग्नि॒॑तपः᳚ । यथा᳚ । अस᳚थ ॥
▶ सायणभाष्यम् (Sayana Commentary)

कशाताडनादिलिंगेन जिगमिषून् मत्वाब्रूते-हेवीरासोवीराः अमित्राणामीरयितारः हेमर्यासोमर्त्येभ्योहिताः हेभद्रजानयः भद्रः स्तु- त्योजानिर्जन्मयेषांतेतथोक्ताः रुद्रपुत्राइत्यर्थः अग्नितपोग्निनातप्ताः ताम्रादयोयथादीप्ताः तद्वत्प्रदीप्ताः असथ भवथ अथवाग्नितप्तादग्धदे- हायथापलायन्तेतथाभवथेति ॥ ४ ॥

5.61.5
सन॒त्साश्व्यं᳚ प॒शुमु॒त गव्यं᳚ श॒ताव᳚यम् ।
श्या॒वाश्व᳚स्तुताय॒ या दोर्वी॒रायो᳚प॒बर्बृ᳚हत् ॥
▶ पदपाठः (Word-by-word)
सन᳚त् । सा । अश्व्य᳚म् । प॒शुम् । उ॒त । गव्य᳚म् । श॒त॑अ᳚वयम् ।
श्या॒वाश्व᳚॑स्तुताय । या । दोः । वी॒राय᳚ । उ॒प॒॑बर्बृ᳚हत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सातरन्तमहिषी मत्द्यंसनत् प्रादात् किं अश्व्यं अश्वात्मकं तत्समूहात्मकंवा पशुं जातावेकवचनं उतापिच गव्यं गोसमूहात्मकं पशुं शता- वयं अनेकैरविभिर्युक्तं सनदिति सेत्युक्तं केत्याह याश्यावाश्वस्तुताय श्यावाश्वेनमयास्तुतायवीराय तरन्ताय दोः स्वकीयंभुजं उपबर्बृहत् उपोदयच्छदालिंगनाय सासनदिति यतोभर्तृप्रेमास्पदा तस्मादेव बहुधनंदातुंशक्तेत्यर्थः ॥ ५ ॥

5.61.6
उ॒त त्वा॒ स्त्री शशी᳚यसी पुं॒सो भ᳚वति॒ वस्य᳚सी ।
अदे᳚वत्रादरा॒धसः᳚ ॥
▶ पदपाठः (Word-by-word)
उ॒त । त्वा॒ । स्त्री । शशी᳚यसी । पुं॒सः । भ॒व॒ति॒ । वस्य᳚सी ।
अदे᳚व॑त्रात् । अ॒रा॒धसः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापिच त्वा एका शशीयसी शशीयसीतिएतन्महिष्यानाम सैवस्त्री यद्वा उतेत्ययमेवकारार्थे स्त्रीषुसैवप्रशस्येत्यर्थः त्वसमसिमनेमे- त्यनुच्चानीतिवचनात् त्वेतिनिघातः सैवपुंसःपुरुषाद्वस्यसी वसीयसी भवति कस्मात्पुंसइत्युच्यते अदेवत्रात् देवान येनत्रायन्तेस्तुत्यादि- नासः अदेवत्रः तस्मादराधसः राधोधनं दानार्हधनरहिताल्लुब्धकादित्यर्थः ॥ ६ ॥

5.61.7
वि या जा॒नाति॒ जसु᳚रिं॒ वि तृष्य᳚न्तं॒ वि का॒मिन᳚म् ।
दे॒व॒त्रा कृ᳚णु॒ते मनः᳚ ॥
▶ पदपाठः (Word-by-word)
वि । या । जा॒नाति᳚ । जसु᳚रिम् । वि । तृष्य᳚न्तम् । वि । का॒मिन᳚म् ।
दे॒व॒॑त्रा । कृ॒णु॒ते । मनः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

याशशीयसी जसुरिं व्यथितं जसिस्ताडनकर्मा उपक्षेपणकर्मावा तंविजानाति तथातृष्यन्तं विजानाति कामिनं धनाद्यभिलाषवन्तं विजानाति अनुकंपयाभिमतं दत्तवतीत्यर्थः देवत्रा मनः कृणुते कुरुते देवप्रीत्यर्थंप्रदानबुद्धिंकरोतियासैवस्त्रीतिपूर्वत्रसंबन्धः ॥ ७ ॥

5.61.8
उ॒त घा॒ नेमो॒ अस्तु᳚त॒ः पुमा{4}॒ इति᳚ ब्रुवे प॒णिः ।
स वैर᳚देय॒ इत्स॒मः ॥
▶ पदपाठः (Word-by-word)
उ॒त । घ॒ । नेमः᳚ । अस्तु᳚तः । पुमा᳚न् । इति᳚ । ब्रु॒वे॒ । प॒णिः ।
सः । वैर᳚॑देये । इत् । स॒मः ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतघापिच घेतिपूरणः नेमः त्वोनेमइत्यर्धस्येतिनिरुक्तम् । नेमःअर्धःजायापत्योर्मिलित्वैककार्यकर्तृत्वादेकएवपदार्थःअर्धशरीरस्यभार्ये- त्यादिस्मृतेः शशीयस्याअर्धभूतस्तरन्तः पुमान् अस्तुतइतिब्रुवे बहुधा स्तुतोपिगुणस्यातिबाहुल्यादस्तुतएवेतिब्रुवे पणिः स्तोताहं सच तरन्तोवैरदेये वीराधनानांप्रेरयितारोदानशीलाः तैर्दातव्यंधनंदेयं तस्मिन्धने समः सर्वेभ्योदातेत्यर्थः इदितिपूरणः ॥ ८ ॥

5.61.9
उ॒त मे᳚॑रपद्युव॒तिर्म᳚म॒न्दुषी॒ प्रति᳚ श्या॒वाय᳚ वर्त॒निम् ।
वि रोहि᳚ता पुरुमी॒ळ्हाय᳚ येमतु॒र्विप्रा᳚य दी॒र्घय᳚शसे ॥
▶ पदपाठः (Word-by-word)
उ॒त । मे॒ । अ॒र॒प॒त् । यु॒व॒तिः । म॒म॒न्दुषी᳚ । प्रति᳚ । श्या॒वाय᳚ । व॒र्त॒निम् ।
वि । रोहि᳚ता । पु॒रु॒॑मी॒ळ्हाय᳚ । ये॒म॒तुः॒ । विप्रा᳚य । दी॒र्घ॑य᳚शसे ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापिच श्यावाय श्यावाश्वाय मह्यं अरपत् अलपत् स्पष्टमाचष्ट किं वर्तनिंमार्गं कीदृशीसायुवतिः प्रवृत्तयौवना प्रतिममन्दुषीप्रति- मोदमाना क्स्मै दीर्घयशसे प्रभूतान्नाय प्रभूतकीर्तयेवा पुरुमीह्ळायैतन्नामकाय प्रभूतगृहाय क्रियार्थोपपदस्यचकर्मणिस्थानिनइतिचतुर्थी पुरुमीह्ळंप्राप्तुमित्यर्थः तदर्थंरोहितारोहितवर्णावश्वौशशीयस्यादत्तौ वियेमतुः विशेषेणयमयतुः धृतवन्तावित्यर्थः यःअशाभ्यांयुक्तेरथे स्थापयित्वा पुरुमीह्ळगृहस्यमार्गं प्रदर्शयन्ती पुरतोगता सैवपुंसोभवति वस्यसीतिपूर्वत्रसंबन्धः ॥ ९ ॥

5.61.10
यो मे᳚ धेनू॒नां श॒तं वैद᳚दश्वि॒र्यथा॒ दद᳚त् ।
त॒र॒न्त इ᳚व मं॒हना᳚ ॥
▶ पदपाठः (Word-by-word)
यः । मे॒ । धे॒नू॒नाम् । श॒तम् । वैद᳚त्॑अश्विः । यथा᳚ । दद᳚त् ।
त॒र॒न्तः॑इ᳚व । मं॒हना᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इयंपुरुमीह्ळस्तुतिः वैददश्विः पुरुमीह्ळोपियः मे मह्यं धेनूनांशतं यथा येनप्रकारेण ददत् दत्तवान् तथा मंहना मंहनीयानिधनान्यपि ददत् तरन्तइव सयथा धेनुशतंबहुविधंधनंचदत्तवान् तद्वद्वैददश्विःपुरुमीह्ळोपिददत् तंस्तुवइतिशेषः ॥ १० ॥

5.61.11
य ईं॒ वह᳚न्त आ॒शुभि॒ः पिब᳚न्तो मदि॒रं मधु᳚ ।
अत्र॒ श्रवां᳚सि दधिरे ॥
▶ पदपाठः (Word-by-word)
ये । ई॒म् । वह᳚न्ते । आ॒शु॑भिः᳚ । पिब᳚न्तः । म॒दि॒रम् । मधु᳚ ।
अत्र᳚ । श्रवां᳚सि । द॒धि॒रे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इदानींमरुतएवैतइतिनिश्चित्य जनप्रसिद्धैर्माहात्म्यैः स्तौति-येमरुतईं इदानीं आशुभिः शीघ्रगामिभिरश्वैः वहन्ते उह्यन्ते किंकुर्वन्तः मदिरं मदकरं मधु सोमरसंपिबन्तः पाथेयत्वेन धृतंसोममित्यर्थः तेमरुतोत्रास्मिन्देशे श्रवांसि स्तुतिजनितानियशांसि दधिरे धारयन्ति ॥ ११ ॥

5.61.12
येषां᳚ श्रि॒याधि॒ रोद᳚सी वि॒भ्राज᳚न्ते॒ रथे॒ष्वा ।
दि॒वि रु॒क्म इ᳚वो॒परि᳚ ॥
▶ पदपाठः (Word-by-word)
येषा᳚म् । श्रि॒या । अधि᳚ । रोद᳚सी॒ इति᳚ । वि॒॑भ्राज᳚न्ते । रथे᳚षु । आ ।
दि॒वि । रु॒क्मः॑इ᳚व । उ॒परि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

येषांमरुतां श्रिया कांत्या रोदसी द्यावापृथिव्यावधि अधिष्ठिते भवतइतिशेषः यस्मादेतेमरुतोरथेषु विभ्राजन्ते विशेषेणदीप्यन्ते आ- इतिचार्थे तत्रदृष्टान्तः-उपरि उपरिभूतेदिविद्युलोके रुक्मोरोचमानआदित्यइव यद्वा उपरि रथस्योपरीतिवायोज्यम् ॥ १२ ॥

5.61.13
युवा॒ स मारु᳚तो ग॒णस्त्वे॒षर᳚थो॒ अने᳚द्यः ।
शु॒भं॒यावाप्र᳚तिष्कुतः ॥
▶ पदपाठः (Word-by-word)
युवा᳚ । सः । मारु᳚तः । ग॒णः । त्वे॒ष॑र᳚थः । अने᳚द्यः ।
शु॒भ॒म्॑यावा᳚ । अप्र᳚ति॑स्कुतः ॥
▶ सायणभाष्यम् (Sayana Commentary)

समारुतोगणोयुवा सर्वत्रश्रयिता नित्यतरुणोवा त्वेषरथोदीप्तरथः अनेद्यः अनिन्द्यः शुभंयावा शोभनंगन्ता अप्रतिष्कुतः अप्रतिगतः अप्रतिशब्दितोवा एवंमहानुभावोगणोदीप्यतइति ॥ १३ ॥

5.61.14
को वे᳚द नू॒नमे᳚षां॒ यत्रा॒ मद᳚न्ति॒ धूत᳚यः ।
ऋ॒तजा᳚ता अरे॒पसः᳚ ॥
▶ पदपाठः (Word-by-word)
कः । वे॒द॒ । नू॒नम् । ए॒षा॒म् । यत्र᳚ । मद᳚न्ति । धूत᳚यः ।
ऋ॒त॑जा᳚ताः । अ॒रे॒पसः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषांमरुतांस्थानं कोवेद कोजानाति नूनं इदानीं यत्रस्थाने धूतयः शत्रूणांकंपका मदन्ति हृष्यन्ति ऋतजाताः जलार्थमुप्तन्नाः यज्ञेवा- प्रादुर्भूताः अरेपसः अपापाः ॥ १४ ॥

5.61.15
यू॒यं मर्तं᳚ विपन्यवः प्रणे॒तार᳚ इ॒त्था धि॒या ।
श्रोता᳚रो॒ याम᳚हूतिषु ॥
▶ पदपाठः (Word-by-word)
यू॒यम् । मर्त᳚म् । वि॒प॒न्य॒वः॒ । प्र॒॑ने॒तारः᳚ । इ॒त्था । धि॒या ।
श्रोता᳚रः । याम᳚॑हूतिषु ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेविपन्यवः स्तुतिकामामरुतोयूयं मर्तं मरणस्वभावं यजमानं इत्था अनयाधिया इदानींकृतप्रकारया अनुग्रहबुद्भ्या ईदृशेनस्तुतिकर्म- णावा निमित्तेनप्रणेतारः प्रकर्षेणप्रापयितारोभिमतंस्वर्गादिकं यामहूतिषु यामोगमनं तदर्थाहूतयोयस्मिन्नितियामहूतयोयज्ञाः तेषु श्रोतारःआह्वानानां ॥ १५ ॥

5.61.16
ते नो॒ वसू᳚नि॒ काम्या᳚ पुरुश्च॒न्द्रा रि᳚शादसः ।
आ य᳚ज्ञियासो ववृत्तन ॥
▶ पदपाठः (Word-by-word)
ते । नः॒ । वसू᳚नि । काम्या᳚ । पु॒रु॒॑च॒न्द्राः । रि॒शा॒द॒सः॒ ।
आ । य॒ज्ञि॒या॒सः॒ । व॒वृ॒त्त॒न॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेरिशादसः हिंसकानांशत्रूणामत्तारः हेयज्ञियासोयज्ञार्हाः पुरुश्चन्द्राः प्रभूताह्लादकधनाः तेयूयं नोस्मभ्यं वसूनि निवासयोग्यानिध- नानि काम्या स्पृहणीयानि आववृत्तन आवर्तयथेत्यर्थः मरुतांदानप्रशंसायाअपेक्षितत्वान्नप्रार्थनोचिता ॥ १६ ॥

5.61.17
ए॒तं मे॒ स्तोम᳚मूर्म्ये दा॒र्भ्याय॒ परा᳚ वह ।
गिरो᳚ देवि र॒थीरि᳚व ॥
▶ पदपाठः (Word-by-word)
ए॒तम् । मे॒ । स्तोम᳚म् । ऊ॒र्म्ये॒ । दा॒र्भ्याय᳚ । परा᳚ । व॒ह॒ ।
गिरः᳚ । दे॒वि॒ । र॒थीः॑इ᳚व ॥
▶ सायणभाष्यम् (Sayana Commentary)

संपन्नऋषिभावस्यश्यावाश्वस्यार्चनानसः ॥ रथवीतिसुतायाश्चविवाहंशौनकोब्रवीत् ॥ १ ॥ कथं—मरुत्सुतुप्रयातेषुश्यावाश्वःसुमहाय- शाः ॥ प्रादुर्भूतार्षमात्मानंज्ञात्वात्रिकुलनंदनः ॥ २ ॥ रथवीतेर्दुहितरमगच्छन्मनसातदा ॥ स्सत्यमृषिमात्मानंप्रवक्ष्यन्त्रथवीतये ॥ ३ ॥ एतंमेस्तोममित्याभ्यांदौत्येरात्रिंन्यवेदयत् ॥ ऋषेर्नियोगमाज्ञायदेव्यारात्र्याप्रचोदितः ॥ ४ ॥ आदायकन्यकांदातुमुपेयायार्चनानसं ॥ पा- दौतस्योपसंगृह्यस्थित्वाप्रह्वःकृतांजलिः ॥ ५ ॥ रथवीतिरहंदार्भ्यइतिनामशशंससः ॥ मयासंयोगमिच्छान्तंत्वांप्रत्याचक्षियत्पुरा ॥ ६ ॥ तत्क्षमस्वनमस्तेस्तुमेमास्मभगवन् क्रुधीः ॥ ऋषेः पुत्रः स्वयमृषिः पितासिभगवानृषेः ॥ ७ ॥ हंतप्रतिगृहाणेमांस्नुषामित्येनमब्रवीत् ॥ तस्मैददावश्वशतंसराजास्वलंकृतांचापिसुतांस्नुषार्थं ॥ विवाहकालेपिददौनरेन्द्रः शतंहयानांदुहितुःसहस्रं ॥ गवांसहस्रंवसुचप्रभूतंतप्तुंतपो- न्तेथवनंजगामेति ॥ हेऊर्म्ये रात्रिदेवि ऊर्म्येतिरात्रिनाम मेमदीयं एतं स्तोमं मरुद्भ्यः कृतंस्तोत्रं अहंमंत्रदृक् भूत्वा मरुतः स्तुतवानित्येवं दार्भ्याय श्यावाश्वाय परा पराङ्मुखी दार्भ्याभिमुखीसतीवह प्रापयेत्यर्थः तदेवादरार्थमुच्यते हेरात्रिदेवि गिरः स्तुतीः मरुद्विषयाः परा- वह रथीरिव रथीयथारथेभिप्रेतं वसु स्थापयित्वाभिमतप्रदेशंप्रापयतितद्वत् ॥ १७ ॥

5.61.18
उ॒त मे᳚ वोचता॒दिति᳚ सु॒तसो᳚मे॒ रथ᳚वीतौ ।
न कामो॒ अप᳚ वेति मे ॥
▶ पदपाठः (Word-by-word)
उ॒त । मे॒ । वो॒च॒ता॒त् । इति᳚ । सु॒त॑सो᳚मे । रथ᳚॑वीतौ ।
न । कामः᳚ । अप᳚ । वे॒ति॒ । मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेऊर्म्ये उतापिच मे मां वोचतात् ब्रूहि किमिति उच्यते इति इत्थं कथमिति सुतसोमे कृतसोमयागे रथवीतौ राज्ञि मेकामः तत्पुत्री- विषयोनापवेति नापगच्छति नविरमत इतीत्थं वोचतात् ॥ १८ ॥

5.61.19
ए॒ष क्षे᳚ति॒ रथ᳚वीतिर्म॒घवा॒ गोम᳚ती॒रनु᳚ ।
पर्व᳚ते॒ष्वप᳚श्रितः ॥
▶ पदपाठः (Word-by-word)
ए॒षः । क्षे॒ति॒ । रथ᳚॑वीतिः । म॒घ॑वा᳚ । गो॑म᳚तीः । अनु᳚ ।
पर्व᳚तेषु । अप᳚॑श्रितः ॥
▶ सायणभाष्यम् (Sayana Commentary)

कन्यांदत्वाकृतार्थंतंश्यावाश्वोथवनंगतं ॥ रथवीतिंतपस्यन्तंसंप्रेक्ष्यार्षेणचक्षुषा ॥ रम्येहिमवतः पृष्ठेएषक्षेतीतिसोब्रवीत् ॥ एषरथवी- तिर्मघवा धनवान् गोमतीरनु उदकवतीर्नदीरनु अनुसृत्य नदीनांतीरे क्षेति निवसति पर्वतेषु हिमवत्पर्वतप्रान्तेषु अपश्रितः आश्रितः ॥ १९ ॥

ऋतेनऋतमितिनवर्चंषष्ठंसूक्तं आत्रेयस्यश्रुतविदआर्षं त्रैष्टुभं मैत्रावरुणं तथाचानुक्रम्यते—ऋतेननवश्रुतविन्मैत्रावरुणंवैतदिति । वैतदित्युभयोःप्रयोगात् तुह्यादिपरिभाषया एतदादीन्येकादशसूक्तानिमित्रावरुणदेवत्यानि विनियोगोलैंगिकः ।