पञ्चमं मण्डलम् - सूक्तम् 12

6 ऋचः

ऋषिः: सुतंभर आत्रेयः देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 5.12 - सम्पूर्णम्

1 / 6
ऋक्: 5.12.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
5.12.1
प्राग्नये᳚ बृह॒ते य॒ज्ञिया᳚य ऋ॒तस्य॒ वृष्णे॒ असु᳚राय॒ मन्म᳚ ।
घृ॒तं न य॒ज्ञ आ॒स्ये॒३॒᳚ सुपू᳚तं॒ गिरं᳚ भरे वृष॒भाय᳚ प्रती॒चीम् ॥
▶ पदपाठः (Word-by-word)
प्र । अ॒ग्नये᳚ । बृ॒ह॒ते । य॒ज्ञिया᳚य । ऋ॒तस्य᳚ । वृष्णे᳚ । असु᳚राय । मन्म᳚ ।
घृ॒तम् । न । य॒ज्ञे । आ॒स्ये᳚ । सु॑पू᳚तम् । गिर᳚म् । भ॒रे॒ । वृ॒ष॒भाय᳚ । प्र॒ती॒चीम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

बृहते सामर्थ्यातिशयेनमहते यज्ञियाय यज्ञार्हाय ऋतस्योदकस्य वृष्णेवर्षित्रे ऋतमित्युदकनामसुपाठात् असुरायबलवते असेरौणादिकउरन् प्रत्ययः वृषभाय कामानावर्षित्रे मन्म ज्ञानसाधनं प्रतीचीं अभिमुखींगिरं स्तुतिरूपांवाचं प्रभरे प्रणयामि कथमिव सुपूतं सम्यक्संस्कृतमास्येप्रहुतं यज्ञेघृतंन घृतमिव आस्येप्रहुतंघृतंयथाप्रीतिकरंभवति तथा प्रीतिकरींस्तुतिमित्यार्थः ॥ १ ॥

5.12.2 समानपद
ऋ॒तं चि᳚कित्व ऋ॒तमिच्चि᳚किद्ध्यृ॒तस्य॒ धारा॒ अनु᳚ तृन्धि पू॒र्वीः ।
नाहं या॒तुं सह᳚सा॒ न द्व॒येन᳚ ऋ॒तं स᳚पाम्यरु॒षस्य॒ वृष्ण᳚ः ॥
▶ पदपाठः (Word-by-word)
ऋ॒तम् । चि॒कि॒त्वः॒ । ऋ॒तम् । इत् । चि॒कि॒द्धि॒ । ऋ॒तस्य᳚ । धाराः᳚ । अनु᳚ । तृ॒न्धि॒ । पू॒र्वीः ।
न । अ॒हम् । या॒तुम् । सह᳚सा । न । द्व॒येन᳚ । ऋ॒तम् । स॒पा॒मि॒ । अ॒रु॒षस्य᳚ । वृष्णः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋतं स्तोत्रं हेचिकित्वः जानन् अग्ने त्वं ऋतं मयाक्रियमाणमिदंस्तोत्रंचिकिद्धि जानीहि कितज्ञाने जुहोत्यादिः लोटिरूपं इदितिपूरणः ऋतमितिपदस्य परस्मिन्नामंत्रितेविद्यमानेपिछांदसत्वात्परांगवद्भावाभावः किंच पूर्वीः बह्वीः ऋतस्योदकस्यधाराः तस्यपोषणार्थं उत्पादयितुं अनुतृन्धि मेघाननुविध्य पातय सहसाबलेनयुक्तोहं यातुं कर्मणांनाशकरीं हिंसां नसपामि नस्पृशामि नकरोमीतियावत् द्वयेनच सत्यानृताभ्यांयत्किंचिदवैदिकंकृत्यं नसपामि षपसमवायेइतिधातुः किंतु अरुषस्यारोचमानस्यवृष्णः कामानांवर्षितुः तव ऋतंस्तोत्रमेवसपामि ॥ २ ॥

5.12.3
कया᳚ नो अग्न ऋ॒तय᳚न्नृ॒तेन॒ भुवो॒ नवे᳚दा उ॒चथ᳚स्य॒ नव्य᳚ः ।
वेदा᳚ मे दे॒व ऋ᳚तु॒पा ऋ᳚तू॒नां नाहं पतिं᳚ सनि॒तुर॒स्य रा॒यः ॥
▶ पदपाठः (Word-by-word)
कया᳚ । नः॒ । अ॒ग्ने॒ । ऋ॒तय᳚न् । ऋ॒तेन᳚ । भुवः᳚ । नवे᳚दाः । उ॒चथ᳚स्य । नव्यः᳚ ।
वेद᳚ । मे॒ । दे॒वः । ऋ॒तु॒॑पाः । ऋ॒तू॒नाम् । न । अ॒हम् । पति᳚म् । स॒नि॒तुः । अ॒स्य । रा॒यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने ऋतयन् सर्वप्राणिनांजीवनहेतुकमुदकंकुर्वन् त्वं कया केनापिऋतेन सत्येनक्रियमाणेनकर्मणा न उचथस्य अस्मदीयस्यस्तोत्रस्यनवेदाः ज्ञाताभुवः भवेः नव्यःस्तुत्यः ऋतुनां ऋतुपाः वसन्तादीनांप्र्सह्यपालकः द्वितीयऋतुशब्दोनुवादकः दिवोद्योतमानोग्निः मे मां वेद वेत्तु सनितुर्भजमानस्यास्य मम रायः पश्वादिलक्षणस्यपतिं स्वामिनं तमग्निमहंनजानामि ॥ भुवः भूसत्तायां लिङर्थेलेट्यडागमः उवङादेशः । नवेदाः ननवेत्तीतिवेत्तीत्यस्मिन्नर्थेवर्तते कथमेतल्लभ्यते निपातनात् द्विनञ् पूर्वस्यासुन्प्रत्ययान्तस्यवेदेरेकस्यनञोलोपोअन्यस्यप्रकृतिभावश्चस्कंदस्वामिनानिपातितः पाणिनिनातु नभ्राण्नपादितिसूत्रे नवेत्तीत्येतस्मिन्नर्थेनिपातितः अस्यार्थस्यानुपपन्नत्वात् स्कन्दस्वामिपक्षएवाश्रियते ॥ ३ ॥

5.12.4
के ते᳚ अग्ने रि॒पवे॒ बन्ध᳚नास॒ः के पा॒यवः᳚ सनिषन्त द्यु॒मन्त᳚ः ।
के धा॒सिम᳚ग्ने॒ अनृ᳚तस्य पान्ति॒ क आस᳚तो॒ वच᳚सः सन्ति गो॒पाः ॥
▶ पदपाठः (Word-by-word)
के । ते॒ । अ॒ग्ने॒ । रि॒पवे᳚ । बन्ध᳚नासः । के । पा॒यवः᳚ । स॒नि॒ष॒न्त॒ । द्यु॒॑मन्तः᳚ ।
के । धा॒सिम् । अ॒ग्ने॒ । अनृ᳚तस्य । पा॒न्ति॒ । के । अस᳚तः । वच᳚सः । स॒न्ति॒ । गो॒पाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने येरिपवे स्वकीयस्यशत्रोःबंधनासोबन्धकाः स्युः तेत्वत्संबन्धिनस्तेपुरुषाः के कीद्रुशाः सामर्थ्यातिशयदेवंविधाइतिकेना पिज्ञातुं -नशक्यन्तइत्यर्थः येपायवोजनानांरक्षितारः द्युमन्तोदीप्तिमन्तः सनिषन्त दीनेभ्योधनंप्रयच्छन्ति त्वदीयाः के कीदृशाः ये अनृतस्या -सत्यस्यधासिं धारकं जनं पान्तिरक्षन्ति ते त्वदीयाजनाः केसन्ति नकेपीत्यर्थः येअसतोदुष्टस्यअभिशापादिलक्षणस्यवचसोगोपाः गोपायितारोरक्षितारः तेत्वदीयाः केसन्ति नकेपीत्यर्थः अथवा येकेजनाः रिपोर्बन्धकाः येकेपायवोरक्षितारः सनिषन्त धनं प्रयच्छन्ति द्युमन्तः येकेअनृतस्यासत्यस्यधासिं धारकं जनं पान्ति अनृतजनितपापात् परिहृत्यसन्मार्गप्रदानेनरक्षन्ति येकेअसतः अभिशापादिलक्षणात् वचसोगोपाः गोपायितारःसन्ति तेसर्वेत्वदीयाः त्वदुपासकाः इत्यर्थः ॥ ४ ॥

5.12.5
सखा᳚यस्ते॒ विषु᳚णा अग्न ए॒ते शि॒वास॒ः सन्तो॒ अशि᳚वा अभूवन् ।
अधू᳚र्षत स्व॒यमे॒ते वचो᳚भिरृजूय॒ते वृ᳚जि॒नानि᳚ ब्रु॒वन्त᳚ः ॥
▶ पदपाठः (Word-by-word)
सखा᳚यः । ते॒ । विषु᳚णाः । अ॒ग्ने॒ । ए॒ते । शि॒वासः᳚ । सन्तः᳚ । अशि᳚वाः । अ॒भू॒व॒न् ।
अधू᳚र्षत । स्व॒यम् । ए॒ते । वचः᳚॑भिः । ऋ॒जु॒॑य॒ते । वृ॒जि॒नानि᳚ । ब्रु॒वन्तः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने तेसखायः स्तोतारोविषुणाः विप्रकीर्णाः सर्वत्रव्याप्ताः एतेपूर्वमशिवाः परनिन्दादिकुर्वाणाः त्वत्परिचर्यांत्यजन्तोभद्राःसन्तः इदानींत्वत्परिचर्यांकुर्वन्तः शिवासः शिवाः आढ्याः अभूवन् किंच येऋजूयते ऋजुसम्यगाचरतेपि मह्यंवचोभिः असाधूक्तिभिः वृजिनानि कुटिलानि ब्रुवन्तः तएतेममसपत्नाः स्वयमेववाधूर्षत अहिंस्यंत धूर्वतेर्हिंसाकर्मणइदंरूपम् ॥ ५ ॥

5.12.6
यस्ते᳚ अग्ने॒ नम᳚सा य॒ज्ञमीट्ट᳚ ऋ॒तं स पा᳚त्यरु॒षस्य॒ वृष्ण᳚ः ।
तस्य॒ क्षयः᳚ पृ॒थुरा सा॒धुरे᳚तु प्र॒सर्स्रा᳚णस्य॒ नहु᳚षस्य॒ शेषः᳚ ॥
▶ पदपाठः (Word-by-word)
यः । ते॒ । अ॒ग्ने॒ । नम᳚सा । य॒ज्ञम् । ईट्टे᳚ । ऋ॒तम् । सः । पा॒ति॒ । अ॒रु॒षस्य᳚ । वृष्णः᳚ ।
तस्य᳚ । क्षयः᳚ । पृ॒थुः । आ । सा॒धुः । ए॒तु॒ । प्र॒॑सर्स्रा᳚णस्य । नहु᳚षस्य । शेषः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने योमनुष्यः यज्ञं यजनीयं ते त्वां नमसा स्तोत्रेण ईट्टे स्तौति यद्वा तेतुभ्यं यज्ञं यागं नमसा अन्नरूपेण हविषाईट्टेयजति अस्मिन्पक्षे यजेर्बहुलंछन्दसीतिशपःश्लुः श्लाविति द्विर्वचनं बहुलंछन्दसीतिसंप्रसारणं सवर्णदीर्घः जकारस्यटकारः सः अरुपस्यरोचमानस्य वृष्णः कामानांवर्षितुरग्नेः ऋतं स्तोत्रं पाति रक्षति तस्य यजमानस्य क्षयोगृहं पृथुविस्तीर्णंभवति पश्वादिलक्षणैर्धनैःसंपूर्णंभवतीत्यर्थः प्रसर्स्राणस्य प्रकर्षेणपरिचर्यांगच्छतः नहुषस्य मनुष्यस्य साधुः कामानांसाधकः शेषः शिष्यतइतिशेषःपुत्रः एतुआगच्छतु भवत्वित्यर्थः ॥ ६ ॥

अर्चन्तस्त्वेतिषळृचंत्रयोदशंसूक्तं सुतंभरस्यार्षं गायत्रमाग्नेयं अनुक्रान्तंच-अर्चन्तोगायत्रंत्विति-प्रातरनुवाकाग्नेयेक्रतौगायत्रेछन्दसि आश्विनशस्त्रेइदमादिकेद्वेसूक्ते सूत्रितंच्-अर्चन्तस्त्वेतिसूक्तेइति । आहवनीयोपस्थानेत्वमग्नेसप्रथाअसीत्येका सूत्रितंच-संनः सृजसुमत्यावाजवत्यात्वमग्नेसप्रथाअसीतिचेति । अश्वमेधेपौष्णेष्टौ त्वमग्नेसप्रथाइतिप्रथमाज्यभागानुवाक्या त्वमग्नेसप्रथाअसिसोमया -स्तेमयोभुवःसद्वन्ताविति ।