वरु᳚ण॒ मित्रार्य᳚म॒न्वर्षि᳚ष्ठं क्ष॒त्रमा᳚शाथे ॥
पदपाठः (Word-by-word)
वरु᳚ण । मित्र᳚ । अर्य᳚मन् । वर्षि᳚ष्ठम् । क्ष॒त्रम् । आ॒शा॒थे॒ इति᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेदेवा द्योतमानौ हेआदित्या अदितेःपुत्रौ हेवरुण हेअर्यमन् अरीणांनियमितर्मित्रदेव युवां बट् सत्यं अबाध्यं इत्था इत्थं इदानीं वर्त- मानप्रकारेण यजतं यष्टव्यं बृह्दतिप्रवृद्धं वर्षिष्ठं प्रवृद्धतमं क्षत्रं बलं आशाथे अश्नुवाथे यद्वा अर्यमा पृथगेव निर्देष्टव्यः द्विवचनं बहुवचनी- कर्तव्यम् ॥ १ ॥