श्रवणम्

5.67.2
आ यद्योनिं᳚ हिर॒ण्ययं॒ वरु᳚ण॒ मित्र॒ सद᳚थः ।
ध॒र्तारा᳚ चर्षणी॒नां य॒न्तं सु॒म्नं रि᳚शादसा ॥
▶ पदपाठः (Word-by-word)
आ । यत् । योनि᳚म् । हि॒र॒ण्यय᳚म् । वरु᳚ण । मित्र᳚ । सद᳚थः ।
ध॒र्तारा᳚ । च॒र्ष॒णी॒नाम् । य॒न्तम् । सु॒म्नम् । रि॒शा॒द॒सा॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्यस्माद्धिरण्ययं हितरमणीयं योनिं यज्ञभूमिं हेवरुण हेमित्र आसदथः आगच्छथः तस्माच्चर्षणीनां मनुष्याणां धर्तारा धारकौच हेरिशादसा हिंसकानांक्षेप्तारौयुवां अस्मभ्यं सुम्नं सुखं यन्तं कुरुतमित्यर्थः ॥ २ ॥