पञ्चमं मण्डलम् - सूक्तम् 20

4 ऋचः

ऋषिः: प्रयस्वंत आत्रेयाः देवता: अग्निः छन्दः: अनुष्टुप्

सूक्तम् 5.20 - सम्पूर्णम्

1 / 4
ऋक्: 5.20.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (4)
5.20.1 समानपद
यम᳚ग्ने वाजसातम॒ त्वं चि॒न्मन्य᳚से र॒यिम् ।
तं नो᳚ गी॒र्भिः श्र॒वाय्यं᳚ देव॒त्रा प᳚नया॒ युज᳚म् ॥
▶ पदपाठः (Word-by-word)
यम् । अ॒ग्ने॒ । वा॒ज॒॑सा॒त॒म॒ । त्वम् । चि॒त् । मन्य᳚से । र॒यिम् ।
तम् । नः॒ । गीः॒॑भिः । श्र॒वाय्य᳚म् । दे॒व॒॑त्रा । प॒न॒य॒ । युज᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने हेवाजसातम अत्यन्तमन्नद त्वं यं रयिं धनं अस्माभिर्दीयमानं हवीरूपंधनं मन्यसेबुध्यसे चिदितिपादपूरणः श्रवाय्यंश्रवणीयं प्रशस्यं गीर्भिःस्तुतिभिः युजं युक्तं नोस्मदीयंहविर्लक्षणंधनं तं देवत्रा देवेषु पनय प्रापयेत्यर्थः ॥ १ ॥

5.20.2
ये अ᳚ग्ने॒ नेरय᳚न्ति ते वृ॒द्धा उ॒ग्रस्य॒ शव᳚सः ।
अप॒ द्वेषो॒ अप॒ ह्वरो॒॑न्यव्र᳚तस्य सश्चिरे ॥
▶ पदपाठः (Word-by-word)
ये । अ॒ग्ने॒ । न । ई॒रय᳚न्ति । ते॒ । वृ॒द्धाः । उ॒ग्रस्य᳚ । शव᳚सः ।
अप᳚ । द्वेषः᳚ । अप᳚ । ह्वरः᳚ । अ॒न्य॑व्र᳚तस्य । स॒श्चि॒रे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने येजनाःवृद्धाः पश्वादिलक्षणैर्धनैः समृद्धाः सन्तः तेतुभ्यंनेरयन्ति हवींषिनप्रयच्छन्ति तेउग्रस्य अधिकेनशवसोबलेन अन्नेनवा अप अपनीताः बलान्नहीनाभवन्तीत्यर्थः किंच अन्यव्रतस्य अन्यद्वैदिकाद्विभक्तंव्रतंकर्मस्यतस्यासुरस्यद्वेषः तत्संबंधिनंविरोधं ह्वरोहिंसाच अपसश्चिरे आत्मानं प्रापयन्ति ॥ २ ॥

5.20.3
होता᳚रं त्वा वृणीम॒हे॑ग्ने॒ दक्ष᳚स्य॒ साध᳚नम् ।
य॒ज्ञेषु᳚ पू॒र्व्यं गि॒रा प्रय᳚स्वन्तो हवामहे ॥
▶ पदपाठः (Word-by-word)
होता᳚रम् । त्वा॒ । वृ॒णी॒म॒हे॒ । अग्ने᳚ । दक्ष᳚स्य । साध᳚नम् ।
य॒ज्ञेषु᳚ । पू॒र्व्यम् । गि॒रा । प्रय᳚स्वन्तः । ह॒वा॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने प्रयस्वन्तोन्नवन्तः एतन्नामकावयं दक्षस्यबलस्यसाधनं साधयितारं त्वां होतारं देवानामाह्वातारंवृणीमहे किंच यज्ञेषु पूर्व्यंमुख्यंत्वां गिरास्तुतिरूपयावाचाहवामहे स्तुमः ॥ ३ ॥

5.20.4
इ॒त्था यथा᳚ त ऊ॒तये॒ सह᳚सावन्दि॒वेदि᳚वे ।
रा॒य ऋ॒ताय᳚ सुक्रतो॒ गोभि᳚ः ष्याम सध॒मादो᳚ वी॒रैः स्या᳚म सध॒मादः᳚ ॥
▶ पदपाठः (Word-by-word)
इ॒त्था । यथा᳚ । ते॒ । ऊ॒तये᳚ । सह᳚सा॑वन् । दि॒वे॑दि᳚वे ।
रा॒ये । ऋ॒ताय᳚ । सु॒क्र॒तो॒ इति᳚ सु॑क्रतो । गोभिः᳚ । स्या॒म॒ । स॒ध॒॑मादः᳚ । वी॒रैः । स्या॒म॒ । स॒ध॒॑मादः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेसहसावन् बलवन्नग्ने दिवेदिवे अन्वहं वयं ते तव ऊतये रक्षणाय यथास्याम तथा इत्थाइत्थंकुरु हेसुक्रतो राये धनाय ऋताय यज्ञायच यथायच यथास्याम तथाकुरु किंच गोभिः सधमादः सहमाद्यन्तः स्याम वीरैः पुत्रैश्चधमादः सहमाद्यंतः स्याम तथाकुरु ॥ ४ ॥

मनुष्वत्त्वेतिचतुरृचंसप्तमंसूक्तं आत्रेयस्यससस्यार्षं मनुष्वत्ससइत्यनुक्रमणिका पंक्त्यंतंहेतिपूर्वोक्तत्वादिदमादीनित्रीणि -सूक्तानिपंक्त्यन्तानि शिष्टाअनुष्टुभः अग्निर्देवता प्रातरनुवाकाश्विनशस्त्रयोरुक्तोविनियोगः ।