उ॒पस्थे᳚ मा॒तुर्वि च᳚ष्टे ॥
पदपाठः (Word-by-word)
उ॒प॑स्थे᳚ । मा॒तुः । वि । च॒ष्टे॒ ॥
सायणभाष्यम् (Sayana Commentary)
वव्रेः ऋषेः उत्तरोत्तरमवस्थाः अशोभनादशाः प्रजायन्ते तादृशीः वव्रिर्हविषां संभक्तासोग्निः प्रचिकेत प्रजानीयात् ज्ञात्वाचापनयत्वितिभावः योग्निर्मातुः पृथिव्याउपस्थेसमीपेस्थितंपदार्थजातं विचष्टे पश्यति ॥ १ ॥