प्रि॒यं दु॒ग्धं न काम्य॒मजा᳚मि जा॒म्योः सचा᳚ ।
घ॒र्मो न वाज᳚जठ॒रो॑द᳚ब्ध॒ः शश्व᳚तो॒ दभः᳚ ॥
घ॒र्मो न वाज᳚जठ॒रो॑द᳚ब्ध॒ः शश्व᳚तो॒ दभः᳚ ॥
पदपाठः (Word-by-word)
प्रि॒यम् । दु॒ग्धम् । न । काम्य᳚म् । अजा᳚मि । जा॒म्योः । सचा᳚ ।
घ॒र्मः । न । वाज᳚॑जठरः । अद᳚ब्धः । शश्व᳚तः । दभः᳚ ॥
घ॒र्मः । न । वाज᳚॑जठरः । अद᳚ब्धः । शश्व᳚तः । दभः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
जाम्योर्द्यावापृथिव्योः सचासहायभूतोग्निः दुग्धनं पयइव काम्यंकमनीयं अजामि दोषरहितंप्रियंअस्मदीयंस्तोत्रंश्रृणोतु किंविधोग्निः घर्मोन प्रवर्ग्यइव वाजजठरः वाजोन्नंजठरेयस्यसः घर्मोयथाहव्येनाज्येनपयसा आसिक्तोवाजजठरः तद्वद्धविर्जठरइत्यर्थः अदब्धः शत्रुभिः स्वयमहिंसितः शश्वतः शाश्वतोनित्यः दभः शत्रूणांहिंसकः ॥ ४ ॥