श्रवणम्

5.19.3 समानपद
आ श्वै᳚त्रे॒यस्य᳚ ज॒न्तवो᳚ द्यु॒मद्व᳚र्धन्त कृ॒ष्टयः᳚ ।
नि॒ष्कग्री᳚वो बृ॒हदु᳚क्थ ए॒ना मध्वा॒ न वा᳚ज॒युः ॥
▶ पदपाठः (Word-by-word)
आ । श्वै॒त्रे॒यस्य᳚ । ज॒न्तवः᳚ । द्यु॒॑मत् । व॒र्ध॒न्त॒ । कृ॒ष्टयः᳚ ।
नि॒ष्क॑ग्री᳚वः । बृ॒हत्॑उ᳚क्थः । ए॒ना । मध्वा᳚ । न । वा॒ज॒॑युः ॥
▶ सायणभाष्यम् (Sayana Commentary)

जायन्तइतिजन्तवः कृष्टयोमनुष्याऋत्विजः मध्वान मधुनेव एना एनयास्तुत्या यद्वा नकारश्चार्थे मधुनाचश्वैत्रेयस्यश्वित्रमन्तरिक्षं तत्रभवस्यवैद्युतस्याग्नेर्द्युमत् दीप्तिमत् बलं आवर्धन्त अभिवर्धयन्ति किंविधाः कृष्टयः निष्कग्रीवः निष्केणसुवर्णेनालंकृतग्नीवाः व्यत्ययेनैकवचनं बृहदुक्थः बृहत्स्तोत्राः वाजयुः अन्नकामाः ॥ ३ ॥