जु॒हु॒रे वि चि॒तय॒न्तो॑नि᳚मिषं नृ॒म्णं पा᳚न्ति ।
आ दृ॒ळ्हां पुरं᳚ विविशुः ॥
आ दृ॒ळ्हां पुरं᳚ विविशुः ॥
पदपाठः (Word-by-word)
जु॒हु॒रे । वि । चि॒तय᳚न्तः । अनि᳚॑मिषम् । नृ॒म्णम् । पा॒न्ति॒ ।
आ । दृ॒ळ्हाम् । पुर᳚म् । वि॒वि॒शुः॒ ॥
आ । दृ॒ळ्हाम् । पुर᳚म् । वि॒वि॒शुः॒ ॥
सायणभाष्यम् (Sayana Commentary)
येविचितयन्तः तव प्रभावंजानंतोजनाः अनिमिषं सर्वदाविजुहुरे जुह्विरे विशेषेणयज्ञार्थंत्वामाह्वयन्ति आहूयच नृम्णं तवबलं हविर्भिःस्तोत्रैश्च पांति रक्षंति तेदृह्ळां शत्रुभिःसाधयितुमशक्यांपुरं पुरीं आविविशुः प्रविशन्ति शतंपूर्भिरायसीभिर्निपाहीतिनिगमः ॥ २ ॥