अ॒भ्य᳚व॒स्थाः प्र जा᳚यन्ते॒ प्र व॒व्रेर्व॒व्रिश्चि᳚केत ।
उ॒पस्थे᳚ मा॒तुर्वि च᳚ष्टे ॥
उ॒पस्थे᳚ मा॒तुर्वि च᳚ष्टे ॥
पदपाठः (Word-by-word)
अ॒भि । अ॒व॒॑स्थाः । प्र । जा॒य॒न्ते॒ । प्र । व॒व्रेः । व॒व्रिः । चि॒के॒त॒ ।
उ॒प॑स्थे᳚ । मा॒तुः । वि । च॒ष्टे॒ ॥
उ॒प॑स्थे᳚ । मा॒तुः । वि । च॒ष्टे॒ ॥
सायणभाष्यम् (Sayana Commentary)
वव्रेः ऋषेः उत्तरोत्तरमवस्थाः अशोभनादशाः प्रजायन्ते तादृशीः वव्रिर्हविषां संभक्तासोग्निः प्रचिकेत प्रजानीयात् ज्ञात्वाचापनयत्वितिभावः योग्निर्मातुः पृथिव्याउपस्थेसमीपेस्थितंपदार्थजातं विचष्टे पश्यति ॥ १ ॥